🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 186
The Book of the Forest · Parva 3 · 129 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 129 Shlokas
MBh 3.186.1
वैशंपायन उवाच
ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम्
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः
MBh 3.186.2
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने
न चापीह समः कश्चिदायुषा तव विद्यते
वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम्
MBh 3.186.3
अनन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसि
MBh 3.186.4
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे
त्वमेव सृज्यमानानि भूतानीह प्रपश्यसि
MBh 3.186.5
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः
MBh 3.186.6
त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना
MBh 3.186.7
तस्मात्सर्वान्तको मृत्युर्जरा वा देहनाशिनी
न त्वा विशति विप्रर्षे प्रसादात्परमेष्ठिनः
MBh 3.186.8
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः
नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन
MBh 3.186.9
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे
नष्टे देवासुरगणे समुत्सन्नमहोरगे
MBh 3.186.10
शयानममितात्मानं पद्मे पद्मनिकेतनम्
त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि
MBh 3.186.11
एतत्प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम
तस्मादिच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम्
MBh 3.186.12
अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम
न तेऽस्त्यविदितं किंचित्सर्वलोकेषु नित्यदा
MBh 3.186.13
मार्कण्डेय उवाच
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे
पुरुषाय पुराणाय शाश्वतायाव्ययाय च
MBh 3.186.14
य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः
एष कर्ता विकर्ता च सर्वभावनभूतकृत्
MBh 3.186.15
अचिन्त्यं महदाश्चर्यं पवित्रमपि चोत्तमम्
अनादिनिधनं भूतं विश्वमक्षयमव्ययम्
MBh 3.186.16
एष कर्ता न क्रियते कारणं चापि पौरुषे
यो ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः
MBh 3.186.17
सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये
MBh 3.186.18
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्
तस्य तावच्छती संध्या संध्यांशश्च ततः परम्
MBh 3.186.19
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते
तस्य तावच्छती संध्या संध्यांशश्च ततः परम्
MBh 3.186.20
तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः
तस्यापि द्विशती संध्या संध्यांशश्च ततः परम्
MBh 3.186.21
सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम्
तस्य वर्षशतं संध्या संध्यांशश्च ततः परम्
संध्यासंध्यांशयोस्तुल्यं प्रमाणमुपधारय
MBh 3.186.22
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम्
एषा द्वादशसाहस्री युगाख्या परिकीर्तिता
MBh 3.186.23
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम्
विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते
लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः
MBh 3.186.24
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ
सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः
MBh 3.186.25
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा
व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते
MBh 3.186.26
ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः
क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे
MBh 3.186.27
निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः
ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे
MBh 3.186.28
अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः
विपरीते तदा लोके पूर्वरूपं क्षयस्य तत्
MBh 3.186.29
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप
मिथ्यानुशासिनः पापा मृषावादपरायणाः
MBh 3.186.30
आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः
काम्बोजा और्णिकाः शूद्रास्तथाभीरा नरोत्तम
MBh 3.186.31
न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति
क्षत्रिया अपि वैश्याश्च विकर्मस्था नराधिप
MBh 3.186.32
अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः
अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः
MBh 3.186.33
बहुशून्या जनपदा मृगव्यालावृता दिशः
युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः
भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः
MBh 3.186.34
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः
न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते
रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः
MBh 3.186.35
बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः
मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये
MBh 3.186.36
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः
केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये
MBh 3.186.37
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप
अल्पपुष्पफलाश्चापि पादपा बहुवायसाः
MBh 3.186.38
ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम्
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः
MBh 3.186.39
लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः
MBh 3.186.40
करभारभयात्पुंसो गृहस्थाः परिमोषकाः
मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवते
MBh 3.186.41
मिथ्या च नखरोमाणि धारयन्ति नरास्तदा
अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः
MBh 3.186.42
आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम्
MBh 3.186.43
बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः
आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये
MBh 3.186.44
यथर्तुवर्षी भगवान्न तथा पाकशासनः
न तदा सर्वबीजानि सम्यग्रोहन्ति भारत
अधर्मफलमत्यर्थं तदा भवति चानघ
MBh 3.186.45
तथा च पृथिवीपाल यो भवेद्धर्मसंयुतः
अल्पायुः स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन
MBh 3.186.46
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत
MBh 3.186.47
धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः
धर्मस्य बलहानिः स्यादधर्मश्च बली तथा
MBh 3.186.48
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तदा
दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये
MBh 3.186.49
अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत
संचयेनापि चाल्पेन भवन्त्याढ्या मदान्विताः
MBh 3.186.50
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः
हर्तुं व्यवसिता राजन्मायाचारसमन्विताः
MBh 3.186.51
पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा
नगराणां विहारेषु चैत्येष्वपि च शेरते
MBh 3.186.52
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते
MBh 3.186.53
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते
MBh 3.186.54
क्षीणे युगे महाराज तरुणा वृद्धशीलिनः
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते
MBh 3.186.55
विपरीतास्तदा नार्यो वञ्चयित्वा रहः पतीन्
व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च
MBh 3.186.56
तस्मिन्युगसहस्रान्ते संप्राप्ते चायुषः क्षये
अनावृष्टिर्महाराज जायते बहुवार्षिकी
MBh 3.186.57
ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते
MBh 3.186.58
ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च
MBh 3.186.59
यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ
MBh 3.186.60
ततः संवर्तको वह्निर्वायुना सह भारत
लोकमाविशते पूर्वमादित्यैरुपशोषितम्
MBh 3.186.61
ततः स पृथिवीं भित्त्वा समाविश्य रसातलम्
देवदानवयक्षाणां भयं जनयते महत्
MBh 3.186.62
निर्दहन्नागलोकं च यच्च किंचित्क्षिताविह
अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात्
MBh 3.186.63
ततो योजनविंशानां सहस्राणि शतानि च
निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः
MBh 3.186.64
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम्
ततो दहति दीप्तः स सर्वमेव जगद्विभुः
MBh 3.186.65
ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः
MBh 3.186.66
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः
केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः
MBh 3.186.67
केचिद्धारिद्रसंकाशाः काकाण्डकनिभास्तथा
केचित्कमलपत्राभाः केचिद्धिङ्गुलकप्रभाः
MBh 3.186.68
केचित्पुरवराकाराः केचिद्गजकुलोपमाः
केचिदञ्जनसंकाशाः केचिन्मकरसंस्थिताः
विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः
MBh 3.186.69
घोररूपा महाराज घोरस्वननिनादिताः
ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम्
MBh 3.186.70
तैरियं पृथिवी सर्वा सपर्वतवनाकरा
आपूर्यते महाराज सलिलौघपरिप्लुता
MBh 3.186.71
ततस्ते जलदा घोरा राविणः पुरुषर्षभ
सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना
MBh 3.186.72
वर्षमाणा महत्तोयं पूरयन्तो वसुंधराम्
सुघोरमशिवं रौद्रं नाशयन्ति च पावकम्
MBh 3.186.73
ततो द्वादश वर्षाणि पयोदास्त उपप्लवे
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना
MBh 3.186.74
ततः समुद्रः स्वां वेलामतिक्रामति भारत
पर्वताश्च विशीर्यन्ते मही चापि विशीर्यते
MBh 3.186.75
सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम्
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः
MBh 3.186.76
ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप
आदिपद्मालयो देवः पीत्वा स्वपिति भारत
MBh 3.186.77
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे
नष्टे देवासुरगणे यक्षराक्षसवर्जिते
MBh 3.186.78
निर्मनुष्ये महीपाल निःश्वापदमहीरुहे
अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः
MBh 3.186.79
एकार्णवे जले घोरे विचरन्पार्थिवोत्तम
अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम्
MBh 3.186.80
ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप
श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः
MBh 3.186.81
ततः कदाचित्पश्यामि तस्मिन्सलिलसंप्लवे
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते
MBh 3.186.82
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते
MBh 3.186.83
उपविष्टं महाराज पूर्णेन्दुसदृशाननम्
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत
MBh 3.186.84
ततो मे पृथिवीपाल विस्मयः सुमहानभूत्
कथं त्वयं शिशुः शेते लोके नाशमुपागते
MBh 3.186.85
तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये
भूतं भव्यं भविष्यच्च जानन्नपि नराधिप
MBh 3.186.86
अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः
साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे
MBh 3.186.87
ततो मामब्रवीद्बालः स पद्मनिभलोचनः
श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम्
MBh 3.186.88
जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम्
मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव
MBh 3.186.89
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम
आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया
MBh 3.186.90
ततो बालेन तेनैवमुक्तस्यासीत्तदा मम
निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत
MBh 3.186.91
ततो बालेन तेनास्यं सहसा विवृतं कृतम्
तस्याहमवशो वक्त्रं दैवयोगात्प्रवेशितः
MBh 3.186.92
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम्
MBh 3.186.93
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम्
चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम्
MBh 3.186.94
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि
वस्वोकसारां नलिनीं नर्मदां चैव भारत
MBh 3.186.95
नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम्
सुवेणां कृष्णवेणां च इरामां च महानदीम्
शोणं च पुरुषव्याघ्र विशल्यां कम्पुनामपि
MBh 3.186.96
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम
परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः
MBh 3.186.97
ततः समुद्रं पश्यामि यादोगणनिषेवितम्
रत्नाकरममित्रघ्न निधानं पयसो महत्
MBh 3.186.98
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम्
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः
पश्यामि च महीं राजन्काननैरुपशोभिताम्
MBh 3.186.99
यजन्ते हि तदा राजन्ब्राह्मणा बहुभिः सवैः
क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जने
MBh 3.186.100
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप
शुश्रूषायां च निरता द्विजानां वृषलास्तथा
MBh 3.186.101
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम्
MBh 3.186.102
निषधं चापि पश्यामि श्वेतं च रजताचितम्
पश्यामि च महीपाल पर्वतं गन्धमादनम्
MBh 3.186.103
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम्
पश्यामि च महाराज मेरुं कनकपर्वतम्
MBh 3.186.104
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम्
मलयं चापि पश्यामि पारियात्रं च पर्वतम्
MBh 3.186.105
एते चान्ये च बहवो यावन्तः पृथिवीधराः
तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः
MBh 3.186.106
सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप
पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते
तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा
MBh 3.186.107
कुक्षौ तस्य नरव्याघ्र प्रविष्टः संचरन्दिशः
शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणांस्तथा
MBh 3.186.108
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते
दैत्यदानवसंघांश्च कालेयांश्च नराधिप
सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः
MBh 3.186.109
यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम्
तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः
फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा
MBh 3.186.110
अन्तः शरीरे तस्याहं वर्षाणामधिकं शतम्
न च पश्यामि तस्याहमन्तं देहस्य कुत्रचित्
MBh 3.186.111
सततं धावमानश्च चिन्तयानो विशां पते
आसादयामि नैवान्तं तस्य राजन्महात्मनः
MBh 3.186.112
ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा
वरेण्यं वरदं देवं मनसा कर्मणैव च
MBh 3.186.113
ततोऽहं सहसा राजन्वायुवेगेन निःसृतः
महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम
MBh 3.186.114
ततस्तस्यैव शाखायां न्यग्रोधस्य विशां पते
आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत्
MBh 3.186.115
तेनैव बालवेषेण श्रीवत्सकृतलक्षणम्
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम्
MBh 3.186.116
ततो मामब्रवीद्वीर स बालः प्रहसन्निव
श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः
MBh 3.186.117
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम
उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे
MBh 3.186.118
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा
यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम्
MBh 3.186.119
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ
सुजातौ मृदुरक्ताभिरङ्गुलीभिरलंकृतौ
MBh 3.186.120
प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ
दृष्ट्वापरिमितं तस्य प्रभावममितौजसः
MBh 3.186.121
विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च
दृष्टो मया स भूतात्मा देवः कमललोचनः
MBh 3.186.122
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम्
ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम्
MBh 3.186.123
आस्येनानुप्रविष्टोऽहं शरीरं भगवंस्तव
दृष्टवानखिलाँल्लोकान्समस्ताञ्जठरे तव
MBh 3.186.124
तव देव शरीरस्था देवदानवराक्षसाः
यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम्
MBh 3.186.125
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते
द्रुतमन्तः शरीरे ते सततं परिधावतः
MBh 3.186.126
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दित
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते
पीत्वा जगदिदं विश्वमेतदाख्यातुमर्हसि
MBh 3.186.127
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ
कियन्तं च त्वया कालमिह स्थेयमरिंदम
MBh 3.186.128
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया
त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम्
महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो
MBh 3.186.129
इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः
सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 185
- Next chapter · Vana-Parva (Āraṇyaka) Ch 187 →
Sources and Connected Readings
Continue from these 129 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.186local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷