🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 154

The Book of the Forest · Parva 3 · 61 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 61 Shlokas

MBh 3.154.1
वैशंपायन उवाच ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च
MBh 3.154.2
रहितान्भीमसेनेन कदाचित्तान्यदृच्छया जहार धर्मराजानं यमौ कृष्णां च राक्षसः
MBh 3.154.3
ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा
MBh 3.154.4
परीक्षमाणः पार्थानां कलापानि धनूंषि च अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः
MBh 3.154.5
स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे अन्यद्रूपं समास्थाय विकृतं भैरवं महत्
MBh 3.154.6
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान्
MBh 3.154.7
सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः आक्रन्दद्भीमसेनं वै येन यातो महाबलः
MBh 3.154.8
तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः धर्मस्ते हीयते मूढ न चैनं समवेक्षसे
MBh 3.154.9
येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि
MBh 3.154.10
समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते इमं च लोकं शोचन्तमनुशोचन्ति देवताः पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि
MBh 3.154.11
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम्
MBh 3.154.12
न च राजावमन्तव्यो रक्षसा जात्वनागसि अणुरप्यपचारश्च नास्त्यस्माकं नराशन
MBh 3.154.13
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः
MBh 3.154.14
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि
MBh 3.154.15
एवमेव वृथाचारो वृथावृद्धो वृथामतिः वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि
MBh 3.154.16
अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर
MBh 3.154.17
अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम्
MBh 3.154.18
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया
MBh 3.154.19
ततो युधिष्ठिरस्तस्य भारिकः समपद्यत स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत्
MBh 3.154.20
अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता
MBh 3.154.21
नातिदूरे महाबाहुर्भविता पवनात्मजः अस्मिन्मुहूर्ते संप्राप्ते न भविष्यति राक्षसः
MBh 3.154.22
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम्
MBh 3.154.23
राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा
MBh 3.154.24
एष चास्मान्वयं चैनं युध्यमानाः परंतप सूदयेम महाबाहो देशकालो ह्ययं नृप
MBh 3.154.25
क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम्
MBh 3.154.26
राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत
MBh 3.154.27
भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि
MBh 3.154.28
तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया प्रादृश्यत महाबाहुः सवज्र इव वासवः
MBh 3.154.29
सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा
MBh 3.154.30
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम्
MBh 3.154.31
भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत्
MBh 3.154.32
विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम्
MBh 3.154.33
प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत्
MBh 3.154.34
अपक्वस्य च कालेन वधस्तव न विद्यते नूनमद्यासि संपक्वो यथा ते मतिरीदृशी दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा
MBh 3.154.35
बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि
MBh 3.154.36
यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः
MBh 3.154.37
एवमुक्तस्तु भीमेन राक्षसः कालचोदितः भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः
MBh 3.154.38
अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम्
MBh 3.154.39
श्रुता मे राक्षसा ये ये त्वया विनिहता रणे तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम्
MBh 3.154.40
एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन् स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम्
MBh 3.154.41
राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम् अभिदुद्राव संरब्धो बलो वज्रधरं यथा
MBh 3.154.42
वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम्
MBh 3.154.43
न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत्
MBh 3.154.44
आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम्
MBh 3.154.45
इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ
MBh 3.154.46
तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः अमृष्यमाणयोः संख्ये देवदानवयोरिव
MBh 3.154.47
आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः जीमूताविव घर्मान्ते विनदन्तौ महाबलौ
MBh 3.154.48
बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ
MBh 3.154.49
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः
MBh 3.154.50
आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः
MBh 3.154.51
तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः पुञ्जीकृताश्च शतशः परस्परवधेप्सया
MBh 3.154.52
तदा शिलाः समादाय मुहूर्तमिव भारत महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ
MBh 3.154.53
उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम् वज्रैरिव महावेगैराजघ्नतुरमर्षणौ
MBh 3.154.54
अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव
MBh 3.154.55
मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः तयोश्चटचटाशब्दो बभूव सुमहात्मनोः
MBh 3.154.56
ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम्
MBh 3.154.57
ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत
MBh 3.154.58
तत एनं महाबाहुर्बाहुभ्याममरोपमः समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले
MBh 3.154.59
तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः अरत्निना चाभिहत्य शिरः कायादपाहरत्
MBh 3.154.60
संदष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम् जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् पपात रुधिरादिग्धं संदष्टदशनच्छदम्
MBh 3.154.61
तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 61 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.154local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷