🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 155

The Book of the Forest · Parva 3 · 90 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 90 Shlokas

MBh 3.155.1
वैशंपायन उवाच निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः
MBh 3.155.2
स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम्
MBh 3.155.3
समाश्चतस्रोऽभिगताः शिवेन चरतां वने कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम्
MBh 3.155.4
प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः
MBh 3.155.5
कृतश्च समयस्तेन पार्थेनामिततेजसा पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि
MBh 3.155.6
तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम् देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम्
MBh 3.155.7
इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः कारणं चैव तत्तेषामाचचक्षे तपस्विनाम्
MBh 3.155.8
तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च
MBh 3.155.9
सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि
MBh 3.155.10
तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः
MBh 3.155.11
द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा राक्षसैरनुयातश्च लोमशेनाभिरक्षितः
MBh 3.155.12
क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित् तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः
MBh 3.155.13
ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन् सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम्
MBh 3.155.14
अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम्
MBh 3.155.15
उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि
MBh 3.155.16
ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात् पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते
MBh 3.155.17
सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः समावृतं पुण्यतममाश्रमं वृषपर्वणः
MBh 3.155.18
तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः
MBh 3.155.19
अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः
MBh 3.155.20
अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम् आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन्
MBh 3.155.21
एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान्
MBh 3.155.22
ततस्ते वरवस्त्राणि शुभान्याभरणानि च न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः
MBh 3.155.23
अतीतानागते विद्वान्कुशलः सर्वधर्मवित् अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान्
MBh 3.155.24
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः
MBh 3.155.25
उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च वृषपर्वा निववृते पन्थानमुपदिश्य च
MBh 3.155.26
नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः
MBh 3.155.27
नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः
MBh 3.155.28
महाभ्रघनसंकाशं सलिलोपहितं शुभम् मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम्
MBh 3.155.29
ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान्
MBh 3.155.30
उपर्युपरि शैलस्य गुहाः परमदुर्गमाः सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः
MBh 3.155.31
धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः अगमन्सहितास्तत्र न कश्चिदवहीयते
MBh 3.155.32
ते मृगद्विजसंघुष्टं नानाद्विजसमाकुलम् शाखामृगगणैश्चैव सेवितं सुमनोहरम्
MBh 3.155.33
पुण्यं पद्मसरोपेतं सपल्वलमहावनम् उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम्
MBh 3.155.34
ततः किंपुरुषावासं सिद्धचारणसेवितम् ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम्
MBh 3.155.35
विद्याधरानुचरितं किंनरीभिस्तथैव च गजसिंहसमाकीर्णमुदीर्णशरभायुतम्
MBh 3.155.36
उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः ते गन्धमादनवनं तन्नन्दनवनोपमम्
MBh 3.155.37
मुदिताः पाण्डुतनया मनोहृदयनन्दनम् विविशुः क्रमशो वीरा अरण्यं शुभकाननम्
MBh 3.155.38
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः शृण्वन्तः प्रीतिजननान्वल्गून्मदकलाञ्शुभान् श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान्
MBh 3.155.39
सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान् पश्यन्तः पादपांश्चापि फलभारावनामितान्
MBh 3.155.40
आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् अजातकांस्तथा जीरान्दाडिमान्बीजपूरकान्
MBh 3.155.41
पनसाँल्लिकुचान्मोचान्खर्जूरानाम्रवेतसान् पारावतांस्तथा क्षौद्रान्नीपांश्चापि मनोरमान्
MBh 3.155.42
बिल्वान्कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा भल्लातकानामलकान्हरीतकबिभीतकान्
MBh 3.155.43
इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान् एतानन्यांश्च विविधान्गन्धमादनसानुषु
MBh 3.155.44
फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून् तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा
MBh 3.155.45
पुंनागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान् पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा
MBh 3.155.46
पारिजातान्कोविदारान्देवदारुतरूंस्तथा शालांस्तालांस्तमालांश्च प्रियालान्बकुलांस्तथा शाल्मलीः किंशुकाशोकाञ्शिंशपांस्तरलांस्तथा
MBh 3.155.47
चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः
MBh 3.155.48
प्रियव्रतैश्चातकैश्च तथान्यैर्विविधैः खगैः श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान्
MBh 3.155.49
सरांसि च विचित्राणि प्रसन्नसलिलानि च कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः कह्लारैः कमलैश्चैव आचितानि समन्ततः
MBh 3.155.50
कदम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः
MBh 3.155.51
हृष्टैस्तथा तामरसरसासवमदालसैः पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः
MBh 3.155.52
मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान् पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु
MBh 3.155.53
तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः शिखण्डिनीभिः सहिताँल्लतामण्डपकेषु च मेघतूर्यरवोद्दाममदनाकुलितान्भृशम्
MBh 3.155.54
कृत्वैव केकामधुरं संगीतमधुरस्वरम् चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् मयूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान्
MBh 3.155.55
कान्ताभिः सहितानन्यानपश्यन्रमतः सुखम् वल्लीलतासंकटेषु कटकेषु स्थितांस्तथा
MBh 3.155.56
कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि कलापरचिताटोपान्विचित्रमुकुटानिव विवरेषु तरूणां च मुदितान्ददृशुश्च ते
MBh 3.155.57
सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान् सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च
MBh 3.155.58
कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान् अथापश्यन्कुरबकान्वनराजिषु पुष्पितान् कामवश्योत्सुककरान्कामस्येव शरोत्करान्
MBh 3.155.59
तथैव वनराजीनामुदारान्रचितानिव विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव
MBh 3.155.60
तथानङ्गशराकारान्सहकारान्मनोरमान् अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान्
MBh 3.155.61
हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि
MBh 3.155.62
तथा शालांस्तमालांश्च पाटल्यो बकुलानि च माला इव समासक्ताः शैलानां शिखरेषु च
MBh 3.155.63
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः गजसंघसमाबाधं सिंहव्याघ्रसमायुतम्
MBh 3.155.64
शरभोन्नादसंघुष्टं नानारावनिनादितम् सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु
MBh 3.155.65
पीता भास्वरवर्णाभा बभूवुर्वनराजयः नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु
MBh 3.155.66
विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः राजहंसैरुपेतानि सारसाभिरुतानि च सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु
MBh 3.155.67
पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च गन्धवन्ति च माल्यानि रसवन्ति फलानि च अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु
MBh 3.155.68
एते चान्ये च बहवस्तत्र काननजा द्रुमाः लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः
MBh 3.155.69
युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम्
MBh 3.155.70
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर
MBh 3.155.71
लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु
MBh 3.155.72
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु
MBh 3.155.73
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान्
MBh 3.155.74
रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः परस्परमुदीक्षन्ते बहवो जीवजीवकाः
MBh 3.155.75
हरितारुणवर्णानां शाद्वलानां समन्ततः सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि
MBh 3.155.76
वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः
MBh 3.155.77
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः
MBh 3.155.78
बहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः
MBh 3.155.79
भास्कराभप्रभा भीम शारदाभ्रघनोपमाः शोभयन्ति महाशैलं नानारजतधातवः
MBh 3.155.80
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च
MBh 3.155.81
मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः
MBh 3.155.82
सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः एते बहुविधाः शैलं शोभयन्ति महाप्रभाः
MBh 3.155.83
गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह
MBh 3.155.84
गीतानां तलतालानां यथा साम्नां च निस्वनः श्रूयते बहुधा भीम सर्वभूतमनोहरः
MBh 3.155.85
महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम् कलहंसगणैर्जुष्टामृषिकिंनरसेविताम्
MBh 3.155.86
धातुभिश्च सरिद्भिश्च किंनरैर्मृगपक्षिभिः गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः
MBh 3.155.87
व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः उपेतं पश्य कौन्तेय शैलराजमरिंदम
MBh 3.155.88
ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परंतपाः
MBh 3.155.89
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा
MBh 3.155.90
ततस्तं तीव्रतपसं कृशं धमनिसंततम् पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 90 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.155local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷