🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 15
The Book of the Forest · Parva 3 · 22 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 22 Shlokas
MBh 3.15.1
[य]
असांनिध्यं कथं कृष्ण तवासीद वृष्णिनन्दन
कव चासीद विप्रवासस ते किं वाकार्षीः परवासकः
MBh 3.15.2
[कृ]
शाल्वस्य नगरं सौभं गतॊ ऽहं भरतर्षभ
विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम
MBh 3.15.3
महातेजा महाबाहुर यः स राजा महायशाः
दमघॊषात्मजॊ वीरः शिशुपालॊ मया हतः
MBh 3.15.4
यज्ञे ते भरतश्रेष्ठ राजसूये ऽरहणां परति
सरॊषवशसंप्राप्तॊ नामृष्यत दुरात्मवान
MBh 3.15.5
शरुत्वा तं निहतं शाल्वस तीव्ररॊषसमन्वितः
उपायाद दवारकां शून्याम इहस्थे मयि भारत
MBh 3.15.6
स तत्र यॊधितॊ राजन बालकैर वृष्णिपुंगवैः
आगतः कामगं सौभम आरुह्यैव नृशंसकृत
MBh 3.15.7
ततॊ वृष्णिप्रवीरांस तान बालान हत्वा बहूंस तदा
पुरॊद्यानानि सर्वाणि भेदयाम आस दुर्मतिः
MBh 3.15.8
उक्तवांश च महाबाहॊ कवासौ वृष्णिकुलाधमः
वासुदेवः सुमन्दात्मा वसुदेव सुतॊ गतः
MBh 3.15.9
तस्य युद्धार्थिनॊ दर्पं युद्धे नाशयितास्म्य अहम
आनर्ताः सत्यम आख्यात तत्र गन्तास्मि यत्र सः
MBh 3.15.10
तं हत्वा विनिवर्तिष्ये कंस केशि निषूदनम
अहत्वा न निवर्तिष्ये सत्येनायुधम आलभे
MBh 3.15.11
कवासौ कवासाव इति पुनस तत्र तत्र विधावति
मया किल रणे युद्धं काङ्क्षमाणः स सौभराट
MBh 3.15.12
अद्य तं पापकर्माणं कषुद्रं विश्वासघातिनम
शिशुपाल वधामर्षाद गमयिष्ये यमक्षयम
MBh 3.15.13
मम पापस्वभावेन भराता येन निपातितः
शिशुपालॊ महीपालस तं वधिष्ये महीतले
MBh 3.15.14
भराता बालश च राजा च न च संग्राममूर्धनि
परमत्तश च हतॊ वीरस तं हनिष्ये जनार्दनम
MBh 3.15.15
एवमादि महाराज विलप्य दिवम आस्थितः
कामगेन स सौभेन कषिप्त्वा मां कुरुनन्दन
MBh 3.15.16
तम अश्रौषम अहं गत्वा यथावृत्तः सुदुर्मतिः
मयि कौरव्य दुष्टात्मा मार्तिकावतकॊ नृपः
MBh 3.15.17
ततॊ ऽहम अपि कौरव्य रॊषव्याकुललॊचनः
निश्चित्य मनसा राजन वधायास्य मनॊ दधे
MBh 3.15.18
आनर्तेषु विमर्दं च कषेपं चात्मनि कौरव
परवृद्धम अवलेपं च तस्य दुष्कृतकर्मणः
MBh 3.15.19
ततः सौभवधायाहं परतस्थे पृथिवीपते
स मया सागरावर्ते दृष्ट आसीत परीप्सता
MBh 3.15.20
ततः परध्माप्य जलजं पाञ्चजन्यम अहं नृप
आहूय शाल्वं समरे युद्धाय समवस्थितः
MBh 3.15.21
सुमुहूर्तम अभूद युद्धं तत्र मे दानवैः सह
वशीभूताश च मे सर्वे भूतले च निपातिताः
MBh 3.15.22
एतत कार्यं महाबाहॊ येनाहं नागमं तदा
शरुत्वैव हास्तिनपुरं दयूतं चाविनयॊत्थितम
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 14
- Next chapter · Vana-Parva (Āraṇyaka) Ch 16 →
🪷 जय व्यास भगवान् 🪷