🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 187

The Book of the Forest · Parva 3 · 55 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 55 Shlokas

MBh 3.187.1
देव उवाच कामं देवापि मां विप्र न विजानन्ति तत्त्वतः त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम्
MBh 3.187.2
पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः अतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत्
MBh 3.187.3
आपो नारा इति प्रोक्ताः संज्ञानाम कृतं मया तेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा
MBh 3.187.4
अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः विधाता सर्वभूतानां संहर्ता च द्विजोत्तम
MBh 3.187.5
अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा
MBh 3.187.6
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम
MBh 3.187.7
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने सदिशं च नभः कायो वायुर्मनसि मे स्थितः
MBh 3.187.8
मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः यजन्ते वेदविदुषो मां देवयजने स्थितम्
MBh 3.187.9
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः
MBh 3.187.10
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् शेषो भूत्वाहमेवैतां धारयामि वसुंधराम्
MBh 3.187.11
वाराहं रूपमास्थाय मयेयं जगती पुरा मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता
MBh 3.187.12
अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम पिबाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम्
MBh 3.187.13
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च
MBh 3.187.14
ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च
MBh 3.187.15
यतयः शान्तिपरमा यतात्मानो मुमुक्षवः कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः
MBh 3.187.16
सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाः मामेव सततं विप्राश्चिन्तयन्त उपासते
MBh 3.187.17
अहं संवर्तको ज्योतिरहं संवर्तको यमः अहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः
MBh 3.187.18
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम
MBh 3.187.19
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम् वसनं शयनं चैव निलयं चैव विद्धि मे
MBh 3.187.20
कामं क्रोधं च हर्षं च भयं मोहं तथैव च ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम
MBh 3.187.21
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम् सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु
MBh 3.187.22
मद्विधानेन विहिता मम देहविहारिणः मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः
MBh 3.187.23
सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः
MBh 3.187.24
प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः
MBh 3.187.25
तं मां महाफलं विद्धि पदं सुकृतकर्मणः दुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम्
MBh 3.187.26
यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्
MBh 3.187.27
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः
MBh 3.187.28
तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम् प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्
MBh 3.187.29
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् स्थावराणि च भूतानि संहराम्यात्ममायया
MBh 3.187.30
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् प्रविश्य मानुषं देहं मर्यादाबन्धकारणात्
MBh 3.187.31
श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा
MBh 3.187.32
त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युत अन्तकाले च संप्राप्ते कालो भूत्वातिदारुणः त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम्
MBh 3.187.33
अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः अभिभूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः
MBh 3.187.34
कालचक्रं नयाम्येको ब्रह्मन्नहमरूपि वै शमनं सर्वभूतानां सर्वलोककृतोद्यमम्
MBh 3.187.35
एवं प्रणिहितः सम्यङ्मयात्मा मुनिसत्तम सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन
MBh 3.187.36
यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज सुखोदयाय तत्सर्वं श्रेयसे च तवानघ
MBh 3.187.37
यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम् विहितः सर्वथैवासौ ममात्मा मुनिसत्तम
MBh 3.187.38
अर्धं मम शरीरस्य सर्वलोकपितामहः अहं नारायणो नाम शङ्खचक्रगदाधरः
MBh 3.187.39
यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः
MBh 3.187.40
एवं सर्वमहं कालमिहासे मुनिसत्तम अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते
MBh 3.187.41
मया च विप्र दत्तोऽयं वरस्ते ब्रह्मरूपिणा असकृत्परितुष्टेन विप्रर्षिगणपूजित
MBh 3.187.42
सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत्
MBh 3.187.43
अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे
MBh 3.187.44
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया आख्यातस्ते मया चात्मा दुर्ज्ञेयोऽपि सुरासुरैः
MBh 3.187.45
यावत्स भगवान्ब्रह्मा न बुध्यति महातपाः तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम्
MBh 3.187.46
ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे एकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम
MBh 3.187.47
आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम्
MBh 3.187.48
मार्कण्डेय उवाच इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः प्रजाश्चेमाः प्रपश्यामि विचित्रा बहुधाकृताः
MBh 3.187.49
एतद्दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर
MBh 3.187.50
यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः
MBh 3.187.51
अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम् दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं तथा
MBh 3.187.52
स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः
MBh 3.187.53
एष धाता विधाता च संहर्ता चैव सात्वतः श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः
MBh 3.187.54
दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर्मामियमागता आदिदेवमजं विष्णुं पुरुषं पीतवाससम्
MBh 3.187.55
सर्वेषामेव भूतानां पिता माता च माधवः गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 55 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.187local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷