🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 122

The Book of the Forest · Parva 3 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 27 Shlokas

MBh 3.122.1
लोमश उवाच भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः
MBh 3.122.2
स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव अतिष्ठत्सुबहून्कालानेकदेशे विशां पते
MBh 3.122.3
स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतः कालेन महता राजन्समाकीर्णः पिपीलिकैः
MBh 3.122.4
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः तप्यति स्म तपो राजन्वल्मीकेन समावृतः
MBh 3.122.5
अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः आजगाम सरो रम्यं विहर्तुमिदमुत्तमम्
MBh 3.122.6
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः एकैव च सुता शुभ्रा सुकन्या नाम भारत
MBh 3.122.7
सा सखीभिः परिवृता सर्वाभरणभूषिता चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत्
MBh 3.122.8
सा चैव सुदती तत्र पश्यमाना मनोरमान् वनस्पतीन्विचिन्वन्ती विजहार सखीवृता
MBh 3.122.9
रूपेण वयसा चैव मदनेन मदेन च बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः
MBh 3.122.10
तां सखीरहितामेकामेकवस्त्रामलंकृताम् ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम्
MBh 3.122.11
तां पश्यमानो विजने स रेमे परमद्युतिः क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः तामाबभाषे कल्याणीं सा चास्य न शृणोति वै
MBh 3.122.12
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता
MBh 3.122.13
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत्
MBh 3.122.14
ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः
MBh 3.122.15
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः केनापकृतमद्येह भार्गवस्य महात्मनः ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम्
MBh 3.122.16
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु
MBh 3.122.17
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते
MBh 3.122.18
आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम् पितरं दुःखितं चापि सुकन्येदमथाब्रवीत्
MBh 3.122.19
मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत् खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात्
MBh 3.122.20
एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत् तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम्
MBh 3.122.21
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि
MBh 3.122.22
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम्
MBh 3.122.23
तामेव प्रतिगृह्याहं राजन्दुहितरं तव क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते
MBh 3.122.24
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् ददौ दुहितरं तस्मै च्यवनाय महात्मने
MBh 3.122.25
प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत्
MBh 3.122.26
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च
MBh 3.122.27
अग्नीनामतिथीनां च शुश्रूषुरनसूयिका समाराधयत क्षिप्रं च्यवनं सा शुभानना

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 27 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.122local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷