🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 14

The Book of the Forest · Parva 3 · 17 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 17 Shlokas

MBh 3.14.1
वासुदेव उवाच नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा
MBh 3.14.2
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च
MBh 3.14.3
वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन् भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च
MBh 3.14.4
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो
MBh 3.14.5
तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा
MBh 3.14.6
अभक्षितविनाशं च देवनेन विशां पते सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम्
MBh 3.14.7
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः
MBh 3.14.8
तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः
MBh 3.14.9
एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम्
MBh 3.14.10
एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम् द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम्
MBh 3.14.11
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन
MBh 3.14.12
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम्
MBh 3.14.13
अथैनानभिनीयैवं सुहृदो नाम दुर्हृदः सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान्
MBh 3.14.14
असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम्
MBh 3.14.15
सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम्
MBh 3.14.16
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते
MBh 3.14.17
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 17 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.14local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷