🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 176
The Book of the Forest · Parva 3 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 51 Shlokas
MBh 3.176.1
वैशंपायन उवाच
स भीमसेनस्तेजस्वी तथा सर्पवशं गतः
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत्
MBh 3.176.2
उवाच च महासर्पं कामया ब्रूहि पन्नग
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि
MBh 3.176.3
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः
नागायुतसमप्राणस्त्वया नीतः कथं वशम्
MBh 3.176.4
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा
समागताश्च बहुशो निहताश्च मया मृधे
MBh 3.176.5
दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम
MBh 3.176.6
किं नु विद्याबलं किं वा वरदानमथो तव
उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया
MBh 3.176.7
असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः
यथेदं मे त्वया नाग बलं प्रतिहतं महत्
MBh 3.176.8
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम्
भोगेन महता सर्पः समन्तात्पर्यवेष्टयत्
MBh 3.176.9
निगृह्य तं महाबाहुं ततः स भुजगस्तदा
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत्
MBh 3.176.10
दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम्
MBh 3.176.11
यथा त्विदं मया प्राप्तं भुजंगत्वमरिंदम
तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम
MBh 3.176.12
इमामवस्थां संप्राप्तो ह्यहं कोपान्मनीषिणाम्
शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत्
MBh 3.176.13
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः
तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः
MBh 3.176.14
सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च
इमामवस्थामापन्नः पश्य दैवमिदं मम
MBh 3.176.15
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम्
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम्
MBh 3.176.16
न हि मे मुच्यते कश्चित्कथंचिद्ग्रहणं गतः
गजो वा महिषो वापि षष्ठे काले नरोत्तम
MBh 3.176.17
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम
MBh 3.176.18
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम्
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः
MBh 3.176.19
स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात्
MBh 3.176.20
ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा
MBh 3.176.21
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित्
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः
MBh 3.176.22
गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः
सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति
MBh 3.176.23
इति चाप्यहमश्रौषं वचस्तेषां दयावताम्
मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः
MBh 3.176.24
सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ
सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते
MBh 3.176.25
तमुवाच महाबाहुर्भीमसेनो भुजंगमम्
न ते कुप्ये महासर्प न चात्मानं विगर्हये
MBh 3.176.26
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः
आगमे यदि वापाये न तत्र ग्लपयेन्मनः
MBh 3.176.27
दैवं पुरुषकारेण को निवर्तितुमर्हति
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः
MBh 3.176.28
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम्
इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम्
MBh 3.176.29
किं तु नाद्यानुशोचामि तथात्मानं विनाशितम्
यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान्
MBh 3.176.30
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः
मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः
MBh 3.176.31
विनष्टमथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना
MBh 3.176.32
अथ वा नार्जुनो धीमान्विषादमुपयास्यति
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः
MBh 3.176.33
समर्थः स महाबाहुरेकाह्ना सुमहाबलः
देवराजमपि स्थानात्प्रच्यावयितुमोजसा
MBh 3.176.34
किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम्
विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम्
MBh 3.176.35
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम्
यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः
MBh 3.176.36
कथं नु तस्यानाथाया मद्विनाशाद्भुजंगम
अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः
MBh 3.176.37
नकुलः सहदेवश्च यमजौ गुरुवर्तिनौ
मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ
MBh 3.176.38
निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः
MBh 3.176.39
एवंविधं बहु तदा विललाप वृकोदरः
भुजंगभोगसंरुद्धो नाशकच्च विचेष्टितुम्
MBh 3.176.40
युधिष्ठिरस्तु कौन्तेय बभूवास्वस्थचेतनः
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन्
MBh 3.176.41
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह
MBh 3.176.42
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना
रुधिरं वमन्ती ददृशे प्रत्यादित्यमपस्वरा
MBh 3.176.43
प्रववावनिलो रूक्षश्चण्डः शर्करकर्षणः
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च
MBh 3.176.44
पृष्ठतो वायसः कृष्णो याहि याहीति वाशति
मुहुर्मुहुः प्रस्फुरति दक्षिणोऽस्य भुजस्तथा
MBh 3.176.45
हृदयं चरणश्चापि वामोऽस्य परिवर्तते
सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत
MBh 3.176.46
स धर्मराजो मेधावी शङ्कमानो महद्भयम्
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत
MBh 3.176.47
शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम्
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः
MBh 3.176.48
द्रौपद्या रक्षणं कार्यमित्युवाच धनंजयम्
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति
MBh 3.176.49
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम्
MBh 3.176.50
धावतस्तस्य वीरस्य मृगार्थे वातरंहसः
ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि
MBh 3.176.51
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 175
- Next chapter · Vana-Parva (Āraṇyaka) Ch 177 →
Sources and Connected Readings
Continue from these 51 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.176local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷