🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 82

The Book of the Forest · Parva 3 · 143 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 143 Shlokas

MBh 3.82.1
पुलस्त्य उवाच ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः आसप्तमं कुलं राजन्पुनीते नात्र संशयः
MBh 3.82.2
ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम् अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति
MBh 3.82.3
सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
MBh 3.82.4
सिद्धचारणगन्धर्वाः किंनराः समहोरगाः तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते
MBh 3.82.5
ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी प्लक्षाद्देवी स्रुता राजन्महापुण्या सरस्वती
MBh 3.82.6
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत्
MBh 3.82.7
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः
MBh 3.82.8
कपिलानां सहस्रं च वाजिमेधं च विन्दति तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने
MBh 3.82.9
सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते
MBh 3.82.10
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः गाणपत्यं स लभते देहं त्यक्त्वा न संशयः
MBh 3.82.11
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् शाकंभरीति विख्याता त्रिषु लोकेषु विश्रुता
MBh 3.82.12
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत आहारं सा कृतवती मासि मासि नराधिप
MBh 3.82.13
ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः आतिथ्यं च कृतं तेषां शाकेन किल भारत ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम्
MBh 3.82.14
शाकंभरीं समासाद्य ब्रह्मचारी समाहितः त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः
MBh 3.82.15
शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् तत्फलं तस्य भवति देव्याश्छन्देन भारत
MBh 3.82.16
ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम् यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा
MBh 3.82.17
वरांश्च सुबहूँल्लेभे दैवतेषु सुदुर्लभान् उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत
MBh 3.82.18
अपि चास्मत्प्रियतरो लोके कृष्ण भविष्यसि त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः
MBh 3.82.19
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् अश्वमेधमवाप्नोति गाणपत्यं च विन्दति
MBh 3.82.20
धूमावतीं ततो गच्छेत्त्रिरत्रोपोषितो नरः मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः
MBh 3.82.21
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः महादेवप्रसादाद्धि गच्छेत परमां गतिम्
MBh 3.82.22
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप
MBh 3.82.23
ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः
MBh 3.82.24
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत्
MBh 3.82.25
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् देवान्पितॄंश्च विधिवत्पुण्यलोके महीयते
MBh 3.82.26
ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
MBh 3.82.27
कपिलावटं च गच्छेत तीर्थसेवी नराधिप उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत्
MBh 3.82.28
नागराजस्य राजेन्द्र कपिलस्य महात्मनाः तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम्
MBh 3.82.29
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप कपिलानां सहस्रस्य फलं प्राप्नोति मानवः
MBh 3.82.30
ततो ललितिकां गच्छेच्छंतनोस्तीर्थमुत्तमम् तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्
MBh 3.82.31
गङ्गासंगमयोश्चैव स्नाति यः संगमे नरः दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत्
MBh 3.82.32
ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम् सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते
MBh 3.82.33
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते
MBh 3.82.34
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति
MBh 3.82.35
भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति
MBh 3.82.36
ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति
MBh 3.82.37
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः गोसहस्रफलं विन्देत्कुलं चैव समुद्धरेत्
MBh 3.82.38
ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
MBh 3.82.39
यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते
MBh 3.82.40
दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
MBh 3.82.41
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् तत्रोष्य रजनीः पञ्च विन्द्याद्बहु सुवर्णकम्
MBh 3.82.42
अथ वेदीं समासाद्य नरः परमदुर्गमाम् अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम्
MBh 3.82.43
ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः
MBh 3.82.44
ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते यदि तत्र वसेन्मासं शाकाहारो नराधिप
MBh 3.82.45
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते
MBh 3.82.46
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत्
MBh 3.82.47
ततः संध्यां समासाद्य विद्यातीर्थमनुत्तमम् उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत्
MBh 3.82.48
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने एककालं निराहारो लोकानावसते शुभान्
MBh 3.82.49
षष्ठकालोपवासेन मासमुष्य महालये सर्वपापविशुद्धात्मा विन्द्याद्बहु सुवर्णकम्
MBh 3.82.50
अथ वेतसिकां गत्वा पितामहनिषेविताम् अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम्
MBh 3.82.51
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् रूपस्य भागी भवति दृष्टमेतत्पुरातने
MBh 3.82.52
ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते
MBh 3.82.53
ततश्च नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् तत्र नित्यं निवसति ब्रह्मा देवगणैर्वृतः
MBh 3.82.54
नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते
MBh 3.82.55
तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत
MBh 3.82.56
अभिषेककृतस्तत्र नियतो नियताशनः गवामयस्य यज्ञस्य फलं प्राप्नोति भारत पुनात्यासप्तमं चैव कुलं भरतसत्तम
MBh 3.82.57
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः स मोदेत्स्वर्गलोकस्थ एवमाहुर्मनीषिणः नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम
MBh 3.82.58
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः वाजपेयमवाप्नोति ब्रह्मभूतश्च जायते
MBh 3.82.59
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः सारस्वतेषु लोकेषु मोदते नात्र संशयः
MBh 3.82.60
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः
MBh 3.82.61
ततश्चीरवतीं गच्छेत्पुण्यां पुण्यतमैर्वृताम् पितृदेवार्चनरतो वाजपेयमवाप्नुयात्
MBh 3.82.62
विमलाशोकमासाद्य विराजति यथा शशी तत्रोष्य रजनीमेकां स्वर्गलोके महीयते
MBh 3.82.63
गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः
MBh 3.82.64
देहं त्यक्त्वा दिवं यातस्तस्य तीर्थस्य तेजसा रामस्य च प्रसादेन व्यवसायाच्च भारत
MBh 3.82.65
तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप सर्वपापविशुद्धात्मा स्वर्गलोके महीयते
MBh 3.82.66
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन अश्वमेधमवाप्नोति पुनाति च कुलं नरः
MBh 3.82.67
शतसाहस्रिकं तत्र तीर्थं भरतसत्तम तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ
MBh 3.82.68
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप गोसहस्रफलं विन्देत्तेजस्वी च भवेन्नरः
MBh 3.82.69
ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत्
MBh 3.82.70
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत्
MBh 3.82.71
ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः अश्वमेधमवाप्नोति गमनादेव भारत
MBh 3.82.72
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो
MBh 3.82.73
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत्
MBh 3.82.74
ततो ब्रह्मसरो गच्छेद्धर्मारण्योपशोभितम् पौण्डरीकमवाप्नोति प्रभातामेव शर्वरीम्
MBh 3.82.75
तस्मिन्सरसि राजेन्द्र ब्रह्मणो यूप उच्छ्रितः यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत्
MBh 3.82.76
ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम्
MBh 3.82.77
तत्र चिह्नं महाराज अद्यापि हि न संशयः कपिला सह वत्सेन पर्वते विचरत्युत सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत
MBh 3.82.78
तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम यत्किंचिदशुभं कर्म तत्प्रणश्यति भारत
MBh 3.82.79
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम्
MBh 3.82.80
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् इतरेषां तु वर्णानां सर्वपापं प्रणश्यति
MBh 3.82.81
गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् सावित्रं तु पदं तत्र दृश्यते भरतर्षभ
MBh 3.82.82
तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः उपास्ता च भवेत्संध्या तेन द्वादशवार्षिकी
MBh 3.82.83
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात्
MBh 3.82.84
कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः
MBh 3.82.85
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्
MBh 3.82.86
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत्
MBh 3.82.87
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर अभिगम्य ततस्तत्र वाजिमेधफलं लभेत्
MBh 3.82.88
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् तत्रार्चयित्वा राजेन्द्र ब्रह्माणममितौजसम् राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
MBh 3.82.89
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप उपस्पृश्य तपोदेषु काक्षीवानिव मोदते
MBh 3.82.90
यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः यक्षिण्यास्तु प्रसादेन मुच्यते भ्रूणहत्यया
MBh 3.82.91
मणिनागं ततो गत्वा गोसहस्रफलं लभेत् नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः
MBh 3.82.92
दष्टस्याशीविषेणापि न तस्य क्रमते विषम् तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते
MBh 3.82.93
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम्
MBh 3.82.94
तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात्
MBh 3.82.95
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात्
MBh 3.82.96
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् वाजपेयमवाप्नोति सोमलोकं च गच्छति
MBh 3.82.97
गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् वाजपेयमवाप्नोति सूर्यलोकं च गच्छति
MBh 3.82.98
ततोऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम् गुह्यकेषु महाराज मोदते नात्र संशयः
MBh 3.82.99
कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम् पुण्डरीकमवाप्नोति सूर्यलोकं च गच्छति
MBh 3.82.100
ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति
MBh 3.82.101
अथ माहेश्वरीं धारां समासाद्य नराधिप अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
MBh 3.82.102
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः न दुर्गतिमवाप्नोति वाजपेयं च विन्दति
MBh 3.82.103
महेश्वरपदं गच्छेद्ब्रह्मचारी समाहितः महेश्वरपदे स्नात्वा वाजिमेधफलं लभेत्
MBh 3.82.104
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना ह्रियमाणाहृता राजन्विष्णुना प्रभविष्णुना
MBh 3.82.105
तत्राभिषेकं कुर्वाणस्तीर्थकोट्यां युधिष्ठिर पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति
MBh 3.82.106
ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु सदा संनिहितो यत्र हरिर्वसति भारत शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः
MBh 3.82.107
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
MBh 3.82.108
तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात्
MBh 3.82.109
अभिगम्य महादेवं वरदं विष्णुमव्ययम् विराजति यथा सोम ऋणैर्मुक्तो युधिष्ठिर
MBh 3.82.110
जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः
MBh 3.82.111
वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् ईप्सिताँल्लभते कामानुपवासान्न संशयः
MBh 3.82.112
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात्
MBh 3.82.113
भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् कौशिकीं तत्र सेवेत महापातकनाशिनीम् राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः
MBh 3.82.114
ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
MBh 3.82.115
अथ ज्येष्ठिलमासाद्य तीर्थं परमसंमतम् उपोष्य रजनीमेकामग्निष्टोमफलं लभेत्
MBh 3.82.116
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ
MBh 3.82.117
कन्यासंवेद्यमासाद्य नियतो नियताशनः मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ
MBh 3.82.118
कन्यायां ये प्रयच्छन्ति पानमन्नं च भारत तदक्षयमिति प्राहुरृषयः संशितव्रताः
MBh 3.82.119
निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम् अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
MBh 3.82.120
ये तु दानं प्रयच्छन्ति निश्चीरासंगमे नराः ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः
MBh 3.82.121
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात्
MBh 3.82.122
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
MBh 3.82.123
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् यत्र सिद्धिं परां प्राप्तो विश्वामित्रोऽथ कौशिकः
MBh 3.82.124
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति
MBh 3.82.125
सर्वतीर्थवरे चैव यो वसेत महाह्रदे न दुर्गतिमवाप्नोति विन्देद्बहु सुवर्णकम्
MBh 3.82.126
कुमारमभिगत्वा च वीराश्रमनिवासिनम् अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः
MBh 3.82.127
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् अग्निष्टोममवाप्नोति न च स्वर्गान्निवर्तते
MBh 3.82.128
पितामहसरो गत्वा शैलराजप्रतिष्ठितम् तत्राभिषेकं कुर्वाणो अग्निष्टोमफलं लभेत्
MBh 3.82.129
पितामहस्य सरसः प्रस्रुता लोकपावनी कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता
MBh 3.82.130
यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया
MBh 3.82.131
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत्
MBh 3.82.132
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः हयमेधमवाप्नोति शक्रलोकं च गच्छति
MBh 3.82.133
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः अश्वमेधमवाप्नोति शक्रलोकं च गच्छति
MBh 3.82.134
नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह
MBh 3.82.135
कालिकासंगमे स्नात्वा कौशिक्यारुणयोर्यतः त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते
MBh 3.82.136
उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः
MBh 3.82.137
स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातने
MBh 3.82.138
सकृन्नन्दां समासाद्य कृतात्मा भवति द्विजः सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति
MBh 3.82.139
ऋषभद्वीपमासाद्य सेव्यं क्रौञ्चनिषूदनम् सरस्वत्यामुपस्पृश्य विमानस्थो विराजते
MBh 3.82.140
औद्दालकं महाराज तीर्थं मुनिनिषेवितम् तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते
MBh 3.82.141
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः
MBh 3.82.142
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः दण्डार्कमभिगम्यैव गोसहस्रफलं लभेत्
MBh 3.82.143
लवेडिकां ततो गच्छेत्पुण्यां पुण्योपसेविताम् वाजपेयमवाप्नोति विमानस्थश्च पूज्यते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 143 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.82local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷