🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 119

The Book of the Forest · Parva 3 · 22 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 22 Shlokas

MBh 3.119.1
[ज] परभास तीर्थं संप्राप्य वृष्णयः पाण्डवास तथा किम अकुर्वन कथाश चैषां कास तत्रासंस तपॊधन
MBh 3.119.2
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः वृष्णयः पाण्डवाश चैव सुहृदश च परस्परम
MBh 3.119.3
[व] परभास तीर्थं संप्राप्य पुण्यं तीर्थं महॊदधेः वृष्णयः पाण्डवान वीरान परिवार्यॊपतस्थिर
MBh 3.119.4
ततॊ गॊक्षीरकुन्देन्दु मृणालरजतप्रभः वनमाली हली रामॊ बभाषे पुष्करेक्षणम
MBh 3.119.5
न कृष्ण धर्मश चरितॊ भवाय; जन्तॊर अधर्मश च पराभवाय युधिष्ठिरॊ यत्र जटी महात्मा; वनाश्रयः कलिश्यति चीरवासः
MBh 3.119.6
दुर्यॊधनश चापि महीं परशास्ति; न चास्य भूमिर विवरं ददाति धर्माद अधर्मश चरितॊ गरीयान; इतीव मन्येत नरॊ ऽलपबुद्धिः
MBh 3.119.7
दुर्यॊधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये किं नव अद्य कर्तव्यम इति परजाभिः; शङ्का मिथः संजनिता नराणाम
MBh 3.119.8
अयं हि धर्मप्रभवॊ नरेन्द्रॊ; धर्मे रतः सत्यधृतिः परदाता चलेद धि राज्याच च सुखाच च पार्थॊ; धर्माद अपैतश च कथं विवर्धेत
MBh 3.119.9
कथं नु भीष्मश च कृपश च विप्रॊ; दरॊणश च राजा च कुलस्य वृद्धः परव्राज्य पार्थान सुखम आप्नुवन्ति; धिक पापबुद्धीन भरत परधानान
MBh 3.119.10
किंनाम वक्ष्यत्य अवनि परधानः; पितॄन समागम्य परत्र पापः पुत्रेषु सम्यक चरितं मयेति; पुत्रान अपापान अवरॊप्य राज्यात
MBh 3.119.11
नासौ धिया संप्रतिपश्यति सम; किंनाम कृत्वाहम अचक्षुर एवम जातः पृथिव्याम इति पार्थिवेषु; परव्राज्य कौन्तेयम अथापि राज्यात
MBh 3.119.12
नूनं समृद्धान पितृलॊकभूमौ; चामीकराभान कषितिजान परफुल्लान विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति सम
MBh 3.119.13
वयूढॊत्तरांसान पृथु लॊहिताक्षान; नेमान सम पृच्छन स शृणॊति नूनम परस्थापयद यत स वनं हय अशङ्कॊ; युधिष्ठिरं सानुजम आत्तशस्त्रम
MBh 3.119.14
यॊ ऽयं परेषां पृतनां समृद्धां; निर आयुधॊ दीर्घभुजॊ निहन्यात शरुत्वैव शब्दं हि वृकॊदरस्य; मुञ्चन्ति सैन्यानि शकृत स मूत्रम
MBh 3.119.15
स कषुत्पिपासाध्व कृशस तरॊ वी; समेत्य नानायुध बाणपाणिः वने समरन वासम इमं सुघॊरं; शेषं न कुर्याद इति निश्चितं मे
MBh 3.119.16
न हय अस्य वीर्येण बलेन कश चित; समः पृथिव्यां भविता नरेषु शीतॊष्णवातातप कर्शिताङ्गॊ; न शेषम आजाव असुहृत्सु कुर्यात
MBh 3.119.17
पराच्यां नृपान एकरथेन जित्वा; वृकॊदरः सानुचरान रणेषु सवस्त्यागमद यॊ ऽति रथस तरॊ वी; सॊ ऽयं वने कलिश्यति चीरवासः
MBh 3.119.18
यॊ दन्तकूरे वयजयन नृदेवान; समागतान दाक्षिणात्यान मही पान तं पश्यतेमं सहदेवम अद्य; तपॊ विनं तापस वेषरूपम
MBh 3.119.19
यः पार्थिवान एकरथेन वीरॊ; दिशं परतीचीं परति युद्धशौण्डः सॊ ऽयं वने मूलफलेन जीवञ; जटी चरत्य अद्य मलाचिताङ्गः
MBh 3.119.20
सत्रे समृद्धे ऽति रथस्य राज्ञॊ; वेदी तलाद उत्पतिता सुता या सेयं वनेवासम इमं सुदुःखं; कथं सहत्य अद्य सती सुखार्हा
MBh 3.119.21
तरिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्य अथ वाश्विनॊश च एषां सुराणां तनयाः कथं नु; वनेचरन्त्य अल्पसुखाः सुखार्हाः
MBh 3.119.22
जिते हि धर्मस्य सुते सभार्ये; स भरातृके सानुचरे निरस्ते दुर्यॊधने चापि विवर्धमाने; कथं न सीदत्य अवनिः स शैला

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷