🪷 Mahābhārata · Strī-Parva · Chapter 10

The Book of the Women · Parva 11 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 11.10.1
वैशंपायन उवाच क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च
MBh 11.10.2
ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन्
MBh 11.10.3
पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् गतः सानुचरो राजञ्शक्रलोकं महीपतिः
MBh 11.10.4
दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ
MBh 11.10.5
इत्येवमुक्त्वा राजानं कृपः शारद्वतस्तदा गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत्
MBh 11.10.6
अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः
MBh 11.10.7
ध्रुवं संप्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् भास्वरं देहमास्थाय विहरन्त्यमरा इव
MBh 11.10.8
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः
MBh 11.10.9
एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम् शस्त्रेण निधनं संख्ये तान्न शोचितुमर्हसि
MBh 11.10.10
न चापि शत्रवस्तेषामृध्यन्ते राज्ञि पाण्डवाः शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः
MBh 11.10.11
अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् सुप्तं शिबिरमाविश्य पाण्डूनां कदनं कृतम्
MBh 11.10.12
पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः
MBh 11.10.13
तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः
MBh 11.10.14
ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः
MBh 11.10.15
निहतानात्मजाञ्श्रुत्वा प्रमत्तान्पुरुषर्षभाः निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि
MBh 11.10.16
पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः
MBh 11.10.17
राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम्
MBh 11.10.18
इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत
MBh 11.10.19
अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् गङ्गामनु महात्मानस्तूर्णमश्वानचोदयन्
MBh 11.10.20
अपक्रम्य तु ते राजन्सर्व एव महारथाः आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्ततः
MBh 11.10.21
जगाम हास्तिनपुरं कृपः शारद्वतस्तदा स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ
MBh 11.10.22
एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम् भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम्
MBh 11.10.23
समेत्य वीरा राजानं तदा त्वनुदिते रवौ विप्रजग्मुर्महाराज यथेच्छकमरिंदमाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 11.10local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷