🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 175

The Book of the Forest · Parva 3 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 3.175.1
जनमेजय उवाच कथं नागायुतप्राणो भीमसेनो महाबलः भयमाहारयत्तीव्रं तस्मादजगरान्मुने
MBh 3.175.2
पौलस्त्यं योऽऽह्वयद्युद्धे धनदं बलदर्पितः नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम्
MBh 3.175.3
तं शंससि भयाविष्टमापन्नमरिकर्षणम् एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे
MBh 3.175.4
वैशंपायन उवाच बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः
MBh 3.175.5
यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम्
MBh 3.175.6
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा देवर्षिसिद्धचरितानप्सरोगणसेवितान्
MBh 3.175.7
चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैः कोकिलैर्भृङ्गराजैश्च तत्र तत्र विनादितान्
MBh 3.175.8
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः उपेतान्बहुलच्छायैर्मनोनयननन्दनैः
MBh 3.175.9
स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः सलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः
MBh 3.175.10
वनानि देवदारूणां मेघानामिव वागुराः हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि
MBh 3.175.11
मृगयां परिधावन्स समेषु मरुधन्वसु विध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः
MBh 3.175.12
स ददर्श महाकायं भुजङ्गं लोमहर्षणम् गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम्
MBh 3.175.13
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम्
MBh 3.175.14
गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः
MBh 3.175.15
त्रासनं सर्वभूतानां कालान्तकयमोपमम् निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम्
MBh 3.175.16
स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात्
MBh 3.175.17
तेन संस्पृष्टमात्रस्य भीमसेनस्य वै तदा संज्ञा मुमोह सहसा वरदानेन तस्य ह
MBh 3.175.18
दश नागसहस्राणि धारयन्ति हि यद्बलम् तद्बलं भीमसेनस्य भुजयोरसमं परैः
MBh 3.175.19
स तेजस्वी तथा तेन भुजगेन वशीकृतः विस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम्
MBh 3.175.20
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः
MBh 3.175.21
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.175local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷