🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 266
The Book of the Forest · Parva 3 · 68 unique Sanskrit addresses · pinned Critical Edition-derived witness
🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Vana-Parva 258-275 · the Rāmopākhyāna: Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here.
The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
- BG 7.7 · sūtre maṇi-gaṇā iva · Krishna names His own posture · "all this is strung on Me as jewels on a thread" · the verse that names this very necklace
- BG 10.8 · Ahaṁ sarvasya prabhavaḥ · Krishna declares Himself the source from which all proceeds · the central declaration of /philosophy
- BG 10.31 · rāmaḥ śastra-bhṛtām aham · Krishna says by His own mouth · "among weapon-bearers I am Rāma" · the BG itself records the non-dual singularity
- BG 4.7-8 · yadā yadā hi dharmasya · The avatāra-promise · "whenever dharma declines, I take birth" · the One who descends as Rāma in Tretā is the same One speaking now as Krishna
- BG 18.66 · the Carama-Śloka · Krishna's final teaching · "abandon all dharmas, take refuge in Me alone" · the surrender-pole sealing the necklace
- Vālmīki Yuddha-Kāṇḍa 6.93.65 · "kṛṣṇa-pakṣa-caturdaśīm" · Mālyavān's pre-war counsel to Rāvaṇa names the dark-fortnight 14th day · the word "Krishna" is operational in Tretā itself · the name pre-exists Krishna-as-person · woven into the eternal lunar pakṣa-substrate
- Vālmīki Yuddha-Kāṇḍa 6.120.16 · the Brahma-Stuti · Brahmā addresses Rāma after Rāvaṇa-vadha · names Him as Viṣṇu AND Krishna by name · the Ādi-Kavi's own declaration of the non-dual
- Vālmīki Yuddha-Kāṇḍa 6.120.29 · the avatāra-rahasya · Brahmā: "Sītā IS Lakṣmī · YOU ARE Viṣṇu · YOU ARE the deva Krishna · You entered human form to slay Rāvaṇa"
- MBh Śānti-Parva 320-352 · the Nārāyaṇīyam · Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā
See also: /rama (the constitutional non-dual declaration) ·
/philosophy (the theological foundation) ·
/mahabharata ·
/valmiki-ramayana.
The Devanāgarī Yathārtha · 68 Shlokas
MBh 3.266.1
मार्कण्डेय उवाच
राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः
वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः
MBh 3.266.2
स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम्
ग्रहनक्षत्रताराभिरनुयातममित्रहा
MBh 3.266.3
कुमुदोत्पलपद्मानां गन्धमादाय वायुना
महीधरस्थः शीतेन सहसा प्रतिबोधितः
MBh 3.266.4
प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः
सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि
MBh 3.266.5
गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम्
प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम्
MBh 3.266.6
योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः
सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै
MBh 3.266.7
यदर्थं निहतो वाली मया रघुकुलोद्वह
त्वया सह महाबाहो किष्किन्धोपवने तदा
MBh 3.266.8
कृतघ्नं तमहं मन्ये वानरापसदं भुवि
यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण
MBh 3.266.9
असौ मन्ये न जानीते समयप्रतिपादनम्
कृतोपकारं मां नूनमवमन्याल्पया धिया
MBh 3.266.10
यदि तावदनुद्युक्तः शेते कामसुखात्मकः
नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया
MBh 3.266.11
अथापि घटतेऽस्माकमर्थे वानरपुंगवः
तमादायैहि काकुत्स्थ त्वरावान्भव मा चिरम्
MBh 3.266.12
इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः
प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः
किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः
MBh 3.266.13
सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः
तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः
पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया
MBh 3.266.14
तमब्रवीद्रामवचः सौमित्रिरकुतोभयः
स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः
MBh 3.266.15
सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः
इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम्
MBh 3.266.16
नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः
श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः
MBh 3.266.17
दिशः प्रस्थापिताः सर्वे विनीता हरयो मया
सर्वेषां च कृतः कालो मासेनागमनं पुनः
MBh 3.266.18
यैरियं सवना साद्रिः सपुरा सागराम्बरा
विचेतव्या मही वीर सग्रामनगराकरा
MBh 3.266.19
स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति
ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम्
MBh 3.266.20
इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता
त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत्
MBh 3.266.21
स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम्
अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत्
MBh 3.266.22
इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः
दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः
MBh 3.266.23
आचख्युस्ते तु रामाय महीं सागरमेखलाम्
विचितां न तु वैदेह्या दर्शनं रावणस्य वा
MBh 3.266.24
गतास्तु दक्षिणामाशां ये वै वानरपुंगवाः
आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत्
MBh 3.266.25
द्विमासोपरमे काले व्यतीते प्लवगास्ततः
सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन्
MBh 3.266.26
रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत्
त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः
MBh 3.266.27
वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः
विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया
MBh 3.266.28
तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम्
कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम्
MBh 3.266.29
स तद्रामाय मेधावी शशंस प्लवगर्षभः
रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम्
MBh 3.266.30
हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवंगमाः
अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ
MBh 3.266.31
गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः
अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत
MBh 3.266.32
हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः
प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा
MBh 3.266.33
तानुवाचागतान्रामः प्रगृह्य सशरं धनुः
अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता
MBh 3.266.34
अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः
निहत्य समरे शत्रूनाहृत्य जनकात्मजाम्
MBh 3.266.35
अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे
हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे
MBh 3.266.36
इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः
प्रियमाख्यामि ते राम दृष्टा सा जानकी मया
MBh 3.266.37
विचित्य दक्षिणामाशां सपर्वतवनाकराम्
श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम्
MBh 3.266.38
प्रविशामो वयं तां तु बहुयोजनमायताम्
अन्धकारां सुविपिनां गहनां कीटसेविताम्
MBh 3.266.39
गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः
दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा
MBh 3.266.40
मयस्य किल दैत्यस्य तदासीद्वेश्म राघव
तत्र प्रभावती नाम तपोऽतप्यत तापसी
MBh 3.266.41
तया दत्तानि भोज्यानि पानानि विविधानि च
भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः
MBh 3.266.42
निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः
समीपे सह्यमलयौ दर्दुरं च महागिरिम्
MBh 3.266.43
ततो मलयमारुह्य पश्यन्तो वरुणालयम्
विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम्
MBh 3.266.44
अनेकशतविस्तीर्णं योजनानां महोदधिम्
तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः
MBh 3.266.45
तत्रानशनसंकल्पं कृत्वासीना वयं तदा
ततः कथान्ते गृध्रस्य जटायोरभवत्कथा
MBh 3.266.46
ततः पर्वतशृङ्गाभं घोररूपं भयावहम्
पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम्
MBh 3.266.47
सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत्
भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम्
MBh 3.266.48
संपातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः
अन्योन्यस्पर्धयारूढावावामादित्यसंसदम्
MBh 3.266.49
ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः
तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः
निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ
MBh 3.266.50
तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः
व्यसनं भवतश्चेदं संक्षेपाद्वै निवेदितम्
MBh 3.266.51
स संपातिस्तदा राजञ्श्रुत्वा सुमहदप्रियम्
विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम
MBh 3.266.52
कः स रामः कथं सीता जटायुश्च कथं हतः
इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः
MBh 3.266.53
तस्याहं सर्वमेवैतं भवतो व्यसनागमम्
प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम्
MBh 3.266.54
सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट्
रावणो विदितो मह्यं लङ्का चास्य महापुरी
MBh 3.266.55
दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे
भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा
MBh 3.266.56
इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः
सागरप्लवने मन्त्रं मन्त्रयामः परंतप
MBh 3.266.57
नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घने
ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम्
शतयोजनविस्तीर्णं निहत्य जलराक्षसीम्
MBh 3.266.58
तत्र सीता मया दृष्टा रावणान्तःपुरे सती
उपवासतपःशीला भर्तृदर्शनलालसा
जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी
MBh 3.266.59
निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः
उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम्
MBh 3.266.60
सीते रामस्य दूतोऽहं वानरो मारुतात्मजः
त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा
MBh 3.266.61
राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ
सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ
MBh 3.266.62
कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह
सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति
MBh 3.266.63
क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह
प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः
MBh 3.266.64
मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह
अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम्
MBh 3.266.65
अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः
कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः
MBh 3.266.66
गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम्
धारिता येन वैदेही कालमेतमनिन्दिता
MBh 3.266.67
प्रत्ययार्थं कथां चेमां कथयामास जानकी
क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ
भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात्
MBh 3.266.68
श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम्
संप्राप्त इति तं रामः प्रियवादिनमर्चयत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 265
- Next chapter · Vana-Parva (Āraṇyaka) Ch 267 →
Sources and Connected Readings
Continue from these 68 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.266local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷