🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 135
The Book of the Forest · Parva 3 · 42 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 42 Shlokas
MBh 3.135.1
लोमश उवाच
एषा मधुविला राजन्समङ्गा संप्रकाशते
एतत्कर्दमिलं नाम भरतस्याभिषेचनम्
MBh 3.135.2
अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः
आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत
MBh 3.135.3
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ
अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा
MBh 3.135.4
एनं पर्वतराजानमारुह्य पुरुषर्षभ
अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ
MBh 3.135.5
एते कनखला राजनृषीणां दयिता नगाः
एषा प्रकाशते गङ्गा युधिष्ठिर महानदी
MBh 3.135.6
सनत्कुमारो भगवानत्र सिद्धिमगात्पराम्
आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे
MBh 3.135.7
अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम्
तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश
MBh 3.135.8
आश्रमः स्थूलशिरसो रमणीयः प्रकाशते
अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय
MBh 3.135.9
एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते
भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत
MBh 3.135.10
युधिष्ठिर उवाच
कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान्
किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत
MBh 3.135.11
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश
कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे
MBh 3.135.12
लोमश उवाच
भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः
तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे
MBh 3.135.13
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू
आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत
MBh 3.135.14
रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत्
तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत
MBh 3.135.15
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम्
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ
MBh 3.135.16
पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः
तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव
MBh 3.135.17
सुसमिद्धे महत्यग्नौ शरीरमुपतापयन्
जनयामास संतापमिन्द्रस्य सुमहातपाः
MBh 3.135.18
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर
अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम्
MBh 3.135.19
यवक्रीरुवाच
द्विजानामनधीता वै वेदाः सुरगणार्चित
प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः
MBh 3.135.20
स्वाध्यायार्थे समारम्भो ममायं पाकशासन
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक
MBh 3.135.21
कालेन महता वेदाः शक्या गुरुमुखाद्विभो
प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः
MBh 3.135.22
इन्द्र उवाच
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात्
MBh 3.135.23
लोमश उवाच
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत
भूय एवाकरोद्यत्नं तपस्यमितविक्रम
MBh 3.135.24
घोरेण तपसा राजंस्तप्यमानो महातपाः
संतापयामास भृशं देवेन्द्रमिति नः श्रुतम्
MBh 3.135.25
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम्
उपेत्य बलभिद्देवो वारयामास वै पुनः
MBh 3.135.26
अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते
MBh 3.135.27
यवक्रीरुवाच
न चैतदेवं क्रियते देवराज ममेप्सितम्
महता नियमेनाहं तप्स्ये घोरतरं तपः
MBh 3.135.28
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं; होष्यामि वा मघवंस्तन्निबोध
यद्येतदेवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम्
MBh 3.135.29
लोमश उवाच
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः
प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान्
MBh 3.135.30
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः
अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः
MBh 3.135.31
यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि
भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः
MBh 3.135.32
यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः
वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन्
MBh 3.135.33
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत्
सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन्
MBh 3.135.34
तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धने
प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुंगवः
MBh 3.135.35
किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम्
अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः
MBh 3.135.36
इन्द्र उवाच
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति
क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः
MBh 3.135.37
यवक्रीरुवाच
नायं शक्यस्त्वया बद्धुं महानोघः कथंचन
अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ
MBh 3.135.38
इन्द्र उवाच
यथैव भवता चेदं तपो वेदार्थमुद्यतम्
अशक्यं तद्वदस्माभिरयं भारः समुद्यतः
MBh 3.135.39
यवक्रीरुवाच
यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर
तथा यदि ममापीदं मन्यसे पाकशासन
MBh 3.135.40
क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वर
वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति
MBh 3.135.41
लोमश उवाच
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः
प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः
MBh 3.135.42
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति
स लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 134
- Next chapter · Vana-Parva (Āraṇyaka) Ch 136 →
Sources and Connected Readings
Continue from these 42 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.135local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷