🪷 Mahābhārata · Strī-Parva · Chapter 19

The Book of the Women · Parva 11 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 11.19.1
गान्धार्युवाच एष माधव पुत्रो मे विकर्णः प्राज्ञसंमतः भूमौ विनिहतः शेते भीमेन शतधा कृतः
MBh 11.19.2
गजमध्यगतः शेते विकर्णो मधुसूदन नीलमेघपरिक्षिप्तः शरदीव दिवाकरः
MBh 11.19.3
अस्य चापग्रहेणैष पाणिः कृतकिणो महान् कथंचिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान्
MBh 11.19.4
अस्य भार्यामिषप्रेप्सून्गृध्रानेतांस्तपस्विनी वारयत्यनिशं बाला न च शक्नोति माधव
MBh 11.19.5
युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ सुखोचितः सुखार्हश्च शेते पांसुषु माधव
MBh 11.19.6
कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्
MBh 11.19.7
एष संग्रामशूरेण प्रतिज्ञां पालयिष्यता दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे
MBh 11.19.8
तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः
MBh 11.19.9
शूरस्य हि रणे कृष्ण यस्याननमथेदृशम् स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः
MBh 11.19.10
यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्
MBh 11.19.11
चित्रसेनं हतं भूमौ शयानं मधुसूदन धार्तराष्ट्रमिमं पश्य प्रतिमानं दनुष्मताम्
MBh 11.19.12
तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः क्रव्यादसंघैः सहिता रुदन्त्यः पर्युपासते
MBh 11.19.13
स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् चित्ररूपमिदं कृष्ण विचित्रं प्रतिभाति मे
MBh 11.19.14
युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव
MBh 11.19.15
शरसंकृत्तवर्माणं वीरं विशसने हतम् परिवार्यासते गृध्राः परिविंशा विविंशतिम्
MBh 11.19.16
प्रविश्य समरे वीरः पाण्डवानामनीकिनीम् आविश्य शयने शेते पुनः सत्पुरुषोचितम्
MBh 11.19.17
स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः
MBh 11.19.18
यं स्म तं पर्युपासन्ते वसुं वासवयोषितः क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः
MBh 11.19.19
हन्तारं वीरसेनानां शूरं समितिशोभनम् निबर्हणममित्राणां दुःसहं विषहेत कः
MBh 11.19.20
दुःसहस्यैतदाभाति शरीरं संवृतं शरैः गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवावृतः
MBh 11.19.21
शातकौम्भ्या स्रजा भाति कवचेन च भास्वता अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 11.19local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷