🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 120

The Book of the Forest · Parva 3 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 30 Shlokas

MBh 3.120.1
सात्यकिरुवाच न राम कालः परिदेवनाय; यदुत्तरं तत्र तदेव सर्वे समाचरामो ह्यनतीतकालं; युधिष्ठिरो यद्यपि नाह किंचित्
MBh 3.120.2
ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयो राम यथा ययातेः
MBh 3.120.3
येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके ते नाथवन्तः पुरुषप्रवीरा; नानाथवत्कृच्छ्रमवाप्नुवन्ति
MBh 3.120.4
कस्मादयं रामजनार्दनौ च; प्रद्युम्नसाम्बौ च मया समेतौ वसत्यरण्ये सह सोदरीयै;स्त्रैलोक्यनाथानधिगम्य नाथान्
MBh 3.120.5
निर्यातु साध्वद्य दशार्हसेना; प्रभूतनानायुधचित्रवर्मा यमक्षयं गच्छतु धार्तराष्ट्रः; सबान्धवो वृष्णिबलाभिभूतः
MBh 3.120.6
त्वं ह्येव कोपात्पृथिवीमपीमां; संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर्महेन्द्रः
MBh 3.120.7
भ्राता च मे यश्च सखा गुरुश्च; जनार्दनस्यात्मसमश्च पार्थः यदर्थमभ्युद्यतमुत्तमं त;त्करोति कर्माग्र्यमपारणीयम्
MBh 3.120.8
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै;र्विहत्य सर्वाणि रणेऽभिभूय कायाच्छिरः सर्पविषाग्निकल्पैः; शरोत्तमैरुन्मथितास्मि राम
MBh 3.120.9
खड्गेन चाहं निशितेन संख्ये; कायाच्छिरस्तस्य बलात्प्रमथ्य ततोऽस्य सर्वाननुगान्हनिष्ये; दुर्योधनं चापि कुरूंश्च सर्वान्
MBh 3.120.10
आत्तायुधं मामिह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः निघ्नन्तमेकं कुरुयोधमुख्या;न्काले महाकक्षमिवान्तकाग्निः
MBh 3.120.11
प्रद्युम्नमुक्तान्निशितान्न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर्भवत्येष यथा रणस्थः
MBh 3.120.12
साम्बः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु बलात्प्रमथ्य न विद्यते जाम्बवतीसुतस्य; रणेऽविषह्यं हि रणोत्कटस्य
MBh 3.120.13
एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम् वृत्तोरुरत्यायतपीनबाहु;रेतेन संख्ये निहतोऽश्वचक्रः को नाम साम्बस्य रणे मनुष्यो; गत्वान्तरं वै भुजयोर्धरेत
MBh 3.120.14
यथा प्रविश्यान्तरमन्तकस्य; काले मनुष्यो न विनिष्क्रमेत तथा प्रविश्यान्तरमस्य संख्ये; को नाम जीवन्पुनराव्रजेत
MBh 3.120.15
द्रोणं च भीष्मं च महारथौ तौ; सुतैर्वृतं चाप्यथ सोमदत्तम् सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते सायकवह्निजालैः
MBh 3.120.16
किं नाम लोकेष्वविषह्यमस्ति; कृष्णस्य सर्वेषु सदैवतेषु आत्तायुधस्योत्तमबाणपाणे;श्चक्रायुधस्याप्रतिमस्य युद्धे
MBh 3.120.17
ततोऽनिरुद्धोऽप्यसिचर्मपाणि;र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः हृतोत्तमाङ्गैर्निहतैः करोतु; कीर्णां कुशैर्वेदिमिवाध्वरेषु
MBh 3.120.18
गदोल्मुकौ बाहुकभानुनीथाः; शूरश्च संख्ये निशठः कुमारः रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथयन्तु कर्म
MBh 3.120.19
सवृष्णिभोजान्धकयोधमुख्या; समागता क्षत्रियशूरसेना हत्वा रणे तान्धृतराष्ट्रपुत्राँ;ल्लोके यशः स्फीतमुपाकरोतु
MBh 3.120.20
ततोऽभिमन्युः पृथिवीं प्रशास्तु; यावद्व्रतं धर्मभृतां वरिष्ठः युधिष्ठिरः पारयते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन
MBh 3.120.21
अस्मत्प्रमुक्तैर्विशिखैर्जितारि;स्ततो महीं भोक्ष्यति धर्मराजः निर्धार्तराष्ट्रां हतसूतपुत्रा;मेतद्धि नः कृत्यतमं यशस्यम्
MBh 3.120.22
वासुदेव उवाच असंशयं माधव सत्यमेत;द्गृह्णीम ते वाक्यमदीनसत्त्व स्वाभ्यां भुजाभ्यामजितां तु भूमिं; नेच्छेत्कुरूणामृषभः कथंचित्
MBh 3.120.23
न ह्येष कामान्न भयान्न लोभा;द्युधिष्ठिरो जातु जह्यात्स्वधर्मम् भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदात्मजेयम्
MBh 3.120.24
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां; वृकोदरश्चैव धनंजयश्च कस्मान्न कृत्स्नां पृथिवीं प्रशासे;न्माद्रीसुताभ्यां च पुरस्कृतोऽयम्
MBh 3.120.25
यदा तु पाञ्चालपतिर्महात्मा; सकेकयश्चेदिपतिर्वयं च योत्स्याम विक्रम्य परांस्तदा वै; सुयोधनस्त्यक्ष्यति जीवलोकम्
MBh 3.120.26
युधिष्ठिर उवाच नैतच्चित्रं माधव यद्ब्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम् कृष्णस्तु मां वेद यथावदेकः; कृष्णं च वेदाहमथो यथावत्
MBh 3.120.27
यदैव कालं पुरुषप्रवीरो; वेत्स्यत्ययं माधव विक्रमस्य तदा रणे त्वं च शिनिप्रवीर; सुयोधनं जेष्यसि केशवश्च
MBh 3.120.28
प्रतिप्रयान्त्वद्य दशार्हवीरा; दृढोऽस्मि नाथैर्नरलोकनाथैः धर्मेऽप्रमादं कुरुताप्रमेया; द्रष्टास्मि भूयः सुखिनः समेतान्
MBh 3.120.29
वैशंपायन उवाच तेऽन्योन्यमामन्त्र्य तथाभिवाद्य; वृद्धान्परिष्वज्य शिशूंश्च सर्वान् यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्यनुसंचचार
MBh 3.120.30
विसृज्य कृष्णं त्वथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम् सुतेन सोमेन विमिश्रितोदां; ततः पयोष्णीं प्रति स ह्युवास

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 30 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.120local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷