🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 156
The Book of the Forest · Parva 3 · 31 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 31 Shlokas
MBh 3.156.1
वैशंपायन उवाच
युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम्
अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन्
MBh 3.156.2
ततः कृष्णा च भीमश्च यमौ चापि यशस्विनौ
शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे
MBh 3.156.3
तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः
यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम्
MBh 3.156.4
अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा
पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत्
MBh 3.156.5
कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः
सह भ्रातृभिरासीनं पर्यपृच्छदनामयम्
MBh 3.156.6
नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे
मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति
MBh 3.156.7
कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः
कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु
MBh 3.156.8
सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम्
यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे
MBh 3.156.9
यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे
MBh 3.156.10
कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते
दानधर्मतपःशौचैरार्जवेन तितिक्षया
MBh 3.156.11
पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे
कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव
MBh 3.156.12
स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः
पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च
MBh 3.156.13
किं न्वस्य दुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम्
MBh 3.156.14
पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः
यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ
MBh 3.156.15
अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा
जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसंधिषु
MBh 3.156.16
कामिनः सह कान्ताभिः परस्परमनुव्रताः
दृश्यन्ते शैलशृङ्गस्थास्तथा किंपुरुषा नृप
MBh 3.156.17
अरजांसि च वासांसि वसानाः कौशिकानि च
दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः
MBh 3.156.18
विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः
महोरगगणाश्चैव सुपर्णाश्चोरगादयः
MBh 3.156.19
अस्य चोपरि शैलस्य श्रूयते पर्वसंधिषु
भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः
MBh 3.156.20
इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः
न कार्या वः कथंचित्स्यात्तत्राभिसरणे मतिः
MBh 3.156.21
न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः
विहारो ह्यत्र देवानाममानुषगतिस्तु सा
MBh 3.156.22
ईषच्चपलकर्माणं मनुष्यमिह भारत
द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः
MBh 3.156.23
अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर
गतिः परमसिद्धानां देवर्षीणां प्रकाशते
MBh 3.156.24
चापलादिह गच्छन्तं पार्थ यानमतः परम्
अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन
MBh 3.156.25
अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः
इह वैश्रवणस्तात पर्वसंधिषु दृश्यते
MBh 3.156.26
शिखरे तं समासीनमधिपं सर्वरक्षसाम्
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम्
MBh 3.156.27
देवदानवसिद्धानां तथा वैश्रवणस्य च
गिरेः शिखरमुद्यानमिदं भरतसत्तम
MBh 3.156.28
उपासीनस्य धनदं तुम्बुरोः पर्वसंधिषु
गीतसामस्वनस्तात श्रूयते गन्धमादने
MBh 3.156.29
एतदेवंविधं चित्रमिह तात युधिष्ठिर
प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसंधिषु
MBh 3.156.30
भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम्
MBh 3.156.31
न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन
उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च
ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 155
- Next chapter · Vana-Parva (Āraṇyaka) Ch 157 →
Sources and Connected Readings
Continue from these 31 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.156local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷