🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 157
The Book of the Forest · Parva 3 · 70 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 70 Shlokas
MBh 3.157.1
जनमेजय उवाच
पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः
कियन्तं कालमवसन्पर्वते गन्धमादने
MBh 3.157.2
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम्
वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम
MBh 3.157.3
विस्तरेण च मे शंस भीमसेनपराक्रमम्
यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ
न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम
MBh 3.157.4
कच्चित्समागमस्तेषामासीद्वैश्रवणेन च
तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत्
MBh 3.157.5
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम्
MBh 3.157.6
वैशंपायन उवाच
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः
शासनं सततं चक्रुस्तथैव भरतर्षभाः
MBh 3.157.7
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च
शुद्धबाणहतानां च मृगाणां पिशितान्यपि
MBh 3.157.8
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः
MBh 3.157.9
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात्
शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च
MBh 3.157.10
कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः
राक्षसैः सहितः सर्वैः पूर्वमेव गतः प्रभो
MBh 3.157.11
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम्
अगच्छन्बहवो मासाः पश्यतां महदद्भुतम्
MBh 3.157.12
तैस्तत्र रममाणैश्च विहरद्भिश्च पाण्डवैः
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा
MBh 3.157.13
आजग्मुः पाण्डवान्द्रष्टुं सिद्धात्मानो यतव्रताः
तैस्तैः सह कथाश्चक्रुर्दिव्या भरतसत्तमाः
MBh 3.157.14
ततः कतिपयाहस्य महाह्रदनिवासिनम्
ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत्
MBh 3.157.15
प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः
ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम्
MBh 3.157.16
ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः
अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च
MBh 3.157.17
तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः
ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी
MBh 3.157.18
भीमसेनं ततः कृष्णा काले वचनमब्रवीत्
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम्
MBh 3.157.19
सुपर्णानिलवेगेन श्वसनेन महाबलात्
पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ
प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति
MBh 3.157.20
खाण्डवे सत्यसंधेन भ्रात्रा तव नरेश्वर
गन्धर्वोरगरक्षांसि वासवश्च निवारितः
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम्
MBh 3.157.21
तवापि सुमहत्तेजो महद्बाहुबलं च ते
अविषह्यमनाधृष्यं शतक्रतुबलोपमम्
MBh 3.157.22
त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश
MBh 3.157.23
ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम्
व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव
MBh 3.157.24
एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता
MBh 3.157.25
ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः
नामृष्यत महाबाहुः प्रहारमिव सद्गवः
MBh 3.157.26
सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः
मनस्वी बलवान्दृप्तो मानी शूरश्च पाण्डवः
MBh 3.157.27
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः
सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः
MBh 3.157.28
महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः
रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत्
MBh 3.157.29
केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः
व्यपेतभयसंमोहः शैलमभ्यपतद्बली
MBh 3.157.30
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम्
ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम्
MBh 3.157.31
द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः
व्यपेतभयसंमोहः शैलराजं समाविशत्
MBh 3.157.32
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः
MBh 3.157.33
तदेकायनमासाद्य विषमं भीमदर्शनम्
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः
MBh 3.157.34
स किंनरमहानागमुनिगन्धर्वराक्षसान्
हर्षयन्पर्वतस्याग्रमाससाद महाबलः
MBh 3.157.35
तत्र वैश्रवणावासं ददर्श भरतर्षभः
काञ्चनैः स्फाटिकाकारैर्वेश्मभिः समलंकृतम्
MBh 3.157.36
मोदयन्सर्वभूतानि गन्धमादनसंभवः
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ
MBh 3.157.37
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभनाः
MBh 3.157.38
रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम्
राक्षसाधिपतेः स्थानं ददर्श भरतर्षभः
MBh 3.157.39
गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः
भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः
MBh 3.157.40
ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम्
ज्याघोषतलघोषं च कृत्वा भूतान्यमोहयत्
MBh 3.157.41
ततः संहृष्टरोमाणः शब्दं तमभिदुद्रुवुः
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः
MBh 3.157.42
गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः
MBh 3.157.43
ततः प्रववृते युद्धं तेषां तस्य च भारत
तैः प्रयुक्तान्महाकायैः शक्तिशूलपरश्वधान्
भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः
MBh 3.157.44
अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम्
शरैर्विव्याध गात्राणि राक्षसानां महाबलः
MBh 3.157.45
सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम्
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः
MBh 3.157.46
भीमबाहुबलोत्सृष्टैर्बहुधा यक्षरक्षसाम्
विनिकृत्तान्यदृश्यन्त शरीराणि शिरांसि च
MBh 3.157.47
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम्
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव
MBh 3.157.48
स रश्मिभिरिवादित्यः शरैररिनिघातिभिः
सर्वानार्छन्महाबाहुर्बलवान्सत्यविक्रमः
MBh 3.157.49
अभितर्जयमानाश्च रुवन्तश्च महारवान्
न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः
MBh 3.157.50
ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः
MBh 3.157.51
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान्
दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना
MBh 3.157.52
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः
MBh 3.157.53
अदर्शयदधीकारं पौरुषं च महाबलः
स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत्
MBh 3.157.54
एकेन बहवः संख्ये मानुषेण पराजिताः
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम्
MBh 3.157.55
एवमाभाष्य तान्सर्वान्न्यवर्तत स राक्षसः
शक्तिशूलगदापाणिरभ्यधावच्च पाण्डवम्
MBh 3.157.56
तमापतन्तं वेगेन प्रभिन्नमिव वारणम्
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समर्पयत्
MBh 3.157.57
मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम्
प्राहिणोद्भीमसेनाय परिक्षिप्य महाबलः
MBh 3.157.58
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम्
शरैर्बहुभिरभ्यर्छद्भीमसेनः शिलाशितैः
MBh 3.157.59
प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः
न वेगं धारयामासुर्गदावेगस्य वेगिताः
MBh 3.157.60
गदायुद्धसमाचारं बुध्यमानः स वीर्यवान्
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः
MBh 3.157.61
ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम्
तस्मिन्नेवान्तरे धीमान्प्रजहाराथ राक्षसः
MBh 3.157.62
सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम्
साग्निज्वाला महारौद्रा पपात सहसा भुवि
MBh 3.157.63
सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः
गदां जग्राह कौरव्यो गदायुद्धविशारदः
MBh 3.157.64
तां प्रगृह्योन्नदन्भीमः सर्वशैक्यायसीं गदाम्
तरसा सोऽभिदुद्राव मणिमन्तं महाबलम्
MBh 3.157.65
दीप्यमानं महाशूलं प्रगृह्य मणिमानपि
प्राहिणोद्भीमसेनाय वेगेन महता नदन्
MBh 3.157.66
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः
अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम्
MBh 3.157.67
सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम्
प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि
MBh 3.157.68
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा
हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह
MBh 3.157.69
तं राक्षसं भीमबलं भीमसेनेन पातितम्
ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम्
MBh 3.157.70
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः
भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 156
- Next chapter · Vana-Parva (Āraṇyaka) Ch 158 →
Sources and Connected Readings
Continue from these 70 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.157local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷