🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 173

The Book of the Forest · Parva 3 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 22 Shlokas

MBh 3.173.1
जनमेजय उवाच तस्मिन्कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद्वृत्रहन्तुः अतः परं किमकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन
MBh 3.173.2
वैशंपायन उवाच वनेषु तेष्वेव तु ते नरेन्द्राः; सहार्जुनेनेन्द्रसमेन वीराः तस्मिंश्च शैलप्रवरे सुरम्ये; धनेश्वराक्रीडगता विजह्रुः
MBh 3.173.3
वेश्मानि तान्यप्रतिमानि पश्य;न्क्रीडाश्च नानाद्रुमसंनिकर्षाः चचार धन्वी बहुधा नरेन्द्रः; सोऽस्त्रेषु यत्तः सततं किरीटी
MBh 3.173.4
अवाप्य वासं नरदेवपुत्राः; प्रसादजं वैश्रवणस्य राज्ञः न प्राणिनां ते स्पृहयन्ति राज;ञ्शिवश्च कालः स बभूव तेषाम्
MBh 3.173.5
समेत्य पार्थेन यथैकरात्र;मूषुः समास्तत्र तदा चतस्रः पूर्वाश्च षट्ता दश पाण्डवानां; शिवा बभूवुर्वसतां वनेषु
MBh 3.173.6
ततोऽब्रवीद्वायुसुतस्तरस्वी; जिष्णुश्च राजानमुपोपविश्य यमौ च वीरौ सुरराजकल्पा;वेकान्तमास्थाय हितं प्रियं च
MBh 3.173.7
तव प्रतिज्ञां कुरुराज सत्यां; चिकीर्षमाणास्त्वदनु प्रियं च ततोऽनुगच्छाम वनान्यपास्य; सुयोधनं सानुचरं निहन्तुम्
MBh 3.173.8
एकादशं वर्षमिदं वसामः; सुयोधनेनात्तसुखाः सुखार्हाः तं वञ्चयित्वाधमबुद्धिशील;मज्ञातवासं सुखमाप्नुयामः
MBh 3.173.9
तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन्वनानि समीपवासेन विलोभितास्ते; ज्ञास्यन्ति नास्मानपकृष्टदेशान्
MBh 3.173.10
संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखमुद्धरेम निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय
MBh 3.173.11
सुयोधनायानुचरैर्वृताय; ततो महीमाहर धर्मराज स्वर्गोपमं शैलमिमं चरद्भिः; शक्यो विहन्तुं नरदेव शोकः
MBh 3.173.12
कीर्तिश्च ते भारत पुण्यगन्धा; नश्येत लोकेषु चराचरेषु तत्प्राप्य राज्यं कुरुपुंगवानां; शक्यं महत्प्राप्तमथ क्रियाश्च
MBh 3.173.13
इदं तु शक्यं सततं नरेन्द्र; प्राप्तुं त्वया यल्लभसे कुबेरात् कुरुष्व बुद्धिं द्विषतां वधाय; कृतागसां भारत निग्रहे च
MBh 3.173.14
तेजस्तवोग्रं न सहेत राज;न्समेत्य साक्षादपि वज्रपाणिः न हि व्यथां जातु करिष्यतस्तौ; समेत्य देवैरपि धर्मराज
MBh 3.173.15
त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ; सुपर्णकेतुश्च शिनेश्च नप्ता यथैव कृष्णोऽप्रतिमो बलेन; तथैव राजन्स शिनिप्रवीरः
MBh 3.173.16
तवार्थसिद्ध्यर्थमभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस्तैः तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रयोगे त्वदर्थयोगप्रभवप्रधानाः; समं करिष्याम परान्समेत्य
MBh 3.173.17
ततस्तदाज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतो वरिष्ठः प्रदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविदुत्तमौजः
MBh 3.173.18
आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः यथागतं मार्गमवेक्षमाणः; पुनर्गिरिं चैव निरीक्षमाणः
MBh 3.173.19
समाप्तकर्मा सहितः सुहृद्भि;र्जित्वा सपत्नान्प्रतिलभ्य राज्यम् शैलेन्द्र भूयस्तपसे धृतात्मा; द्रष्टा तवास्मीति मतिं चकार
MBh 3.173.20
वृतः स सर्वैरनुजैर्द्विजैश्च; तेनैव मार्गेण पतिः कुरूणाम् उवाह चैनान्सगणांस्तथैव; घटोत्कचः पर्वतनिर्झरेषु
MBh 3.173.21
तान्प्रस्थितान्प्रीतिमना महर्षिः; पितेव पुत्राननुशिष्य सर्वान् स लोमशः प्रीतमना जगाम; दिवौकसां पुण्यतमं निवासम्
MBh 3.173.22
तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपोवनानि महान्ति चान्यानि सरांसि पार्थाः; संपश्यमानाः प्रययुर्नराग्र्याः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 22 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.173local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷