🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 177

The Book of the Forest · Parva 3 · 33 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 33 Shlokas

MBh 3.177.1
[वै] युधिष्ठिरस तम आसाद्य सर्पभॊगाभिवेष्टितम दयितं भरतरं वीरम इदं वचनम अब्रवीत
MBh 3.177.2
कुन्ती मातः कथम इमाम आपदं तवम अवाप्तवान कश चायं पर्वताभॊगप्रतिमः पन्नगॊत्तमः
MBh 3.177.3
स धर्मराजम आलक्ष्य भराता भरातरम अग्रजम कथयाम आस तत सर्वं गरहणादि विचेष्टितम
MBh 3.177.4
[य] देवॊ वा यदि वा दैत्य उरगॊ वा भवान यदि सत्यं सर्पवचॊ बरूहि पृच्छति तवां युधिष्ठिरः
MBh 3.177.5
किम आहृत्य विदित्वा वा परीतिस ते सयाद भुजंगम किमाहारं परयच्छामि कथं मुञ्चेद भवान इमम
MBh 3.177.6
[सर्प] नहुषॊ नाम राजाहम आसं पूर्वस तवानघ परथितः पञ्चमः सॊमाद आयॊःपुत्रॊ नराधिप
MBh 3.177.7
करतुभिस तपसा चैव सवाध्यायेन दमेन च तरैलॊक्यैश्वर्यम अव्यग्रं पराप्तॊ विक्रमणेन च
MBh 3.177.8
तद ऐश्वर्यं समासाद्य दर्पॊ माम अगमत तदा सहस्रं हि दविजातीनाम उवाह शिबिलां मम
MBh 3.177.9
ऐश्वर्यमदमत्तॊ ऽहम अवमन्य ततॊ दविजान इमाम अगस्त्येन दशाम आनीतः पृथिवीपते
MBh 3.177.10
न तु माम अजहात परज्ञा यावद अद्येति पाण्डव तस्यैवानुग्रहाद राजन्न अगस्त्यस्य महात्मनः
MBh 3.177.11
षष्ठे काले ममाहारः पराप्तॊ ऽयम अनुजस तव नाहम एनं विमॊक्ष्यामि न चान्यम अभिकामये
MBh 3.177.12
परश्नान उच्चारितांस तु तवं वयाहरिष्यसि चेन मम अथ पश्चाद विमॊक्ष्यामि भरातरं ते वृकॊदरम
MBh 3.177.13
[य] बरूहि सर्पयथाकामं परतिवक्ष्यामि ते वचः अपि चेच छक्नुयां परीतिम आहर्तुं ते भुजंगम
MBh 3.177.14
वेद्यं यद बराह्मणेनेह तद भवान वेत्ति केवलम सर्पराजततः शरुत्वा परतिवक्ष्यामि ते वचः
MBh 3.177.15
[सर्प] बराह्मणः कॊ भवेद राजन वेद्यं किं च युधिष्ठिर बरवीह्य अतिमतिं तवां हि वाक्यैर अनुमिमीमहे
MBh 3.177.16
[य] सत्यं दानं कषमा शीलम आनृशंस्यं दमॊ घृणा दृश्यन्ते यत्र नागेन्द्र स बराह्मण इति समृतः
MBh 3.177.17
वेद्यं सर्पपरं बरह्म निर्दुःखम असुखं च यत यत्र गत्वा न शॊचन्ति भवतः किं विवक्षितम
MBh 3.177.18
[सर्प] चातुर्वर्ण्यं परमाणं च सत्यं च बरह्म चैव ह शूद्रेष्व अपि च सत्यं च दानम अक्रॊध एव च आनृशंस्यम अहिंसा च घृणा चैव युधिष्ठिर
MBh 3.177.19
वेद्यं यच चाथ निर्दुःखम असुखं च नराधिप ताभ्यां हीनं पदं चान्यन न तद अस्तीति लक्षये
MBh 3.177.20
[य] शूद्रे चैतद भवेल लक्ष्यं दविजे तच च न विद्यते न वै शूद्रॊ भवेच छूद्रॊ बराह्मणॊ न च बराह्मणः
MBh 3.177.21
यत्रैतल लक्ष्यते सर्पवृत्तं स बराह्मणः समृतः यत्रैतन न भवेत सर्पतं शूद्रम इति निर्दिशेत
MBh 3.177.22
यत पुनर भवता परॊक्तं न वेद्यं विद्यतेति ह ताभ्यां हीनम अतीत्यात्र पदं नास्तीति चेद अपि
MBh 3.177.23
एवम एतन मतं सर्पताभ्यां हीनं न विद्यते यथा शीतॊष्णयॊर मध्ये भवेन नॊष्णं न शीतता
MBh 3.177.24
एवं वै सुखदुःखाभ्यां हीनम अस्ति पदं कव चित एषा मम मतिः सर्पयथा वा मन्यते भवान
MBh 3.177.25
[सर्प] यदि ते वृत्ततॊ राजन बराह्मणः परसमीक्षितः वयर्था जातिस तदायुष्मन कृतिर यावन न दृश्यते
MBh 3.177.26
[य] जातिर अत्र महासर्पमनुष्यत्वे महामते संकरात सर्ववर्णानां दुष्परीक्ष्येति मे मतिः
MBh 3.177.27
सर्वे सर्वास्व अपत्यानि जनयन्ति यदा नराः वान मैथुनम अथॊ जन्म मरणं च समं नृणाम
MBh 3.177.28
इदम आर्षं परमाणं च ये यजामह इत्य अपि तस्माच छीलं परधानेष्टं विदुर ये तत्त्वदर्शिनः
MBh 3.177.29
परान्न्न नाभिर वर्धनात पुंसॊ जातकर्म विधीयते तत्रास्य माता सावित्री पिता तव आचार्य उच्यते
MBh 3.177.30
वृत्त्या शूद्र समॊ हय एष यावद वेदे न जायते अस्मिन्न एवं मतिद्वैधे मनुः सवायम्भुवॊ ऽबरवीत
MBh 3.177.31
कृतकृत्याः पुनर वर्णा यदि वृत्तं न विद्यते संकरस तत्र नागेन्द्र बलवान परसमीक्षितः
MBh 3.177.32
यत्रेदानीं महासर्पसंस्कृतं वृत्तम इष्यते तं बराह्मणम अहं पूर्वम उक्तवान भुजगॊत्तम
MBh 3.177.33
[सर्प] शरुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर भक्षयेयम अहं कस्माद भरातरं ते वृकॊदरम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷