🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 174
The Book of the Forest · Parva 3 · 24 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 24 Shlokas
MBh 3.174.1
[वै]
नगॊत्तमं परस्रवणैर उपेतं; दिशां गजैः किंनरपक्षिभिश च
सुखं निवासं जहतां हि तेषां; न परीतिर आसीद भरतर्षभाणाम
MBh 3.174.2
ततस तु तेषां पुनर एव हर्षः; कैलासम आलॊक्य महान बभूव
कुबेर कान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम
MBh 3.174.3
समुच्छ्रयान पर्वतसंनिरॊधान; गॊष्ठान गिरीणां गिरिसेतुमालाः
बहून परपातांश च समीक्ष्य वीराः; सथलानि निम्नानि च तत्र तत्र
MBh 3.174.4
तथैव चान्यानि महावनानि; मृगद्विजानेकप सेवितानि
आलॊकयन्तॊ ऽभिययुः परतीतास; ते धन्विनः खड्गधरा नराग्र्याः
MBh 3.174.5
वनानि रम्याणि सरांसि नद्यॊ; गुहा गिरीणां गिरिगह्वराणि
एते निवासाः सततं बभूवुर; निशानिशं पराप्य नरर्षभाणाम
MBh 3.174.6
ते दुर्ग वासं बहुधा निरुष्य; वयतीत्य कैलासम अचिन्त्यरूपम
आसेदुर अत्यर्थ मनॊरमं वै; तम आश्रमाग्र्यं वृषपर्वणस ते
MBh 3.174.7
समेत्य राज्ञा वृषपर्वणस ते; परत्यर्चितास तेन च वीतमॊहाः
शशंसिरे विस्तरशः परवासं; शिवं यथावद वृषपर्वणस ते
MBh 3.174.8
सुखॊषितास तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे
अभ्याययुस ते बदरीं विशालां; सुखेन वीराः पुनर एव वासम
MBh 3.174.9
ऊषुस ततस तत्र महानुभावा; नारायण सथानगता नराग्र्याः
कुबेर कान्तां नलिनीं विशॊकाः; संपश्यमानाः सुरसिद्धजुष्टाम
MBh 3.174.10
तां चाथ दृष्ट्वा नलिनीं विशॊकाः; पाण्डॊः सुताः सर्वनरप्रवीराः
ते रेमिरे नन्दनवासम एत्य; दविजर्षयॊ वीतभया यथैव
MBh 3.174.11
ततः करमेणॊपययुर नृवीरा; यथागतेनैव पथा समग्राः
विहृत्य मासं सुखिनॊ बदर्यां; किरात राज्ञॊ विषयं सुबाहॊः
MBh 3.174.12
चीनांस तुखारान दरदान सदार्वान; देशान कुणिन्दस्य च भूरि रत्नान
अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहॊर ददृशुर नृवीराः
MBh 3.174.13
शरुत्वा च तान पार्थिव पुत्रपौत्रान; पराप्तान सुबाहुर विषये समग्रान
परत्युद्ययौ परीतियुतः स राजा; तं चाभ्यनन्दन वृषभाः कुरूणाम
MBh 3.174.14
समेत्य राज्ञा तु सुबाहुना ते; सूतैर विशॊक परमुखैश च सर्वैः
सहेन्द्रसेनैः परिचारकैश च; पौरॊगवैर ये च महानसस्थाः
MBh 3.174.15
सुखॊषितास तत्र त एकरात्रं; सुतान उपादाय रथांश च सर्वान
घटॊत्कचं सानुचरं विसृज्य; ततॊ ऽभययुर यामुनम अद्रिराजम
MBh 3.174.16
तस्मिन गिरौ परस्रवणॊपपन्ने; हिमॊत्तरीयारुण पाण्डुसानौ
विशाख यूपं समुपेत्य चक्रुस; तदा निवासं पुरुषप्रवीराः
MBh 3.174.17
वराहनानामृगपक्षिजुष्टं; महद वनं चैत्ररथ परकाशम
शिवेन यात्वा मृगया परधानाः; संवत्सरं तत्र वने विजह्रुः
MBh 3.174.18
तत्राससादातिबलं भुजंगं; कषुधार्दितं मृत्युम इवॊग्ररूपम
वृकॊदरः पर्वत कन्दरायां; विषादमॊहव्यथितान्तर आत्मा
MBh 3.174.19
दवीपॊ ऽभवद यत्र वृकॊदरस्य; युधिष्ठिरॊ धर्मभृतां वरिष्ठः
अमॊक्षयद यस तम अनन्त तेजा; गराहेण संवेष्ठित सर्वगात्रम
MBh 3.174.20
ते दवादशं वर्षम अथॊपयान्तं; वने विहर्तुं कुरवः परतीताः
तस्माद वनाच चैत्ररथ परकाशाच; छरिया जवलन्तस तपसा च युक्ताः
MBh 3.174.21
ततश च यात्वा मरुधन्व पार्श्वं; सदा धनुर्वेद रतिप्रधानाः
सरस्वतीम एत्य निवासकामाः; सरस ततॊ दवैतवनं परतीयुः
MBh 3.174.22
समीक्ष्य तान दैतवने निविष्टान; निवासिनस तत्र ततॊ ऽभिजग्मुः
तपॊ दमाचार समाधियुक्तास; तृणॊद पात्राहरणाश्म कुट्टाः
MBh 3.174.23
पलक्षाक्ष रौहीतक वेतसाश च; सनुहा बदर्यः खदिराः शिरीषाः
बिल्वेङ्गुदाः पीलु शमी करीराः; सरस्वती तीररुहा बभूवुः
MBh 3.174.24
तां यक्षगन्धर्वमहर्षिकान्ताम; आयाग भूताम इव देवतानाम
सरस्वतीं परीतियुताश चरन्तः; सुखं विजह्रुर नरदेव पुत्राः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 173
- Next chapter · Vana-Parva (Āraṇyaka) Ch 175 →
🪷 जय व्यास भगवान् 🪷