🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 267

The Book of the Forest · Parva 3 · 54 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Vana-Parva 258-275 · the Rāmopākhyāna: Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 54 Shlokas

MBh 3.267.1
मार्कण्डेय उवाच ततस्तत्रैव रामस्य समासीनस्य तैः सह समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा
MBh 3.267.2
वृतः कोटिसहस्रेण वानराणां तरस्विनाम् श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात्
MBh 3.267.3
कोटीशतवृतौ चापि गजो गवय एव च वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम्
MBh 3.267.4
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः
MBh 3.267.5
गन्धमादनवासी तु प्रथितो गन्धमादनः कोटीसहस्रमुग्राणां हरीणां समकर्षत
MBh 3.267.6
पनसो नाम मेधावी वानरः सुमहाबलः कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति
MBh 3.267.7
श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान् प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम्
MBh 3.267.8
कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत
MBh 3.267.9
एते चान्ये च बहवो हरियूथपयूथपाः असंख्येया महाराज समीयू रामकारणात्
MBh 3.267.10
शिरीषकुसुमाभानां सिंहानामिव नर्दताम् श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम्
MBh 3.267.11
गिरिकूटनिभाः केचित्केचिन्महिषसंनिभाः शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः
MBh 3.267.12
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः
MBh 3.267.13
स वानरमहालोकः पूर्णसागरसंनिभः निवेशमकरोत्तत्र सुग्रीवानुमते तदा
MBh 3.267.14
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते
MBh 3.267.15
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा
MBh 3.267.16
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः जघनं पालयामास सौमित्रिरकुतोभयः
MBh 3.267.17
बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव
MBh 3.267.18
प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम् सुमहच्छालिभवनं यथा सूर्योदयं प्रति
MBh 3.267.19
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता ययौ सुमहती सेना राघवस्यार्थसिद्धये
MBh 3.267.20
विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च
MBh 3.267.21
निवसन्ती निराबाधा तथैव गिरिसानुषु उपायाद्धरिसेना सा क्षारोदमथ सागरम्
MBh 3.267.22
द्वितीयसागरनिभं तद्बलं बहुलध्वजम् वेलावनं समासाद्य निवासमकरोत्तदा
MBh 3.267.23
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः
MBh 3.267.24
उपायः को नु भवतां मतः सागरलङ्घने इयं च महती सेना सागरश्चापि दुस्तरः
MBh 3.267.25
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः
MBh 3.267.26
केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत
MBh 3.267.27
शतयोजनविस्तारं न शक्ताः सर्ववानराः क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः
MBh 3.267.28
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा वणिजामुपघातं च कथमस्मद्विधश्चरेत्
MBh 3.267.29
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः प्लवोडुपप्रतारश्च नैवात्र मम रोचते
MBh 3.267.30
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः
MBh 3.267.31
न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः
MBh 3.267.32
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे
MBh 3.267.33
सागरस्तु ततः स्वप्ने दर्शयामास राघवम् देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः
MBh 3.267.34
कौसल्यामातरित्येवमाभाष्य मधुरं वचः इदमित्याह रत्नानामाकरैः शतशो वृतः
MBh 3.267.35
ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत्
MBh 3.267.36
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम्
MBh 3.267.37
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः
MBh 3.267.38
इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः
MBh 3.267.39
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर
MBh 3.267.40
यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात्
MBh 3.267.41
अस्ति त्वत्र नलो नाम वानरः शिल्पिसंमतः त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः
MBh 3.267.42
स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति
MBh 3.267.43
इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम
MBh 3.267.44
तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् दशयोजनविस्तारमायतं शतयोजनम्
MBh 3.267.45
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः
MBh 3.267.46
तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह
MBh 3.267.47
प्रतिजग्राह रामस्तं स्वागतेन महामनाः सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह
MBh 3.267.48
राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत्
MBh 3.267.49
सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम् चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च
MBh 3.267.50
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् ससैन्यः सेतुना तेन मासेनैव नराधिप
MBh 3.267.51
ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः भेदयामास कपिभिर्महान्ति च बहूनि च
MBh 3.267.52
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ चारौ वानररूपेण तौ जग्राह विभीषणः
MBh 3.267.53
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत्
MBh 3.267.54
निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम् प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 54 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.267local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷