🪷 Mahābhārata · Strī-Parva · Chapter 18
The Book of the Women · Parva 11 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 28 Shlokas
MBh 11.18.1
गान्धार्युवाच
पश्य माधव पुत्रान्मे शतसंख्याञ्जितक्लमान्
गदया भीमसेनेन भूयिष्ठं निहतान्रणे
MBh 11.18.2
इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः
MBh 11.18.3
प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः
आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुंधराम्
MBh 11.18.4
गृध्रानुत्सारयन्त्यश्च गोमायून्वायसांस्तथा
शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत
MBh 11.18.5
एषान्या त्वनवद्याङ्गी करसंमितमध्यमा
घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता
MBh 11.18.6
दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम्
राजपुत्रीं महाबाहो मनो न व्युपशाम्यति
MBh 11.18.7
भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि
दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान्
MBh 11.18.8
मध्यमानां तु नारीणां वृद्धानां चापराजित
आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु
MBh 11.18.9
रथनीडानि देहांश्च हतानां गजवाजिनाम्
आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल
MBh 11.18.10
अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम्
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति
MBh 11.18.11
पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ
एताभिरनवद्याभिर्मया चैवाल्पमेधया
MBh 11.18.12
तदिदं धर्मराजेन यातितं नो जनार्दन
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः
MBh 11.18.13
प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः
कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः
MBh 11.18.14
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः
सारस्य इव वाशन्त्यः पतिताः पश्य माधव
MBh 11.18.15
फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम्
अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान्
MBh 11.18.16
ईर्षूणां मम पुत्राणां वासुदेवावरोधनम्
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः
MBh 11.18.17
शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसंनिभान्
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान्
MBh 11.18.18
शीर्षत्राणानि चैतानि पुत्राणां मे महीतले
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव
MBh 11.18.19
एष दुःशासनः शेते शूरेणामित्रघातिना
पीतशोणितसर्वाङ्गो भीमसेनेन पातितः
MBh 11.18.20
गदया वीरघातिन्या पश्य माधव मे सुतम्
द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च
MBh 11.18.21
उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन
MBh 11.18.22
सहैव सहदेवेन नकुलेनार्जुनेन च
दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान्
MBh 11.18.23
ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम्
मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय
MBh 11.18.24
निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम्
क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः
MBh 11.18.25
न बुध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम्
वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम्
MBh 11.18.26
तानेष रभसः क्रूरो वाक्शल्यानवधारयन्
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव
MBh 11.18.27
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ
निहतो भीमसेनेन सिंहेनेव महर्षभः
MBh 11.18.28
अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Strī-Parva chapter-index (27 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Strī-Parva Ch 17
- Next chapter · Strī-Parva Ch 19 →
Sources and Connected Readings
Continue from these 28 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 11.18local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷