🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 133

The Book of the Forest · Parva 3 · 27 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 27 Shlokas

MBh 3.133.1
[अस्ट] अन्धस्य पन्था बधिरस्य पन्थाः; सत्रियः पन्था वैवधिकस्य पन्थाः राज्ञः पन्था बराह्मणेनासमेत्य समेत्य; तु बराह्मणस्यैव पन्थाः
MBh 3.133.2
[र] पन्था अयं ते ऽदय मया निसृष्टॊ; येनेच्छसे तेन कामं वरजस्व न पावकॊ विद्यते वै लघीयान; इन्द्रॊ ऽपि नित्यं नमते बराह्मणानाम
MBh 3.133.3
[अस्ट] यज्ञं दरष्टुं पराप्तवन्तौ सवतात; कौतूहलं नौ बलवद वै विवृद्धम आवां पराप्ताव अतिथी संप्रवेशं; काङ्क्षावहे दवारपते तवाज्ञाम
MBh 3.133.4
ऐन्द्रद्युम्नेर यज्ञदृशाव इहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू न वै करॊधाद वयाधिनैवॊत्तमेन; संयॊजय दवारपाल कषणेन
MBh 3.133.5
[दवारप] बन्देः समादेश करा वयं सम; निबॊध वाक्यं च मयेर्यमाणम न वै बालाः परविशन्त्य अत्र विप्रा; वृद्धा विद्वांसः परविशन्ति दविजाग्र्याः
MBh 3.133.6
[अस्ट] यद्य अत्र वृद्धेषु कृतः परवेशॊ; युक्तं मम दवारपाल परवेष्टुम वयं हि वृद्धाश चरितव्रताश च; वेद परभावेन परवेशनार्हाः
MBh 3.133.7
शुश्रूषवश चापि जितेन्द्रियाश च; जञानागमे चापि गताः सम निष्ठाम न बाल इत्य अवमन्तव्यम आहुर; बालॊ ऽपय अग्निर दहति सपृश्यमानः
MBh 3.133.8
[दव] सरॊ वतीम ईरय वेद जुष्टाम; एकाक्षरां बहुरूपां विराजम अङ्गात्मानं समवेक्षस्व बालं; किं शलाघसे दुर लभा वादसिद्धिः
MBh 3.133.9
[अस्ट] न जञायते कायवृद्ध्या विवृद्धिर; यथाष्ठीला शाल्मलेः संप्रवृद्धा हरस्वॊ ऽलपकायः फलितॊ विवृद्धॊ; यश चाफलस तस्य न वृद्धभावः
MBh 3.133.10
वृद्धेभ्य एवेह मतिं सम बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः न हि जञानम अल्पकालेन शक्यं; कस्माद बालॊ वृद्ध इवावभाषसे
MBh 3.133.11
[अस्ट] न तेन सथविरॊ भवति येनास्य पलितं शिरः बालॊ ऽपि यः परजानाति तं देवाः सथविरं विदुः
MBh 3.133.12
न हायनैर न पलितैर न वित्तेन न बन्धुभिः ऋषयश चक्रिरे धर्मं यॊ ऽनूचानः स नॊ महान
MBh 3.133.13
दिदृक्षुर अस्मि संप्राप्तॊ बन्दिनं राजसंसदि निवेदयस्व मां दवाः सथ राज्ञे पुष्कर मालिने
MBh 3.133.14
दरष्टास्य अद्य वदत दवारपाल; मनीषिभिः सह वादे विवृद्धे उताहॊ वाप्य उच्चतां नीचतां वा; तूष्णींभूतेष्व अथ सर्वेषु चाद्य
MBh 3.133.15
[दव] कथं यज्ञं दशवर्षॊ विशेस तवं; विनीतानां विदुषां संप्रवेश्यम उपायतः परयतिष्ये तवाहं; परवेशने कुरु यत्नं यथावत
MBh 3.133.16
[अस्ट] भॊ भॊ राजञ जनकानां वरिष्ठ; सभाज्यस तवं तवयि सर्वं समृद्धम तवं वा कर्ता कर्मणां यज्ञियानां; ययातिर एकॊ नृपतिर वा पुरस्तात
MBh 3.133.17
विद्वान बन्दी वेद विदॊ निगृह्य; वादे भग्नान अप्रतिशङ्कमानः तवया निसृष्टैः पुरुषैर आप्तकृद्भिर; जले सर्वान मज्जयतीति नः शरुतम
MBh 3.133.18
स तच छरुत्वा बराह्मणानां सकाशाद; बरह्मॊद्यं वै कथयितुम आगतॊ ऽसमि कवासौ बन्दी यावद एनं समेत्य; नक्षत्राणीव सविता नाशयामि
MBh 3.133.19
[र] आशंससे बन्दिनं तवं विजेतुम; अविज्ञात्वा वाक्यबलं परस्य विज्ञात वीर्यैः शक्यम एवं; परवक्तुं दृष्टश चासौ बराह्मणैर वादशीलैः
MBh 3.133.20
[अस्ट] विवादितॊ ऽसौ न हि मादृशैर हि; सिंही कृतस तेन वदत्य अभीतः समेत्य मां निहतः शेष्यते ऽदय; मार्गे भग्नं शकटम इवाबलाक्षम
MBh 3.133.21
[र] षण्णाभेर दवादशाक्षस्य चतुर्विंशतिपर्वणः यस तरिषष्टि शतारस्य वेदार्थं स परः कविः
MBh 3.133.22
[अस्ट] चतुर्विंशतिपर्व तवां षण णाभि दवादश परधि तत तरिषष्टि शतारं वै चक्रं पातु सदागति
MBh 3.133.23
[र] वडवे इव संयुक्ते शयेनपाते दिवौकसाम कस तयॊर गर्भम आधत्ते गर्भं सुषुवतुश च कम
MBh 3.133.24
मा सम ते ते गृहे राजञ शात्रवाणाम अपि धरुवम वातसारथिर आधत्ते गर्भं सुषुवतुश च तम
MBh 3.133.25
किं सवित सुप्तं न निमिषति किं सविज जातं न चॊपति कस्य सविद धृदयं नास्ति किं सविद वेगेन वर्धते
MBh 3.133.26
मत्स्यः सुप्तॊ न निमिषत्य अन्दं जातं न चॊपति अश्मनॊ हृदयं नास्ति नदीवेगेन वर्धते
MBh 3.133.27
न तवा मन्ये मानुषं देव सत्त्वं; न तवं बालः सथविरस तवं मतॊ मे न ते तुल्यॊ विद्यते वाक परलापे; तस्माद दवारं वितराम्य एष बन्दी

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷