🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 80
The Book of the Forest · Parva 3 · 133 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 133 Shlokas
MBh 3.80.1
वैशंपायन उवाच
धनंजयोत्सुकास्ते तु वने तस्मिन्महारथाः
न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः
MBh 3.80.2
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम्
MBh 3.80.3
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः
विबभावतिदीप्तौजा देवैरिव शतक्रतुः
MBh 3.80.4
यथा च वेदान्सावित्री याज्ञसेनी तथा सती
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा
MBh 3.80.5
प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ
MBh 3.80.6
उवाच च महात्मानं धर्मराजं युधिष्ठिरम्
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते
MBh 3.80.7
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह
उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम्
MBh 3.80.8
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत
MBh 3.80.9
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि
MBh 3.80.10
प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि
MBh 3.80.11
नारद उवाच
शृणु राजन्नवहितो यथा भीष्मेण भारत
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम्
MBh 3.80.12
पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा
MBh 3.80.13
शुभे देशे महाराज पुण्ये देवर्षिसेविते
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते
MBh 3.80.14
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः
ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा
MBh 3.80.15
कस्यचित्त्वथ कालस्य जपन्नेव महातपाः
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम्
MBh 3.80.16
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया
प्रहर्षमतुलं लेभे विस्मयं च परं ययौ
MBh 3.80.17
उपस्थितं महाराज पूजयामास भारत
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा
MBh 3.80.18
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः
नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे
MBh 3.80.19
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः
MBh 3.80.20
एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर
MBh 3.80.21
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम्
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत्
MBh 3.80.22
पुलस्त्य उवाच
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च
सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः
MBh 3.80.23
यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ
तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि
MBh 3.80.24
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ
MBh 3.80.25
भीष्म उवाच
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम्
MBh 3.80.26
यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर
वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि
MBh 3.80.27
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः
तमहं श्रोतुमिच्छामि पृथक्संकीर्तितं त्वया
MBh 3.80.28
प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन
MBh 3.80.29
पुलस्त्य उवाच
हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम्
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम्
MBh 3.80.30
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते
MBh 3.80.31
प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते
MBh 3.80.32
अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः
विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते
MBh 3.80.33
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते
MBh 3.80.34
ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम्
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः
MBh 3.80.35
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते
बहूपकरणा यज्ञा नानासंभारविस्तराः
MBh 3.80.36
प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित्
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः
MBh 3.80.37
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर
MBh 3.80.38
ऋषीणां परमं गुह्यमिदं भरतसत्तम
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते
MBh 3.80.39
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते
MBh 3.80.40
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत्
MBh 3.80.41
नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्
पुष्करं नाम विख्यातं महाभागः समाविशेत्
MBh 3.80.42
दश कोटिसहस्राणि तीर्थानां वै महीपते
सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन
MBh 3.80.43
आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः
गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो
MBh 3.80.44
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा
दिव्ययोगा महाराज पुण्येन महतान्विताः
MBh 3.80.45
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते
MBh 3.80.46
तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः
उवास परमप्रीतो देवदानवसंमतः
MBh 3.80.47
पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः
सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः
MBh 3.80.48
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः
MBh 3.80.49
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते
MBh 3.80.50
शाकमूलफलैर्वापि येन वर्तयते स्वयम्
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः
MBh 3.80.51
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम
न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः
MBh 3.80.52
कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम्
फलं तत्राक्षयं तस्य वर्धते भरतर्षभ
MBh 3.80.53
सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान्
MBh 3.80.54
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति
MBh 3.80.55
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते
MBh 3.80.56
उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति
MBh 3.80.57
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते
कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत्
MBh 3.80.58
दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम्
MBh 3.80.59
उष्य द्वादशरात्रं तु नियतो नियताशनः
प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत्
MBh 3.80.60
जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
MBh 3.80.61
तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम्
MBh 3.80.62
जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम्
न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते
MBh 3.80.63
अगस्त्यसर आसाद्य पितृदेवार्चने रतः
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत्
MBh 3.80.64
शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम्
कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम्
MBh 3.80.65
धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ
यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते
MBh 3.80.66
अर्चयित्वा पितॄन्देवान्नियतो नियताशनः
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते
MBh 3.80.67
प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत्
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै
MBh 3.80.68
महाकालं ततो गच्छेन्नियतो नियताशनः
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्
MBh 3.80.69
ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम्
MBh 3.80.70
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात्
MBh 3.80.71
नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम्
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्
MBh 3.80.72
दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः
अग्निष्टोममवाप्नोति विमानं चाधिरोहति
MBh 3.80.73
चर्मण्वतीं समासाद्य नियतो नियताशनः
रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत्
MBh 3.80.74
ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम्
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर
MBh 3.80.75
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
MBh 3.80.76
पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः
कपिलानां नरव्याघ्र शतस्य फलमश्नुते
MBh 3.80.77
ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम्
यत्र संनिहितो नित्यं स्वयमेव हुताशनः
देवतानां मुखं वीर अनलोऽनिलसारथिः
MBh 3.80.78
तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः
MBh 3.80.79
ततो गत्वा सरस्वत्याः सागरस्य च संगमे
गोसहस्रफलं प्राप्य स्वर्गलोके महीयते
दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ
MBh 3.80.80
त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः
प्रभासते यथा सोमो अश्वमेधं च विन्दति
MBh 3.80.81
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर
MBh 3.80.82
वरदाने नरः स्नात्वा गोसहस्रफलं लभेत्
ततो द्वारवतीं गच्छेन्नियतो नियताशनः
पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम्
MBh 3.80.83
तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम
MBh 3.80.84
त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन
महादेवस्य सांनिध्यं तत्रैव भरतर्षभ
MBh 3.80.85
सागरस्य च सिन्धोश्च संगमं प्राप्य भारत
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः
MBh 3.80.86
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ
प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा
MBh 3.80.87
शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः
MBh 3.80.88
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम्
दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम्
MBh 3.80.89
यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्
तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम्
जन्मप्रभृति पापानि कृतानि नुदते नरः
MBh 3.80.90
दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात्
MBh 3.80.91
जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना
पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान्
MBh 3.80.92
ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम्
गमनादेव तस्यां हि हयमेधमवाप्नुयात्
MBh 3.80.93
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते
MBh 3.80.94
तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ
तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत्
MBh 3.80.95
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम्
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम्
MBh 3.80.96
ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः
MBh 3.80.97
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्
तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात्
MBh 3.80.98
रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम्
तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा
MBh 3.80.99
अथ पञ्चनदं गत्वा नियतो नियताशनः
पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः
MBh 3.80.100
ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम्
तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम
MBh 3.80.101
देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत्
MBh 3.80.102
गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम्
पितामहं नमस्कृत्य गोसहस्रफलं लभेत्
MBh 3.80.103
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम्
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः
MBh 3.80.104
तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात्
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम्
MBh 3.80.105
ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम्
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि
MBh 3.80.106
चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत्
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः
MBh 3.80.107
गवां शतसहस्रेण राजसूयशतेन च
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः
MBh 3.80.108
ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत्
अभिगम्य महादेवमश्वमेधफलं लभेत्
MBh 3.80.109
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत्
MBh 3.80.110
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम्
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ
MBh 3.80.111
त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम्
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम्
MBh 3.80.112
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्
MBh 3.80.113
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम्
तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत
MBh 3.80.114
यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम्
पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः
MBh 3.80.115
अर्धयोजनविस्तारां पञ्चयोजनमायताम्
एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम्
MBh 3.80.116
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम्
यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः
दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः
MBh 3.80.117
गमनादेव राजेन्द्र दीर्घसत्रमरिंदम
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
MBh 3.80.118
ततो विनशनं गच्छेन्नियतो नियताशनः
गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती
चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते
MBh 3.80.119
स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत्
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत्
MBh 3.80.120
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात्
शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम्
शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत
MBh 3.80.121
सरस्वत्यां महाराज अनु संवत्सरं हि ते
स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा
MBh 3.80.122
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ
MBh 3.80.123
कुमारकोटिमासाद्य नियतः कुरुनन्दन
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गवामयमवाप्नोति कुलं चैव समुद्धरेत्
MBh 3.80.124
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः
पुरा यत्र महाराज ऋषिकोटिः समाहिता
प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया
MBh 3.80.125
अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम्
एवं संप्रस्थिता राजन्नृषयः किल भारत
MBh 3.80.126
ततो योगेश्वरेणापि योगमास्थाय भूपते
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम्
MBh 3.80.127
सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक्
MBh 3.80.128
तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम्
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान्
अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति
MBh 3.80.129
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
MBh 3.80.130
ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम्
सरस्वत्या महापुण्यमुपासन्ते जनार्दनम्
MBh 3.80.131
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम्
MBh 3.80.132
तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम्
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति
MBh 3.80.133
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप
सत्रावसानमासाद्य गोसहस्रफलं लभेत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 79
- Next chapter · Vana-Parva (Āraṇyaka) Ch 81 →
Sources and Connected Readings
Continue from these 133 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.80local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷