🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 188

The Book of the Forest · Parva 3 · 93 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 93 Shlokas

MBh 3.188.1
वैशंपायन उवाच एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभौ द्रौपद्या कृष्णया सार्धं नमश्चक्रुर्जनार्दनम्
MBh 3.188.2
स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना सान्त्वयामास मानार्हान्मन्यमानो यथाविधि
MBh 3.188.3
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम्
MBh 3.188.4
आश्चर्यभूतं भवतः श्रुतं नो वदतां वर मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ
MBh 3.188.5
अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम समाकुलेषु धर्मेषु किं नु शेषं भविष्यति
MBh 3.188.6
किंवीर्या मानवास्तत्र किमाहारविहारिणः किमायुषः किंवसना भविष्यन्ति युगक्षये
MBh 3.188.7
कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम् विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे
MBh 3.188.8
इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत रमयन्वृष्णिशार्दूलं पाण्डवांश्च महामुनिः
MBh 3.188.9
मार्कण्डेय उवाच भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ कलुषं कालमासाद्य कथ्यमानं निबोध मे
MBh 3.188.10
कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा
MBh 3.188.11
अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते
MBh 3.188.12
त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति
MBh 3.188.13
आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव मनुष्याणामनुयुगं ह्रसतीति निबोध मे
MBh 3.188.14
राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः
MBh 3.188.15
सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः सत्यहान्या ततस्तेषामायुरल्पं भविष्यति
MBh 3.188.16
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति
MBh 3.188.17
लोभक्रोधपरा मूढाः कामसक्ताश्च मानवाः वैरबद्धा भविष्यन्ति परस्परवधेप्सवः
MBh 3.188.18
ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्तः परस्परम् शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः
MBh 3.188.19
अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः ईदृशो भविता लोको युगान्ते पर्युपस्थिते
MBh 3.188.20
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये
MBh 3.188.21
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये
MBh 3.188.22
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये
MBh 3.188.23
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये
MBh 3.188.24
श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम्
MBh 3.188.25
पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये
MBh 3.188.26
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः
MBh 3.188.27
निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः
MBh 3.188.28
पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते
MBh 3.188.29
म्लेच्छभूतं जगत्सर्वं निष्क्रियं यज्ञवर्जितम् भविष्यति निरानन्दमनुत्सवमथो तथा
MBh 3.188.30
प्रायशः कृपणानां हि तथा बन्धुमतामपि विधवानां च वित्तानि हरिष्यन्तीह मानवाः
MBh 3.188.31
अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः तत्कथादानसंतुष्टा दुष्टानामपि मानवाः परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः
MBh 3.188.32
संघातयन्तः कौन्तेय राजानः पापबुद्धयः परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः
MBh 3.188.33
अरक्षितारो लुब्धाश्च मानाहंकारदर्पिताः केवलं दण्डरुचयो भविष्यन्ति युगक्षये
MBh 3.188.34
आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत
MBh 3.188.35
न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते स्वयंग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते
MBh 3.188.36
राजानश्चाप्यसंतुष्टाः परार्थान्मूढचेतसः सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते
MBh 3.188.37
म्लेच्छीभूतं जगत्सर्वं भविष्यति च भारत हस्तो हस्तं परिमुषेद्युगान्ते पर्युपस्थिते
MBh 3.188.38
सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः स्थविरा बालमतयो बालाः स्थविरबुद्धयः
MBh 3.188.39
भीरवः शूरमानीनः शूरा भीरुविषादिनः न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते
MBh 3.188.40
एकाहार्यं जगत्सर्वं लोभमोहव्यवस्थितम् अधर्मो वर्धति महान्न च धर्मः प्रवर्तते
MBh 3.188.41
ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप एकवर्णस्तदा लोको भविष्यति युगक्षये
MBh 3.188.42
न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा भार्या च पतिशुश्रूषां न करिष्यति काचन
MBh 3.188.43
ये यवान्ना जनपदा गोधूमान्नास्तथैव च तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते
MBh 3.188.44
स्वैराहाराश्च पुरुषा योषितश्च विशां पते अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते
MBh 3.188.45
म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर न श्राद्धैर्हि पितॄंश्चापि तर्पयिष्यन्ति मानवाः
MBh 3.188.46
न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः तमोग्रस्तस्तदा लोको भविष्यति नराधिप
MBh 3.188.47
परमायुश्च भविता तदा वर्षाणि षोडश ततः प्राणान्विमोक्ष्यन्ति युगान्ते पर्युपस्थिते
MBh 3.188.48
पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा
MBh 3.188.49
पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति युगान्ते राजशार्दूल न तोषमुपयास्यति
MBh 3.188.50
अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये
MBh 3.188.51
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये
MBh 3.188.52
म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु भाविनः पश्चिमे काले मनुष्या नात्र संशयः
MBh 3.188.53
क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् युगान्ते भरतश्रेष्ठ वृत्तिलोभात्करिष्यति
MBh 3.188.54
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते
MBh 3.188.55
स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशङ्किनः भवितारो जनाः सर्वे संप्राप्ते युगसंक्षये
MBh 3.188.56
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः भविता संक्षयो लोके जीवितस्य च देहिनाम्
MBh 3.188.57
तथा लोभाभिभूताश्च चरिष्यन्ति महीमिमाम् ब्राह्मणाश्च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते
MBh 3.188.58
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम्
MBh 3.188.59
जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः यदा भविष्यन्ति नरास्तदा संक्षेप्स्यते युगम्
MBh 3.188.60
आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह
MBh 3.188.61
दस्युप्रपीडिता राजन्काका इव द्विजोत्तमाः कुराजभिश्च सततं करभारप्रपीडिताः
MBh 3.188.62
धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः
MBh 3.188.63
शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः
MBh 3.188.64
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः शूद्राः परिचरिष्यन्ति न द्विजान्युगसंक्षये
MBh 3.188.65
आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च देवस्थानेषु चैत्येषु नागानामालयेषु च
MBh 3.188.66
एडूकचिह्ना पृथिवी न देवगृहभूषिता भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम्
MBh 3.188.67
यदा रौद्रा धर्महीना मांसादाः पानपास्तथा भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम्
MBh 3.188.68
पुष्पे पुष्पं यदा राजन्फले फलमुपाश्रितम् प्रजास्यति महाराज तदा संक्षेप्स्यते युगम्
MBh 3.188.69
अकालवर्षी पर्जन्यो भविष्यति गते युगे अक्रमेण मनुष्याणां भविष्यति तदा क्रिया विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह
MBh 3.188.70
मही म्लेच्छसमाकीर्णा भविष्यति ततोऽचिरात् करभारभयाद्विप्रा भजिष्यन्ति दिशो दश
MBh 3.188.71
निर्विशेषा जनपदा नरावृष्टिभिरर्दिताः आश्रमानभिपत्स्यन्ति फलमूलोपजीविनः
MBh 3.188.72
एवं पर्याकुले लोके मर्यादा न भविष्यति न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः
MBh 3.188.73
आचार्योपनिधिश्चैव वत्स्यते तदनन्तरम् अर्थयुक्त्या प्रवत्स्यन्ति मित्रसंबन्धिबान्धवाः अभावः सर्वभूतानां युगान्ते च भविष्यति
MBh 3.188.74
दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा उल्कापाताश्च बहवो महाभयनिदर्शकाः
MBh 3.188.75
षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः कबन्धान्तर्हितो भानुरुदयास्तमये तदा
MBh 3.188.76
अकालवर्षी च तदा भविष्यति सहस्रदृक् सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते
MBh 3.188.77
अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः भर्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः
MBh 3.188.78
पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः
MBh 3.188.79
अपर्वणि महाराज सूर्यं राहुरुपैष्यति युगान्ते हुतभुक्चापि सर्वतः प्रज्वलिष्यति
MBh 3.188.80
पानीयं भोजनं चैव याचमानास्तदाध्वगाः न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते
MBh 3.188.81
निर्घातवायसा नागाः शकुनाः समृगद्विजाः रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते
MBh 3.188.82
मित्रसंबन्धिनश्चापि संत्यक्ष्यन्ति नरास्तदा जनं परिजनं चापि युगान्ते पर्युपस्थिते
MBh 3.188.83
अथ देशान्दिशश्चापि पत्तनानि पुराणि च क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते
MBh 3.188.84
हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति
MBh 3.188.85
ततस्तुमुलसंघाते वर्तमाने युगक्षये द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति
MBh 3.188.86
ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये भविष्यति पुनर्दैवमनुकूलं यदृच्छया
MBh 3.188.87
यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम्
MBh 3.188.88
कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम्
MBh 3.188.89
कल्किर्विष्णुयशा नाम द्विजः कालप्रचोदितः उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः
MBh 3.188.90
संभूतः संभलग्रामे ब्राह्मणावसथे शुभे मनसा तस्य सर्वाणि वाहनान्यायुधानि च उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च
MBh 3.188.91
स धर्मविजयी राजा चक्रवर्ती भविष्यति स चेमं संकुलं लोकं प्रसादमुपनेष्यति
MBh 3.188.92
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः स संक्षेपो हि सर्वस्य युगस्य परिवर्तकः
MBh 3.188.93
स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः उत्सादयिष्यति तदा सर्वान्म्लेच्छगणान्द्विजः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 93 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.188local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷