🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 13
The Book of the Forest · Parva 3 · 120 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 120 Shlokas
MBh 3.13.1
वैशंपायन उवाच
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह
पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने
MBh 3.13.2
पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः
MBh 3.13.3
वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन्
MBh 3.13.4
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम्
MBh 3.13.5
वासुदेव उवाच
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्
MBh 3.13.6
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम्
निकृत्योपचरन्वध्य एष धर्मः सनातनः
MBh 3.13.7
वैशंपायन उवाच
पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्
अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः
MBh 3.13.8
संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः
MBh 3.13.9
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः
MBh 3.13.10
अर्जुन उवाच
दश वर्षसहस्राणि यत्रसायंगृहो मुनिः
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने
MBh 3.13.11
दश वर्षसहस्राणि दश वर्षशतानि च
पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा
MBh 3.13.12
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन
अतिष्ठ एकपादेन वायुभक्षः शतं समाः
MBh 3.13.13
अपकृष्टोत्तरासङ्गः कृशो धमनिसंततः
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके
MBh 3.13.14
प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम्
तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम्
आतिष्ठस्तप एकेन पादेन नियमे स्थितः
MBh 3.13.15
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः
MBh 3.13.16
निहत्य नरकं भौममाहृत्य मणिकुण्डले
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः
MBh 3.13.17
कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित्
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान्
MBh 3.13.18
ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव
MBh 3.13.19
स त्वं नारायणो भूत्वा हरिरासीः परंतप
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः
MBh 3.13.20
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम
MBh 3.13.21
तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने
MBh 3.13.22
शतं शतसहस्राणि सुवर्णस्य जनार्दन
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः
MBh 3.13.23
अदितेरपि पुत्रत्वमेत्य यादवनन्दन
त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि
MBh 3.13.24
शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा
MBh 3.13.25
संप्राप्य दिवमाकाशमादित्यसदने स्थितः
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा
MBh 3.13.26
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति
MBh 3.13.27
जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह
भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः
MBh 3.13.28
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा
अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम्
MBh 3.13.29
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान्
हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम्
MBh 3.13.30
इरावत्यां तथा भोजः कार्तवीर्यसमो युधि
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ
MBh 3.13.31
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि
MBh 3.13.32
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु
MBh 3.13.33
आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत
MBh 3.13.34
युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन
आत्मन्येवात्मसात्कृत्वा जगदास्से परंतप
MBh 3.13.35
नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते
कर्माणि यानि देव त्वं बाल एव महाद्युते
MBh 3.13.36
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान्
वैराजभवने चापि ब्रह्मणा न्यवसः सह
MBh 3.13.37
वैशंपायन उवाच
एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः
MBh 3.13.38
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु
MBh 3.13.39
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम्
लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी
MBh 3.13.40
अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ
MBh 3.13.41
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता
MBh 3.13.42
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी
MBh 3.13.43
पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम्
स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत्
MBh 3.13.44
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन
यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत्
MBh 3.13.45
ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम
सत्याद्यज्ञोऽसि संभूतः कश्यपस्त्वां यथाब्रवीत्
MBh 3.13.46
साध्यानामपि देवानां वसूनामीश्वरेश्वरः
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत्
MBh 3.13.47
दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो
जठरं ते इमे लोकाः पुरुषोऽसि सनातनः
MBh 3.13.48
विद्यातपोऽभितप्तानां तपसा भावितात्मनाम्
आत्मदर्शनसिद्धानामृषीणामृषिसत्तम
MBh 3.13.49
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम
MBh 3.13.50
त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः
लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम्
MBh 3.13.51
मर्त्यता चैव भूतानाममरत्वं दिवौकसाम्
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम्
MBh 3.13.52
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः
MBh 3.13.53
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी
MBh 3.13.54
स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता
एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि
MBh 3.13.55
राजमध्ये सभायां तु रजसाभिसमीरिताम्
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः
MBh 3.13.56
दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु
MBh 3.13.57
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः
स्नुषा भवामि धर्मेण साहं दासीकृता बलात्
MBh 3.13.58
गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान्
ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम्
MBh 3.13.59
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन
MBh 3.13.60
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि
MBh 3.13.61
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः
MBh 3.13.62
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे
MBh 3.13.63
नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः
MBh 3.13.64
पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः
एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन
MBh 3.13.65
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः
MBh 3.13.66
कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः
MBh 3.13.67
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम्
MBh 3.13.68
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा
सभायां परिकृष्टाहमेकवस्त्रा रजस्वला
MBh 3.13.69
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम्
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन
MBh 3.13.70
धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम्
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति
MBh 3.13.71
य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान्
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन
MBh 3.13.72
भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम्
कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम्
MBh 3.13.73
तज्जीर्णमविकारेण सहान्नेन जनार्दन
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम
MBh 3.13.74
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत्
MBh 3.13.75
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः
MBh 3.13.76
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा
MBh 3.13.77
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत्
सारथिं चास्य दयितमपहस्तेन जघ्निवान्
MBh 3.13.78
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति
MBh 3.13.79
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्
महद्व्यसनमापन्ना शिखिना परिवारिता
MBh 3.13.80
हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात्
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह
MBh 3.13.81
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः
MBh 3.13.82
वैनतेयो यथा पक्षी गरुडः पततां वरः
तथैवाभिपतिष्यामि भयं वो नेह विद्यते
MBh 3.13.83
आर्यामङ्केन वामेन राजानं दक्षिणेन च
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च
MBh 3.13.84
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात्
MBh 3.13.85
ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः
अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात्
MBh 3.13.86
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी
MBh 3.13.87
भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात्
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना
MBh 3.13.88
तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः
पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते
MBh 3.13.89
तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः
भीमरूपो महानादान्विसृजन्भीमदर्शनः
MBh 3.13.90
केन सार्धं कथयसि आनयैनं ममान्तिकम्
हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि
MBh 3.13.91
सा कृपासंगृहीतेन हृदयेन मनस्विनी
नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता
MBh 3.13.92
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः
अभ्यद्रवत वेगेन भीमसेनं तदा किल
MBh 3.13.93
तमभिद्रुत्य संक्रुद्धो वेगेन महता बली
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः
MBh 3.13.94
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम्
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम्
MBh 3.13.95
गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा
नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः
MBh 3.13.96
तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव
MBh 3.13.97
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः
MBh 3.13.98
ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः
MBh 3.13.99
प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत्
ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः
MBh 3.13.100
तत्राप्यासादयामासुर्बकं नाम महाबलम्
पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम्
MBh 3.13.101
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ
MBh 3.13.102
लब्धाहमपि तत्रैव वसता सव्यसाचिना
यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा
MBh 3.13.103
एवं सुयुद्धे पार्थेन जिताहं मधुसूदन
स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः
MBh 3.13.104
एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः
निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः
MBh 3.13.105
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः
विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम्
MBh 3.13.106
एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम्
दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम्
MBh 3.13.107
कुले महति जातास्मि दिव्येन विधिना किल
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः
MBh 3.13.108
कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन
MBh 3.13.109
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी
MBh 3.13.110
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः
MBh 3.13.111
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः
बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत्
MBh 3.13.112
नैव मे पतयः सन्ति न पुत्रा मधुसूदन
न भ्रातरो न च पिता नैव त्वं न च बान्धवाः
MBh 3.13.113
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्
न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा
MBh 3.13.114
अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि
MBh 3.13.115
बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान्
निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले
MBh 3.13.116
यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि
MBh 3.13.117
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत्
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत्
MBh 3.13.118
धृष्टद्युम्न उवाच
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्
दुर्योधनं भीमसेनः कर्णं हन्ता धनंजयः
MBh 3.13.119
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः
MBh 3.13.120
वैशंपायन उवाच
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 12
- Next chapter · Vana-Parva (Āraṇyaka) Ch 14 →
Sources and Connected Readings
Continue from these 120 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.13local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷