🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 81

The Book of the Forest · Parva 3 · 178 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 178 Shlokas

MBh 3.81.1
पुलस्त्य उवाच ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः
MBh 3.81.2
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते
MBh 3.81.3
तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः
MBh 3.81.4
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत
MBh 3.81.5
मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति
MBh 3.81.6
गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
MBh 3.81.7
ततो मचक्रुकं राजन्द्वारपालं महाबलम् यक्षं समभिवाद्यैव गोसहस्रफलं लभेत्
MBh 3.81.8
ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् सततं नाम राजेन्द्र यत्र संनिहितो हरिः
MBh 3.81.9
तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम् अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
MBh 3.81.10
ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः
MBh 3.81.11
पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप दशाश्वमेधिके स्नात्वा तदेव लभते फलम्
MBh 3.81.12
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् अग्निष्टोममवाप्नोति नागलोकं च विन्दति
MBh 3.81.13
ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम् तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
MBh 3.81.14
ततः पञ्चनदं गत्वा नियतो नियताशनः कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् अश्विनोस्तीर्थमासाद्य रूपवानभिजायते
MBh 3.81.15
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत् तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत्
MBh 3.81.16
ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत् स्नात्वा फलमवाप्नोति राजसूयस्य मानवः
MBh 3.81.17
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः
MBh 3.81.18
ततो मुञ्जवटं नाम महादेवस्य धीमतः तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात्
MBh 3.81.19
तत्रैव च महाराज यक्षी लोकपरिश्रुता तां चाभिगम्य राजेन्द्र पुण्याँल्लोकानवाप्नुयात्
MBh 3.81.20
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः
MBh 3.81.21
संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः जामदग्न्येन रामेण आहृते वै महात्मना कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति
MBh 3.81.22
ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः
MBh 3.81.23
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् पितरस्तर्पिताः सर्वे तथैव च पितामहाः ततस्ते पितरः प्रीता राममूचुर्महीपते
MBh 3.81.24
राम राम महाभाग प्रीताः स्म तव भार्गव अनया पितृभक्त्या च विक्रमेण च ते विभो वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते
MBh 3.81.25
एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान्
MBh 3.81.26
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः
MBh 3.81.27
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः
MBh 3.81.28
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः
MBh 3.81.29
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया
MBh 3.81.30
ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः
MBh 3.81.31
ह्रदेष्वेतेषु यः स्नात्वा पितॄन्संतर्पयिष्यति पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम्
MBh 3.81.32
एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्तदा
MBh 3.81.33
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम्
MBh 3.81.34
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके
MBh 3.81.35
कायशोधनमासाद्य तीर्थं भरतसत्तम शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान्
MBh 3.81.36
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना
MBh 3.81.37
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम्
MBh 3.81.38
कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा कपिलानां सहस्रस्य फलं विन्दति मानवः
MBh 3.81.39
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः अर्चयित्वा पितॄन्देवानुपवासपरायणः अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति
MBh 3.81.40
गवांभवनमासाद्य तीर्थसेवी यथाक्रमम् तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत्
MBh 3.81.41
शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम्
MBh 3.81.42
ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम् तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्
MBh 3.81.43
ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात्
MBh 3.81.44
ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् यत्र संनिहिता नित्यं पितरो दैवतैः सह
MBh 3.81.45
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः अश्वमेधमवाप्नोति पितृलोकं च गच्छति
MBh 3.81.46
ततोऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते
MBh 3.81.47
मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम्
MBh 3.81.48
ततः शीतवनं गच्छेन्नियतो नियताशनः तीर्थं तत्र महाराज महदन्यत्र दुर्लभम्
MBh 3.81.49
पुनाति दर्शनादेव दण्डेनैकं नराधिप केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत
MBh 3.81.50
तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः
MBh 3.81.51
श्वानलोमापनयने तीर्थे भरतसत्तम प्राणायामैर्निर्हरन्ति श्वलोमानि द्विजोत्तमाः
MBh 3.81.52
पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम् दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम्
MBh 3.81.53
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः अवगाह्य तस्मिन्सरसि मानुषत्वमुपागताः
MBh 3.81.54
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः सर्वपापविशुद्धात्मा स्वर्गलोके महीयते
MBh 3.81.55
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते आपगा नाम विख्याता नदी सिद्धनिषेविता
MBh 3.81.56
श्यामाकभोजनं तत्र यः प्रयच्छति मानवः देवान्पितॄंश्च उद्दिश्य तस्य धर्मफलं महत् एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता
MBh 3.81.57
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा उषित्वा रजनीमेकामग्निष्टोमफलं लभेत्
MBh 3.81.58
ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत
MBh 3.81.59
तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुंगव केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः
MBh 3.81.60
ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते
MBh 3.81.61
कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः
MBh 3.81.62
ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् लभते सर्वकामान्हि स्वर्गलोकं च गच्छति
MBh 3.81.63
तिस्रः कोट्यस्तु तीर्थानां सरके कुरुनन्दन रुद्रकोटिस्तथा कूपे ह्रदेषु च महीपते इलास्पदं च तत्रैव तीर्थं भरतसत्तम
MBh 3.81.64
तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च भारत न दुर्गतिमवाप्नोति वाजपेयं च विन्दति
MBh 3.81.65
किंदाने च नरः स्नात्वा किंजप्ये च महीपते अप्रमेयमवाप्नोति दानं जप्यं च भारत
MBh 3.81.66
कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः
MBh 3.81.67
सरकस्य तु पूर्वेण नारदस्य महात्मनः तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम्
MBh 3.81.68
तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान्
MBh 3.81.69
शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत्
MBh 3.81.70
ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् तत्र वैतरणी पुण्या नदी पापप्रमोचनी
MBh 3.81.71
तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्
MBh 3.81.72
ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् यत्र देवाः सदा राजन्फलकीवनमाश्रिताः तपश्चरन्ति विपुलं बहुवर्षसहस्रकम्
MBh 3.81.73
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत
MBh 3.81.74
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः
MBh 3.81.75
पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः राजसूयमवाप्नोति ऋषिलोकं च गच्छति
MBh 3.81.76
ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना
MBh 3.81.77
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः
MBh 3.81.78
ततो व्यासवनं गच्छेन्नियतो नियताशनः मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत्
MBh 3.81.79
गत्वा मधुवटीं चापि देव्यास्तीर्थं नरः शुचिः तत्र स्नात्वार्चयेद्देवान्पितॄंश्च प्रयतः शुचिः स देव्या समनुज्ञातो गोसहस्रफलं लभेत्
MBh 3.81.80
कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते
MBh 3.81.81
ततो व्यासस्थली नाम यत्र व्यासेन धीमता पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः
MBh 3.81.82
कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत्
MBh 3.81.83
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह
MBh 3.81.84
अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात्
MBh 3.81.85
मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः शूलपाणिं महादेवमश्वमेधफलं लभेत्
MBh 3.81.86
देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् अथ वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम्
MBh 3.81.87
तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात्
MBh 3.81.88
कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते
MBh 3.81.89
अमराणां ह्रदे स्नात्वा अमरेषु नराधिप अमराणां प्रभावेन स्वर्गलोके महीयते
MBh 3.81.90
शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत्
MBh 3.81.91
श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्
MBh 3.81.92
ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा
MBh 3.81.93
ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान्
MBh 3.81.94
तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत्
MBh 3.81.95
ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम्
MBh 3.81.96
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम् तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात्
MBh 3.81.97
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः
MBh 3.81.98
पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम् क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत्
MBh 3.81.99
स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः
MBh 3.81.100
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्
MBh 3.81.101
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि
MBh 3.81.102
ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत
MBh 3.81.103
अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव
MBh 3.81.104
ऋषिरुवाच किं न पश्यसि मे देव कराच्छाकरसं स्रुतम् यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः
MBh 3.81.105
पुलस्त्य उवाच तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् अहं वै विस्मयं विप्र न गच्छामीति पश्य माम्
MBh 3.81.106
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ
MBh 3.81.107
ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः
MBh 3.81.108
नान्यं देवमहं मन्ये रुद्रात्परतरं महत् सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक्
MBh 3.81.109
त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये
MBh 3.81.110
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोऽनघ
MBh 3.81.111
सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत्
MBh 3.81.112
ऋषिरुवाच त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै
MBh 3.81.113
पुलस्त्य उवाच ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा
MBh 3.81.114
आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम्
MBh 3.81.115
न तेषां दुर्लभं किंचिदिह लोके परत्र च सारस्वतं च ते लोकं गमिष्यन्ति न संशयः
MBh 3.81.116
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
MBh 3.81.117
कार्त्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया
MBh 3.81.118
कपालमोचनं तीर्थं सर्वपापप्रमोचनम् तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते
MBh 3.81.119
अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत्
MBh 3.81.120
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते
MBh 3.81.121
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः
MBh 3.81.122
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
MBh 3.81.123
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना
MBh 3.81.124
तत्सर्वं नश्यते तस्य स्नातमात्रस्य भारत अश्वमेधफलं चापि स्वर्गलोकं च गच्छति
MBh 3.81.125
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्
MBh 3.81.126
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् पृथूदके जप्यपरो नैनं श्वोमरणं तपेत्
MBh 3.81.127
गीतं सनत्कुमारेण व्यासेन च महात्मना वेदे च नियतं राजनभिगच्छेत्पृथूदकम्
MBh 3.81.128
पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम एतन्मेध्यं पवित्रं च पावनं च न संशयः
MBh 3.81.129
तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः
MBh 3.81.130
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
MBh 3.81.131
ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम्
MBh 3.81.132
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः
MBh 3.81.133
आसप्तमं कुलं चैव पुनाति भरतर्षभ अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा
MBh 3.81.134
व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः
MBh 3.81.135
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने
MBh 3.81.136
समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा येषु स्नातो नरव्याघ्र न दुर्गतिमवाप्नुयात् फलानि गोसहस्राणां चतुर्णां विन्दते च सः
MBh 3.81.137
ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते
MBh 3.81.138
उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् दानं वाप्युपवासो वा सहस्रगुणितं भवेत्
MBh 3.81.139
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत्
MBh 3.81.140
विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते
MBh 3.81.141
ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः पुण्येन महता युक्तः सतां लोके महीयते
MBh 3.81.142
यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः तमर्चयित्वा देवेशं गमनादेव सिध्यति
MBh 3.81.143
औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः सेनापत्येन देवानामभिषिक्तो गुहस्तदा
MBh 3.81.144
औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते
MBh 3.81.145
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति
MBh 3.81.146
ततो गच्छेदनरकं तीर्थसेवी नराधिप तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्
MBh 3.81.147
तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः
MBh 3.81.148
सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात्
MBh 3.81.149
तत्रैव च महाराज विश्वेश्वरमुमापतिम् अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः
MBh 3.81.150
नारायणं चाभिगम्य पद्मनाभमरिंदमम् शोभमानो महाराज विष्णुलोकं प्रपद्यते
MBh 3.81.151
तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ सर्वदुःखैः परित्यक्तो द्योतते शशिवत्सदा
MBh 3.81.152
ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः
MBh 3.81.153
गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते
MBh 3.81.154
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम्
MBh 3.81.155
ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम् तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात्
MBh 3.81.156
बदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं ततः बदरं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः
MBh 3.81.157
सम्यग्द्वादश वर्षाणि बदरान्भक्षयेत्तु यः त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप
MBh 3.81.158
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप अहोरात्रोपवासेन शक्रलोके महीयते
MBh 3.81.159
एकरात्रं समासाद्य एकरात्रोषितो नरः नियतः सत्यवादी च ब्रह्मलोके महीयते
MBh 3.81.160
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः
MBh 3.81.161
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्
MBh 3.81.162
सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः
MBh 3.81.163
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम्
MBh 3.81.164
यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् सारस्वतीं गतिं चैव लभते नात्र संशयः
MBh 3.81.165
ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् त्रिरात्रोपोषितो राजन्नुपवासपरायणः लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति
MBh 3.81.166
ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः मासि मासि समायान्ति पुण्येन महतान्विताः
MBh 3.81.167
संनिहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे अश्वमेधशतं तेन इष्टं भवति शाश्वतम्
MBh 3.81.168
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च
MBh 3.81.169
उदपानाश्च वप्राश्च पुण्यान्यायतनानि च मासि मासि समायान्ति संनिहित्यां न संशयः
MBh 3.81.170
यत्किंचिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति
MBh 3.81.171
अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम् कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम्
MBh 3.81.172
गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम्
MBh 3.81.173
पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते
MBh 3.81.174
पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्
MBh 3.81.175
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे
MBh 3.81.176
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते
MBh 3.81.177
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् तदावसन्ति ये राजन्न ते शोच्याः कथंचन
MBh 3.81.178
तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य एतत्कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिरुच्यते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 178 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.81local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷