🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 134

The Book of the Forest · Parva 3 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 3.134.1
अष्टावक्र उवाच अत्रोग्रसेनसमितेषु राज;न्समागतेष्वप्रतिमेषु राजसु न वै विवित्सान्तरमस्ति वादिनां; महाजले हंसनिनादिनामिव
MBh 3.134.2
न मेऽद्य वक्ष्यस्यतिवादिमानि;न्ग्लहं प्रपन्नः सरितामिवागमः हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य बन्दिन्
MBh 3.134.3
बन्द्युवाच व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम् पदाहतस्येव शिरोऽभिहत्य; नादष्टो वै मोक्ष्यसे तन्निबोध
MBh 3.134.4
यो वै दर्पात्संहननोपपन्नः; सुदुर्बलः पर्वतमाविहन्ति तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः
MBh 3.134.5
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः निकृष्टभूता राजानो वत्सा अनदुहो यथा
MBh 3.134.6
लोमश उवाच अष्टावक्रः समितौ गर्जमानो; जातक्रोधो बन्दिनमाह राजन् उक्ते वाक्ये चोत्तरं मे ब्रवीहि; वाक्यस्य चाप्युत्तरं ते ब्रवीमि
MBh 3.134.7
बन्द्युवाच एक एवाग्निर्बहुधा समिध्यते; एकः सूर्यः सर्वमिदं प्रभासते एको वीरो देवराजो निहन्ता; यमः पितॄणामीश्वरश्चैक एव
MBh 3.134.8
अष्टावक्र उवाच द्वाविन्द्राग्नी चरतो वै सखायौ; द्वौ देवर्षी नारदः पर्वतश्च द्वावश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा
MBh 3.134.9
बन्द्युवाच त्रिः सूयते कर्मणा वै प्रजेयं; त्रयो युक्ता वाजपेयं वहन्ति अध्वर्यवस्त्रिषवणानि तन्वते; त्रयो लोकास्त्रीणि ज्योतींषि चाहुः
MBh 3.134.10
अष्टावक्र उवाच चतुष्टयं ब्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञमिमं वहन्ति दिशश्चतस्रश्चतुरश्च वर्णा;श्चतुष्पदा गौरपि शश्वदुक्ता
MBh 3.134.11
बन्द्युवाच पञ्चाग्नयः पञ्चपदा च पङ्क्ति;र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि दृष्टा वेदे पञ्चचूडाश्च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम्
MBh 3.134.12
अष्टावक्र उवाच षडाधाने दक्षिणामाहुरेके; षडेवेमे ऋतवः कालचक्रम् षडिन्द्रियाण्युत षट्कृत्तिकाश्च; षट्साद्यस्काः सर्ववेदेषु दृष्टाः
MBh 3.134.13
बन्द्युवाच सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुमेकं वहन्ति सप्तर्षयः सप्त चाप्यर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा
MBh 3.134.14
अष्टावक्र उवाच अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती अष्टौ वसूञ्शुश्रुम देवतासु; यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः
MBh 3.134.15
बन्द्युवाच नवैवोक्ताः सामिधेन्यः पितॄणां; तथा प्राहुर्नवयोगं विसर्गम् नवाक्षरा बृहती संप्रदिष्टा; नवयोगो गणनामेति शश्वत्
MBh 3.134.16
अष्टावक्र उवाच दशा दशोक्ताः पुरुषस्य लोके; सहस्रमाहुर्दश पूर्णं शतानि दशैव मासान्बिभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः
MBh 3.134.17
बन्द्युवाच एकादशैकादशिनः पशूना;मेकादशैवात्र भवन्ति यूपाः एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः
MBh 3.134.18
अष्टावक्र उवाच संवत्सरं द्वादश मासमाहु;र्जगत्याः पादो द्वादशैवाक्षराणि द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान्कथयन्तीह विप्राः
MBh 3.134.19
बन्द्युवाच त्रयोदशी तिथिरुक्ता महोग्रा; त्रयोदशद्वीपवती मही च
MBh 3.134.20
लोमश उवाच एतावदुक्त्वा विरराम बन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः त्रयोदशाहानि ससार केशी; त्रयोदशादीन्यतिच्छन्दांसि चाहुः
MBh 3.134.21
ततो महानुदतिष्ठन्निनाद;स्तूष्णींभूतं सूतपुत्रं निशम्य अधोमुखं ध्यानपरं तदानी;मष्टावक्रं चाप्युदीर्यन्तमेव
MBh 3.134.22
तस्मिंस्तथा संकुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः अष्टावक्रं पूजयन्तोऽभ्युपेयु;र्विप्राः सर्वे प्राञ्जलयः प्रतीताः
MBh 3.134.23
अष्टावक्र उवाच अनेन वै ब्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल तानेव धर्मानयमद्य बन्दी; प्राप्नोतु गृह्याप्सु निमज्जयैनम्
MBh 3.134.24
बन्द्युवाच अहं पुत्रो वरुणस्योत राज्ञ;स्तत्रास सत्रं द्वादशवार्षिकं वै सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः
MBh 3.134.25
एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आयान्ति भूयः अष्टावक्रं पूजये पूजनीयं; यस्य हेतोर्जनितारं समेष्ये
MBh 3.134.26
अष्टावक्र उवाच विप्राः समुद्राम्भसि मज्जितास्ते; वाचा जिता मेधया आविदानाः तां मेधया वाचमथोज्जहार; यथा वाचमवचिन्वन्ति सन्तः
MBh 3.134.27
अग्निर्दहञ्जातवेदाः सतां गृहा;न्विसर्जयंस्तेजसा न स्म धाक्षीत् बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचमवचिन्वन्ति सन्तः
MBh 3.134.28
श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतयो मादयन्ति हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचमिमां शृणोषि
MBh 3.134.29
जनक उवाच शृणोमि वाचं तव दिव्यरूपा;ममानुषीं दिव्यरूपोऽसि साक्षात् अजैषीर्यद्बन्दिनं त्वं विवादे; निसृष्ट एष तव कामोऽद्य बन्दी
MBh 3.134.30
अष्टावक्र उवाच नानेन जीवता कश्चिदर्थो मे बन्दिना नृप पिता यद्यस्य वरुणो मज्जयैनं जलाशये
MBh 3.134.31
बन्द्युवाच अहं पुत्रो वरुणस्योत राज्ञो; न मे भयं सलिले मज्जितस्य इमं मुहूर्तं पितरं द्रक्ष्यतेऽय;मष्टावक्रश्चिरनष्टं कहोडम्
MBh 3.134.32
लोमश उवाच ततस्ते पूजिता विप्रा वरुणेन महात्मना उदतिष्ठन्त ते सर्वे जनकस्य समीपतः
MBh 3.134.33
कहोड उवाच इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम
MBh 3.134.34
उताबलस्य बलवानुत बालस्य पण्डितः उत वाविदुषो विद्वान्पुत्रो जनक जायते
MBh 3.134.35
बन्द्युवाच शितेन ते परशुना स्वयमेवान्तको नृप शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते
MBh 3.134.36
महदुक्थ्यं गीयते साम चाग्र्यं; सम्यक्सोमः पीयते चात्र सत्रे शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः; साक्षाद्देवा जनकस्येह यज्ञे
MBh 3.134.37
लोमश उवाच समुत्थितेष्वथ सर्वेषु राज;न्विप्रेषु तेष्वधिकं सुप्रभेषु अनुज्ञातो जनकेनाथ राज्ञा; विवेश तोयं सागरस्योत बन्दी
MBh 3.134.38
अष्टावक्रः पितरं पूजयित्वा; संपूजितो ब्राह्मणैस्तैर्यथावत् प्रत्याजगामाश्रममेव चाग्र्यं; जित्वा बन्दिं सहितो मातुलेन
MBh 3.134.39
अत्र कौन्तेय सहितो भ्रातृभिस्त्वं; सुखोषितः सह विप्रैः प्रतीतः पुण्यान्यन्यानि शुचिकर्मैकभक्ति;र्मया सार्धं चरितास्याजमीढ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.134local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷