🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 158

The Book of the Forest · Parva 3 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 59 Shlokas

MBh 3.158.1
वैशंपायन उवाच श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेर्गुहाः अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि
MBh 3.158.2
धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन्
MBh 3.158.3
द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा
MBh 3.158.4
ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः ददृशुस्ते महेष्वासा भीमसेनमरिंदमम्
MBh 3.158.5
स्फुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान् महाबलान्महाघोरान्भीमसेनेन पातितान्
MBh 3.158.6
शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः निहत्य समरे सर्वान्दानवान्मघवानिव
MBh 3.158.7
ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम्
MBh 3.158.8
तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत लोकपालैर्महाभागैर्दिवं देववरैरिव
MBh 3.158.9
कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् भ्राता भ्रातरमासीनमभ्यभाषत पाण्डवम्
MBh 3.158.10
साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम् नैतत्ते सदृशं वीर मुनेरिव मृषावचः
MBh 3.158.11
राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम्
MBh 3.158.12
अर्थधर्मावनादृत्य यः पापे कुरुते मनः कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्
MBh 3.158.13
एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः विरराम महातेजास्तमेवार्थं विचिन्तयन्
MBh 3.158.14
ततस्तु हतशिष्टा ये भीमसेनेन राक्षसाः सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति
MBh 3.158.15
ते जवेन महावेगाः प्राप्य वैश्रवणालयम् भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः
MBh 3.158.16
न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन्
MBh 3.158.17
गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः राक्षसा निहताः सर्वे तव देव पुरःसराः
MBh 3.158.18
प्रमृद्य तरसा शैलं मानुषेण धनेश्वर एकेन सहिताः संख्ये हताः क्रोधवशा गणाः
MBh 3.158.19
प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप शेरते निहता देव गतसत्त्वाः परासवः
MBh 3.158.20
लब्धः शैलो वयं मुक्ता मणिमांस्ते सखा हतः मानुषेण कृतं कर्म विधत्स्व यदनन्तरम्
MBh 3.158.21
स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः कोपसंरक्तनयनः कथमित्यब्रवीद्वचः
MBh 3.158.22
द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत्
MBh 3.158.23
अथाभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् हयैः संयोजयामासुर्गान्धर्वैरुत्तमं रथम्
MBh 3.158.24
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः तेजोबलजवोपेता नानारत्नविभूषिताः
MBh 3.158.25
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः
MBh 3.158.26
स तमास्थाय भगवान्राजराजो महारथम् प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः
MBh 3.158.27
तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम् रक्ताक्षा हेमसंकाशा महाकाया महाबलाः
MBh 3.158.28
सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः जवेन महता वीराः परिवार्योपतस्थिरे
MBh 3.158.29
तं महान्तमुपायान्तं धनेश्वरमुपान्तिके ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम्
MBh 3.158.30
कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान् आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा
MBh 3.158.31
ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः
MBh 3.158.32
ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः
MBh 3.158.33
पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित्
MBh 3.158.34
अपराद्धमिवात्मानं मन्यमाना महारथाः तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम्
MBh 3.158.35
शय्यासनवरं श्रीमत्पुष्पकं विश्वकर्मणा विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः
MBh 3.158.36
तमासीनं महाकायाः शङ्कुकर्णा महाजवाः उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः
MBh 3.158.37
शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम्
MBh 3.158.38
काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् बाणखड्गधनुष्पाणिरुदैक्षत धनाधिपम्
MBh 3.158.39
न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः
MBh 3.158.40
आददानं शितान्बाणान्योद्धुकाममवस्थितम् दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः
MBh 3.158.41
विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् निर्भयश्चापि शैलाग्रे वस त्वं सह बन्धुभिः
MBh 3.158.42
न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव कालेनैते हताः पूर्वं निमित्तमनुजस्तव
MBh 3.158.43
व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम् दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम्
MBh 3.158.44
न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ कर्मणानेन भीमस्य मम तुष्टिरभूत्पुरा
MBh 3.158.45
एवमुक्त्वा तु राजानं भीमसेनमभाषत नैतन्मनसि मे तात वर्तते कुरुसत्तम यदिदं साहसं भीम कृष्णार्थे कृतवानसि
MBh 3.158.46
मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि शापादस्मि विनिर्मुक्तो घोरादद्य वृकोदर
MBh 3.158.47
अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिः कृता
MBh 3.158.48
दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन न तवात्रापराधोऽस्ति कथंचिदपि शत्रुहन्
MBh 3.158.49
युधिष्ठिर उवाच कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम्
MBh 3.158.50
इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः तदैव त्वं न निर्दग्धः सबलः सपदानुगः
MBh 3.158.51
वैश्रवण उवाच देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः यक्षाणां घोररूपाणां विविधायुधधारिणाम्
MBh 3.158.52
अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम् उग्रं तपस्तपस्यन्तं यमुनातीरमाश्रितम् नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम्
MBh 3.158.53
तमूर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं स्थितम् तेजोराशिं दीप्यमानं हुताशनमिवैधितम्
MBh 3.158.54
राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च भारत न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि
MBh 3.158.55
स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव
MBh 3.158.56
धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर तस्मात्सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात्
MBh 3.158.57
त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे
MBh 3.158.58
सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् न शापं प्राप्स्यते घोरं गच्छ तेऽऽज्ञां करिष्यति
MBh 3.158.59
एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् स भीमेन महाराज भ्रात्रा तव विमोक्षितः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 59 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.158local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷