🪷 Mahābhārata · Strī-Parva · Chapter 25

The Book of the Women · Parva 11 · 46 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 46 Shlokas

MBh 11.25.1
गान्धार्युवाच काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम् शयानमृषभस्कन्धं हतं पांसुशु माधव
MBh 11.25.2
यस्य क्षतजसंदिग्धौ बाहू चन्दनरूषितौ अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता
MBh 11.25.3
इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली ययोर्विवरमापन्नां न रतिर्मां पुराजहत्
MBh 11.25.4
कां गतिं नु गमिष्यामि त्वया हीना जनेश्वर दूरबन्धुरनाथेव अतीव मधुरस्वरा
MBh 11.25.5
आतपे क्लाम्यमानानां विविधानामिव स्रजाम् क्लान्तानामपि नारीणां न श्रीर्जहति वै तनुम्
MBh 11.25.6
शयानमभितः शूरं कालिङ्गं मधुसूदन पश्य दीप्ताङ्गदयुगप्रतिबद्धमहाभुजम्
MBh 11.25.7
मागधानामधिपतिं जयत्सेनं जनार्दन परिवार्य प्ररुदिता मागध्यः पश्य योषितः
MBh 11.25.8
आसामायतनेत्राणां सुस्वराणां जनार्दन मनःश्रुतिहरो नादो मनो मोहयतीव मे
MBh 11.25.9
प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि
MBh 11.25.10
कोसलानामधिपतिं राजपुत्रं बृहद्बलम् भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः
MBh 11.25.11
अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान् उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः
MBh 11.25.12
आसां सर्वानवद्यानामातपेन परिश्रमात् प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव
MBh 11.25.13
द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः
MBh 11.25.14
तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः भासयन्ति महीं भासा ज्वलिता इव पावकाः
MBh 11.25.15
द्रोणेन द्रुपदं संख्ये पश्य माधव पातितम् महाद्विपमिवारण्ये सिंहेन महता हतम्
MBh 11.25.16
पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम् आतपत्रं समाभाति शरदीव दिवाकरः
MBh 11.25.17
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः
MBh 11.25.18
धृष्टकेतुं महेष्वासं चेदिपुंगवमङ्गनाः द्रोणेन निहतं शूरं हरन्ति हृतचेतसः
MBh 11.25.19
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन महेष्वासो हतः शेते नद्या हृत इव द्रुमः
MBh 11.25.20
एष चेदिपतिः शूरो धृष्टकेतुर्महारथः शेते विनिहतः संख्ये हत्वा शत्रून्सहस्रशः
MBh 11.25.21
वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः चेदिराजं हृषीकेश हतं सबलबान्धवम्
MBh 11.25.22
दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम् आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः
MBh 11.25.23
अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः
MBh 11.25.24
पितरं नूनमाजिस्थं युध्यमानं परैः सह नाजहात्पृष्ठतो वीरमद्यापि मधुसूदन
MBh 11.25.25
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् दुर्योधनं महाबाहो लक्ष्मणः परवीरहा
MBh 11.25.26
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव हिमान्ते पुष्पितौ शालौ मरुता गलिताविव
MBh 11.25.27
काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ
MBh 11.25.28
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात्
MBh 11.25.29
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च महारथात् सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः
MBh 11.25.30
त इमे निहताः संख्ये पश्य कालस्य पर्ययम् नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः
MBh 11.25.31
तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः यदैवाकृतकामस्त्वमुपप्लव्यं गतः पुनः
MBh 11.25.32
शंतनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति
MBh 11.25.33
तयोर्न दर्शनं तात मिथ्या भवितुमर्हति अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन
MBh 11.25.34
वैशंपायन उवाच इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोककर्शिता दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत
MBh 11.25.35
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता जगाम शौरिं दोषेण गान्धारी व्यथितेन्द्रिया
MBh 11.25.36
गान्धार्युवाच पाण्डवा धार्तराष्ट्राश्च द्रुग्धाः कृष्ण परस्परम् उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन
MBh 11.25.37
शक्तेन बहुभृत्येन विपुले तिष्ठता बले उभयत्र समर्थेन श्रुतवाक्येन चैव ह
MBh 11.25.38
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि
MBh 11.25.39
पतिशुश्रूषया यन्मे तपः किंचिदुपार्जितम् तेन त्वां दुरवापात्मञ्शप्स्ये चक्रगदाधर
MBh 11.25.40
यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि
MBh 11.25.41
त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि
MBh 11.25.42
तवाप्येवं हतसुता निहतज्ञातिबान्धवाः स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः
MBh 11.25.43
वैशंपायन उवाच तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव
MBh 11.25.44
संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये
MBh 11.25.45
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः
MBh 11.25.46
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 46 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 11.25local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷