🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 12
The Book of the Forest · Parva 3 · 75 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 75 Shlokas
MBh 3.12.1
धृतराष्ट्र उवाच
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्
रक्षसा भीमसेनस्य कथमासीत्समागमः
MBh 3.12.2
विदुर उवाच
शृणु भीमस्य कर्मेदमतिमानुषकर्मणः
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः
MBh 3.12.3
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम्
MBh 3.12.4
रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप
प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम्
MBh 3.12.5
तद्वनं तापसा नित्यं शेषाश्च वनचारिणः
दूरात्परिहरन्ति स्म पुरुषादभयात्किल
MBh 3.12.6
तेषां प्रविशतां तत्र मार्गमावृत्य भारत
दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत
MBh 3.12.7
बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम्
स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः
MBh 3.12.8
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम्
MBh 3.12.9
सृजन्तं राक्षसीं मायां महारावविराविणम्
मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम्
MBh 3.12.10
तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम्
विमुक्तनादाः संपेतुः स्थलजा जलजैः सह
MBh 3.12.11
संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम्
तद्वनं तस्य नादेन संप्रस्थितमिवाभवत्
MBh 3.12.12
तस्योरुवाताभिहता ताम्रपल्लवबाहवः
विदूरजाताश्च लताः समाश्लिष्यन्त पादपान्
MBh 3.12.13
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः
रजसा संवृतं तेन नष्टर्क्षमभवन्नभः
MBh 3.12.14
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः
पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः
MBh 3.12.15
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान्
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः
MBh 3.12.16
तं समासाद्य वित्रस्ता कृष्णा कमललोचना
अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने
MBh 3.12.17
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता
MBh 3.12.18
मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम्
MBh 3.12.19
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्
MBh 3.12.20
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः
काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत
MBh 3.12.21
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम्
MBh 3.12.22
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम्
अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः
MBh 3.12.23
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्
MBh 3.12.24
के यूयमिह संप्राप्ता भक्ष्यभूता ममान्तिकम्
युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः
MBh 3.12.25
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः
आचचक्षे ततः सर्वं गोत्रनामादि भारत
MBh 3.12.26
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः
MBh 3.12.27
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः
वनमभ्यागतो घोरमिदं तव परिग्रहम्
MBh 3.12.28
किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम
उपपादितमद्येह चिरकालान्मनोगतम्
MBh 3.12.29
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः
चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम्
MBh 3.12.30
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम्
अनेन हि मम भ्राता बको विनिहतः प्रियः
MBh 3.12.31
वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम्
MBh 3.12.32
हिडिम्बश्च सखा मह्यं दयितो वनगोचरः
हतो दुरात्मनानेन स्वसा चास्य हृता पुरा
MBh 3.12.33
सोऽयमभ्यागतो मूढो ममेदं गहनं वनम्
प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते
MBh 3.12.34
अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम्
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा
MBh 3.12.35
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च
शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम्
MBh 3.12.36
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर
MBh 3.12.37
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्
संभक्ष्य जरयिष्यामि यथागस्त्यो महासुरम्
MBh 3.12.38
एवमुक्तस्तु धर्मात्मा सत्यसंधो युधिष्ठिरः
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम्
MBh 3.12.39
ततो भीमो महाबाहुरारुज्य तरसा द्रुम
दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा
MBh 3.12.40
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः
MBh 3.12.41
निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम्
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत
MBh 3.12.42
इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः
निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा
MBh 3.12.43
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि
पातयामास वेगेन कुलिशं मघवानिव
MBh 3.12.44
असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव
MBh 3.12.45
तदुदस्तमलातं तु भीमः प्रहरतां वरः
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत्
MBh 3.12.46
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्
दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत
MBh 3.12.47
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्
वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा
MBh 3.12.48
शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः
यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा
MBh 3.12.49
मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः
चीराणीव व्युदस्तानि रेजुस्तत्र महावने
MBh 3.12.50
तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च
MBh 3.12.51
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः
प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह
MBh 3.12.52
तं शिलाताडनजडं पर्यधावत्स राक्षसः
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम्
MBh 3.12.53
तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम्
उभावपि चकाशेते प्रयुद्धौ वृषभाविव
MBh 3.12.54
तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः
MBh 3.12.55
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः
MBh 3.12.56
अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः
मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः
MBh 3.12.57
तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान्
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः
MBh 3.12.58
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि
MBh 3.12.59
अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम्
MBh 3.12.60
स भीमेन परामृष्टो दुर्बलो बलिना रणे
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम्
MBh 3.12.61
तत एनं परिश्रान्तमुपलभ्य वृकोदरः
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा
MBh 3.12.62
विनदन्तं महानादं भिन्नभेरीसमस्वनम्
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम्
MBh 3.12.63
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत्
MBh 3.12.64
आक्रम्य स कटीदेशे जानुना राक्षसाधमम्
अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः
MBh 3.12.65
अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम्
भूतले पातयामास वाक्यं चेदमुवाच ह
MBh 3.12.66
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्
करिष्यसि गतश्चासि यमस्य सदनं प्रति
MBh 3.12.67
इत्येवमुक्त्वा पुरुषप्रवीर;स्तं राक्षसं क्रोधविवृत्तनेत्रः
प्रस्रस्तवस्त्राभरणं स्फुरन्त;मुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज
MBh 3.12.68
तस्मिन्हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः
भीमं प्रशस्याथ गुणैरनेकै;र्हृष्टास्ततो द्वैतवनाय जग्मुः
MBh 3.12.69
एवं विनिहतः संख्ये किर्मीरो मनुजाधिप
भीमेन वचनात्तस्य धर्मराजस्य कौरव
MBh 3.12.70
ततो निष्कण्टकं कृत्वा वनं तदपराजितः
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह
MBh 3.12.71
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः
प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम्
MBh 3.12.72
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः
विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम्
MBh 3.12.73
स मया गच्छता मार्गे विनिकीर्णो भयावहः
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः
MBh 3.12.74
तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत
ब्राह्मणानां कथयतां ये तत्रासन्समागताः
MBh 3.12.75
वैशंपायन उवाच
एवं विनिहतं संख्ये किर्मीरं राक्षसोत्तमम्
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 11
- Next chapter · Vana-Parva (Āraṇyaka) Ch 13 →
Sources and Connected Readings
Continue from these 75 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.12local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷