🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 83

The Book of the Forest · Parva 3 · 114 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 114 Shlokas

MBh 3.83.1
पुलस्त्य उवाच अथ संध्यां समासाद्य संवेद्यं तीर्थमुत्तमम् उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः
MBh 3.83.2
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा तल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम्
MBh 3.83.3
करतोयां समासाद्य त्रिरात्रोपोषितो नरः अश्वमेधमवाप्नोति कृते पैतामहे विधौ
MBh 3.83.4
गङ्गायास्त्वथ राजेन्द्र सागरस्य च संगमे अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः
MBh 3.83.5
गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात्
MBh 3.83.6
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् विरजं तीर्थमासाद्य विराजति यथा शशी
MBh 3.83.7
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः
MBh 3.83.8
शोणस्य ज्योतिरथ्याश्च संगमे निवसञ्शुचिः तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्
MBh 3.83.9
शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत्
MBh 3.83.10
ऋषभं तीर्थमासाद्य कोशलायां नराधिप वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः
MBh 3.83.11
कोशलायां समासाद्य कालतीर्थ उपस्पृशेत् वृषभैकादशफलं लभते नात्र संशयः
MBh 3.83.12
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत्
MBh 3.83.13
ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति
MBh 3.83.14
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्
MBh 3.83.15
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
MBh 3.83.16
श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
MBh 3.83.17
श्रीपर्वते महादेवो देव्या सह महाद्युतिः न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः
MBh 3.83.18
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति
MBh 3.83.19
ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् वाजपेयमवाप्नोति नाकपृष्ठे च मोदते
MBh 3.83.20
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
MBh 3.83.21
ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते
MBh 3.83.22
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम्
MBh 3.83.23
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः भूतयक्षपिशाचाश्च किंनराः समहोरगाः
MBh 3.83.24
सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा सरितः सागराः शैला उपासन्त उमापतिम्
MBh 3.83.25
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति उष्य द्वादशरात्रं तु कृतात्मा भवते नरः
MBh 3.83.26
तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्
MBh 3.83.27
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप गायत्रीं पठते यस्तु योनिसंकरजस्तथा गाथा वा गीतिका वापि तस्य संपद्यते नृप
MBh 3.83.28
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् रूपस्य भागी भवति सुभगश्चैव जायते
MBh 3.83.29
ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः मयूरहंससंयुक्तं विमानं लभते नरः
MBh 3.83.30
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात्
MBh 3.83.31
वेण्णायाः संगमे स्नात्वा वाजपेयफलं लभेत् वरदासंगमे स्नात्वा गोसहस्रफलं लभेत्
MBh 3.83.32
ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः गोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति
MBh 3.83.33
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत्
MBh 3.83.34
ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप
MBh 3.83.35
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः अग्निष्टोमशतं विन्देद्गमनादेव भारत
MBh 3.83.36
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः
MBh 3.83.37
ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम् पितृदेवार्चनरतो गोसहस्रफलं लभेत्
MBh 3.83.38
दण्डकारण्यमासाद्य महाराज उपस्पृशेत् गोसहस्रफलं तत्र स्नातमात्रस्य भारत
MBh 3.83.39
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः न दुर्गतिमवाप्नोति पुनाति च कुलं नरः
MBh 3.83.40
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम्
MBh 3.83.41
सप्तगोदावरे स्नात्वा नियतो नियताशनः महत्पुण्यमवाप्नोति देवलोकं च गच्छति
MBh 3.83.42
ततो देवपथं गच्छेन्नियतो नियताशनः देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः
MBh 3.83.43
तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा
MBh 3.83.44
तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतः उपविष्टो महर्षीणामुत्तरीयेषु भारत
MBh 3.83.45
ओंकारेण यथान्यायं सम्यगुच्चारितेन च येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम्
MBh 3.83.46
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः हरिर्नारायणो देवो महादेवस्तथैव च
MBh 3.83.47
पितामहश्च भगवान्देवैः सह महाद्युतिः भृगुं नियोजयामास याजनार्थे महाद्युतिम्
MBh 3.83.48
ततः स चक्रे भगवानृषीणां विधिवत्तदा सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा
MBh 3.83.49
आज्यभागेन वै तत्र तर्पितास्तु यथाविधि देवास्त्रिभुवणं याता ऋषयश्च यथासुखम्
MBh 3.83.50
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा
MBh 3.83.51
तत्र मासं वसेद्धीरो नियतो नियताशनः ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः
MBh 3.83.52
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति
MBh 3.83.53
ततः कालंजरं गत्वा पर्वतं लोकविश्रुतम् तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत्
MBh 3.83.54
आत्मानं साधयेत्तत्र गिरौ कालंजरे नृप स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः
MBh 3.83.55
ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम्
MBh 3.83.56
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः अश्वमेधमवाप्नोति गतिं च परमां व्रजेत्
MBh 3.83.57
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् यत्र देवो महासेनो नित्यं संनिहितो नृपः
MBh 3.83.58
पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्
MBh 3.83.59
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः अभिगम्य महादेवं विराजति यथा शशी
MBh 3.83.60
तत्र कूपो महाराज विश्रुतो भरतर्षभ समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर
MBh 3.83.61
तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् नियतात्मा नरः पूतो गच्छेत परमां गतिम्
MBh 3.83.62
ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् यत्र तीर्णो महाराज रामो दाशरथिः पुरा
MBh 3.83.63
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः विधूतपाप्मा भवति वाजपेयं च विन्दति
MBh 3.83.64
अभिगम्य महादेवमभ्यर्च्य च नराधिप प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात्
MBh 3.83.65
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः
MBh 3.83.66
लोकपालाश्च साध्याश्च नैरृताः पितरस्तथा सनत्कुमारप्रमुखास्तथैव परमर्षयः
MBh 3.83.67
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा
MBh 3.83.68
सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
MBh 3.83.69
तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवी प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता
MBh 3.83.70
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता यमुना गङ्गया सार्धं संगता लोकपावनी
MBh 3.83.71
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः
MBh 3.83.72
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः
MBh 3.83.73
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः यजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप
MBh 3.83.74
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो
MBh 3.83.75
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते
MBh 3.83.76
तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः
MBh 3.83.77
एषा यजनभूमिर्हि देवानामपि सत्कृता तत्र दत्तं सूक्ष्ममपि महद्भवति भारत
MBh 3.83.78
न वेदवचनात्तात न लोकवचनादपि मतिरुत्क्रमणीया ते प्रयागमरणं प्रति
MBh 3.83.79
दश तीर्थसहस्राणि षष्टिकोट्यस्तथापराः येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन
MBh 3.83.80
चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत् स्नात एव तदाप्नोति गङ्गायमुनसंगमे
MBh 3.83.81
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात्
MBh 3.83.82
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन
MBh 3.83.83
यत्र गङ्गा महाराज स देशस्तत्तपोवनम् सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम्
MBh 3.83.84
इदं सत्यं द्विजातीनां साधूनामात्मजस्य च सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च
MBh 3.83.85
इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखम् इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमम्
MBh 3.83.86
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात्
MBh 3.83.87
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते
MBh 3.83.88
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च मनसा तानि गच्छेत सर्वतीर्थसमीक्षया
MBh 3.83.89
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः
MBh 3.83.90
एवं त्वमपि कौरव्य विधिनानेन सुव्रत व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते
MBh 3.83.91
भावितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः
MBh 3.83.92
नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः
MBh 3.83.93
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना पितरस्तारितास्तात सर्वे च प्रपितामहाः
MBh 3.83.94
पितामहपुरोगाश्च देवाः सर्षिगणा नृप तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः
MBh 3.83.95
अवाप्स्यसि च लोकान्वै वसूनां वासवोपम कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम्
MBh 3.83.96
नारद उवाच एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिः प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत
MBh 3.83.97
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे
MBh 3.83.98
अनेन विधिना यस्तु पृथिवीं संचरिष्यति अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते
MBh 3.83.99
अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम्
MBh 3.83.100
रक्षोगणावकीर्णानि तीर्थान्येतानि भारत न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन
MBh 3.83.101
इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते
MBh 3.83.102
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपः आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः
MBh 3.83.103
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा
MBh 3.83.104
शौनकः सह पुत्रेण व्यासश्च जपतां वरः दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः
MBh 3.83.105
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः एभिः सह महाराज तीर्थान्येतान्यनुव्रज
MBh 3.83.106
एष वै लोमशो नाम देवर्षिरमितद्युतिः समेष्यति त्वया चैव तेन सार्धमनुव्रज
MBh 3.83.107
मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः
MBh 3.83.108
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे
MBh 3.83.109
यथा भगीरथो राजा यथा रामश्च विश्रुतः तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव
MBh 3.83.110
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः
MBh 3.83.111
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि
MBh 3.83.112
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा
MBh 3.83.113
वैशंपायन उवाच एवमाश्वास्य राजानं नारदो भगवानृषिः अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत
MBh 3.83.114
युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन् तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 114 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.83local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷