🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 178

The Book of the Forest · Parva 3 · 50 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 3.178local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 50 Shlokas

MBh 3.178.1
[य] भवान एतादृशॊ लॊके वेदवेदाङ्गपारगः बरूहि किं कुर्वतः कर्म भवेद गतिर अनुत्तमा
MBh 3.178.2
[सर्प] पात्रे दत्त्वा परियाण्य उक्त्वा सत्यम उक्त्वा च भारत अहिंसा निरतः सवर्गं गच्छेद इति मतिर मम
MBh 3.178.3
[य] दानाद वा सर्पसत्याद वा किम अतॊ गुरु दृश्यते अहिंसा परिययॊश चैव गुरुलाघवम उच्यताम
MBh 3.178.4
[सर्प] दाने रतत्वं सत्यं च अहिंसा परियम एव च एषां कार्यगरीयस्त्वाद दृश्यते गुरुलाघवम
MBh 3.178.5
कस्माच चिद दानयॊगाद धि सत्यम एव विशिष्यते सत्यवाक्याच च राजेन्द्र किं चिद दानं विशिष्यते
MBh 3.178.6
एवम एव महेष्वास परियवाक्यान महीपते अहिंसा दृश्यते गुर्वी ततश च परियम इष्यते
MBh 3.178.7
एवम एतद भवेद राजन कार्यापेक्षम अनन्तरम यद अभिप्रेतम अन्यत ते बरूहि यावद बरवीम्य अहम
MBh 3.178.8
[य] कथं सवर्गे गतिः सर्पकर्मणां च फलं धरुवम अशरीरस्य दृश्येत विषयांश च बरवीहि मे
MBh 3.178.9
[सर्प] तिस्रॊ वै गतयॊ राजन परिदृष्टाः सवकर्मभिः मानुष्यं सवर्गवासश च तिर्यग्यॊनिश च तत तरिधा
MBh 3.178.10
तत्र वै मानुषाल लॊकाद दानादिभिर अतन्द्रितः अहिंसार्थ समायुक्तैः कारणैः सवर्गम अश्नुते
MBh 3.178.11
विपरीतैश च राजेन्द्र कारणैर मानुषॊ भवेत तिर्यग्यॊनिस तथा तात विशेषश चात्र वक्ष्यते
MBh 3.178.12
कामक्रॊधसमायुक्तॊ हिंसा लॊभसमन्वितः मनुष्यत्वात परिभ्रष्टस तिर्यग्यॊनौ परसूयते
MBh 3.178.13
तिर्यग्यॊन्यां पृथग्भावॊ मनुष्यत्वे विधीयते गवादिभ्यस तथाश्वेभ्यॊ देवत्वम अपि दृश्यते
MBh 3.178.14
सॊ ऽयम एता गतीः सर्वा जन्तुश चरति कार्यवान नित्ये महति चात्मानम अवस्थापयते नृप
MBh 3.178.15
जातॊ जातश च बलवान भुङ्क्ते चात्मा स देहवान फलार्थस तात निष्पृक्तः परजा लक्षणभावनः
MBh 3.178.16
[य] शब्दे सपर्शे च रूपे च तथैव रसगन्धयॊः तस्याधिष्ठानम अव्यग्रं बरूहि सर्पयथातथम
MBh 3.178.17
किं न गृह्णासि विषयान युगपत तवं महामते एतावद उच्यतां चॊक्तं सर्वं पन्नगसत्तम
MBh 3.178.18
[सर्प] यद आत्मद्रव्यम आयुष्मन देहसंश्रयणान्वितम करणाधिष्ठितं भॊगान उपभुङ्क्ते यथाविधि
MBh 3.178.19
जञानं चैवात्र बुद्धिश च मनॊ च भरतर्षभ तस्य भॊगाधिकरणे करणानि निबॊध मे
MBh 3.178.20
मनसा तात पर्येति करमशॊ विषयान इमान विषयायतनस्थेन भूतात्मा कषेत्रनिःसृतः
MBh 3.178.21
अत्र चापि नरव्याघ्र मनॊ जन्तॊर विधीयते तस्माद युगपद अस्यात्र गरहणं नॊपपद्यते
MBh 3.178.22
स आत्मा पुरुषव्याघ्र भरुवॊर अन्तरम आश्रितः दरव्येषु सृजते बुद्धिं विविधेषु परावरम
MBh 3.178.23
बुद्धेर उत्तरकालं च वेदना दृश्यते बुधैः एष वै राजशार्दूल विधिः कषेत्रज्ञभावनः
MBh 3.178.24
[य] मनसॊ चापि बुद्धेश च बरूहि मे लक्षणं परम एतद अध्यात्मविदुषां परं कार्यं विधीयते
MBh 3.178.25
[सर्प] बुद्धिर आत्मानुगा तात उत्पातेन विधीयते तद आश्रिता हि संज्ञैषा विधिस तस्यैषणे भवेत
MBh 3.178.26
बुद्धेर गुणविधिर नास्ति मनस तु गुणवद भवेत बुद्धिर उत्पद्यते कार्ये मनस तूत्पन्नम एव हि
MBh 3.178.27
एतद विशेषणं तात मनॊ बुद्ध्यॊर मयेरितम तवम अप्य अत्राभिसंबुद्धः कथं वा मन्यते भवान
MBh 3.178.28
[य] अहॊ बुद्धिमतां शरेष्ठ शुभा बुद्धिर इयं तव विदितं वेदितव्यं ते कस्मान माम अनुपृच्छसि
MBh 3.178.29
सर्वज्ञं तवां कथं मॊह आविशत सवर्गवासिनम एवम अद्भुतकर्माणम इति मे संशयॊ महान
MBh 3.178.30
[सर्प] सुप्रज्ञम अपि चेच छूरम ऋद्धिर मॊहयते नरम वर्तमानः सुखे सर्वॊ नावैतीति मतिर मम
MBh 3.178.31
सॊ ऽहम ऐश्वर्यमॊहेन मदाविष्टॊ युधिष्ठिर पतितः परतिसंबुद्धस तवां तु संबॊधयाम्य अहम
MBh 3.178.32
कृतं कार्यं महाराज तवया मम परंतप कषीणः शापः सुकृच्छ्रॊ मे तवया संभाष्य साधुना
MBh 3.178.33
अहं हि दिवि दिव्येन विमानेन चरन पुरा अभिमानेन मत्तः सन कं चिन नान्यम अचिन्तयम
MBh 3.178.34
बरह्मर्षिदेवगन्धर्वयक्षराक्षस किंनराः करान मम परयच्छन्ति सर्वे तरैलॊक्यवासिनः
MBh 3.178.35
चक्षुषा यं परपश्यामि पराणिनं पृथिवीपतौ तस्य तेजॊ हराम्य आशु तद धि दृष्टिबलं मम
MBh 3.178.36
बरह्मर्षीणां सहस्रं हि उवाह शिबिकां मम स माम अपनयॊ राजन भरंशयाम आस वै शरियः
MBh 3.178.37
तत्र हय अगस्त्यः पादेन वहन पृष्टॊ मया मुनिः अदृष्टेन ततॊ ऽसम्य उक्तॊ धवंस सर्पेति वै रुषा
MBh 3.178.38
ततस तस्माद विमानाग्रात परच्युतश चयुत भूषणः परपतन बुबुधे ऽऽतमानं वयाली भूतम अधॊमुखम
MBh 3.178.39
अयाचं तम अहं विप्रं शापस्यान्तॊ भवेद इति अज्ञानात संप्रवृत्तस्य भगवन कषन्तुम अर्हसि
MBh 3.178.40
ततः स माम उवाचेदं परपतन्तं कृपान्वितः युधिष्ठिरॊ धर्मराजः शापात तवां मॊक्षयिष्यति
MBh 3.178.41
अभिमानस्य घॊरस्य बलस्य च नराधिप फले कषीणे महाराज फलं पुण्यम अवाप्स्यसि
MBh 3.178.42
ततॊ मे विस्मयॊ जातस तद दृष्ट्वा तपसॊ बलम बरह्म च बराह्मणत्वं च येन तवाहम अचूचुदम
MBh 3.178.43
सत्यं दमस तपॊयॊगम अहिंसा दाननित्यता साधकानि सदा पुंसां न जातिर न कुलं नृप
MBh 3.178.44
अरिष्ट एष ते भराता भीमॊ मुक्तॊ महाभुजः सवस्ति ते ऽसतु महाराज गमिष्यामि दिवं पुनः
MBh 3.178.45
[वै] इत्य उक्त्वाजगरं देहं तयक्त्वा स नहुषॊ नृपः दिव्यं वपुः समास्थाय गतस तरिदिवम एव ह
MBh 3.178.46
युधिष्ठिरॊ ऽपि धर्मात्मा भरात्रा भीमेन संगतः धौम्येन सहितः शरीमान आश्रमं पुनर अभ्यगात
MBh 3.178.47
ततॊ दविजेभ्यः सर्वेभ्यः समेतेभ्यॊ यथातथम कथयाम आस तत सर्वं धर्मराजॊ युधिष्ठिरः
MBh 3.178.48
तच छरुत्वा ते दविजाः सर्वे भरातरश चास्य ते तरयः आसन सुव्रीडिता राजन दरौपदी च यशस्विनी
MBh 3.178.49
ते तु सर्वे दविजश्रेष्ठाः पाण्डवानां हितेप्सया मैवम इत्य अब्रुवन भीमं गर्हयन्तॊ ऽसय साहसम
MBh 3.178.50
पाण्डवास तु भयान मुक्तं परेक्ष्य भीमं महाबलम हर्षम आहारयां चक्रुर विजह्रुश च मुदा युताः

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷