🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 136

The Book of the Forest · Parva 3 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 18 Shlokas

MBh 3.136.1
यवक्रीरुवाच प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः अति चान्यान्भविष्यावो वरा लब्धास्तथा मया
MBh 3.136.2
भरद्वाज उवाच दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान् स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि
MBh 3.136.3
अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः ऋषिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान्
MBh 3.136.4
स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम् भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः
MBh 3.136.5
तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति
MBh 3.136.6
बालधिरुवाच यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेदिति
MBh 3.136.7
भरद्वाज उवाच तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत
MBh 3.136.8
विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम् आससाद महावीर्यं धनुषाक्षं मनीषिणम्
MBh 3.136.9
तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् भव भस्मेति चोक्तः स न भस्म समपद्यत
MBh 3.136.10
धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् निमित्तमस्य महिषैर्भेदयामास वीर्यवान्
MBh 3.136.11
स निमित्ते विनष्टे तु ममार सहसा शिशुः तं मृतं पुत्रमादाय विललाप ततः पिता
MBh 3.136.12
लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत् ऊचुर्वेदोक्तया पूर्वं गाथया तन्निबोध मे
MBh 3.136.13
न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन महिषैर्भेदयामास धनुषाक्षो महीधरान्
MBh 3.136.14
एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तरस्विनः क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान्
MBh 3.136.15
एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः
MBh 3.136.16
स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः
MBh 3.136.17
यवक्रीरुवाच एवं करिष्ये मा तापं तात कार्षीः कथंचन यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम
MBh 3.136.18
लोमश उवाच उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 18 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.136local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷