🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 121

The Book of the Forest · Parva 3 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 3.121.1
लोमश उवाच नृगेण यजमानेन सोमेनेह पुरंदरः तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात्
MBh 3.121.2
इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः
MBh 3.121.3
आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम् तर्पयामास सोमेन हयमेधेषु सप्तसु
MBh 3.121.4
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे
MBh 3.121.5
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः
MBh 3.121.6
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर
MBh 3.121.7
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः
MBh 3.121.8
सिकता वा यथा लोके यथा वा दिवि तारकाः यथा वा वर्षतो धारा असंख्येयाश्च केनचित्
MBh 3.121.9
तथैव तदसंख्येयं धनं यत्प्रददौ गयः सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु
MBh 3.121.10
भवेत्संख्येयमेतद्वै यदेतत्परिकीर्तितम् न सा शक्या तु संख्यातुं दक्षिणा दक्षिणावतः
MBh 3.121.11
हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान्
MBh 3.121.12
अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः गयस्य यजमानस्य तत्र तत्र विशां पते
MBh 3.121.13
स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत्
MBh 3.121.14
तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि
MBh 3.121.15
वैशंपायन उवाच स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह वैडूर्यपर्वतं चैव नर्मदां च महानदीम् समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः
MBh 3.121.16
ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः तीर्थानि रमणीयानि तत्र तत्र विशां पते
MBh 3.121.17
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः
MBh 3.121.18
लोमश उवाच देवानामेति कौन्तेय तथा राज्ञां सलोकताम् वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च
MBh 3.121.19
संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते
MBh 3.121.20
एष शर्यातियज्ञस्य देशस्तात प्रकाशते साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः
MBh 3.121.21
चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः संस्तम्भयामास च तं वासवं च्यवनः प्रभुः सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान्
MBh 3.121.22
युधिष्ठिर उवाच कथं विष्टम्भितस्तेन भगवान्पाकशासनः किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः
MBh 3.121.23
नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.121local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷