🪷 Mahābhārata · Strī-Parva · Chapter 11
The Book of the Women · Parva 11 · 30 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 11.11local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 30 Shlokas
MBh 11.11.1
[व]
हतेषु सर्वसैन्येषु धर्मराजॊ युधिष्ठिरः
शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात
MBh 11.11.2
सॊ ऽभययात पुत्रशॊकार्तः पुत्रशॊकपरिप्लुतम
शॊचमानॊ महाराज भरातृभिः सहितस तदा
MBh 11.11.3
अन्वीयमानॊ वीरेण दाशार्हेण महात्मना
युयुधानेन च तथा तथैव च युयुत्सुना
MBh 11.11.4
तम अन्वगात सुदुःखार्ता दरौपदी शॊककर्शिता
सह पाञ्चाल यॊषिद्भिर यास तत्रासन समागताः
MBh 11.11.5
स गङ्गाम अनु वृन्दानि सत्रीणां भरतसत्तम
कुररीणाम इवार्तानां करॊशन्तीनां ददर्श ह
MBh 11.11.6
ताभिः परिवृतॊ राजा रुदतीभिः सहस्रशः
ऊर्ध्वबाहुभिर आर्ताभिर बरुवतीभिः परियाप्रिये
MBh 11.11.7
कव नु धर्मज्ञता राज्ञः कव नु साद्य नृशंसता
यदावधीत पितॄन भरातॄन गुरून पुत्रान सखीन अपि
MBh 11.11.8
घातयित्वा कथं दरॊणं भीष्मं चापि पितामहम
मनस ते ऽभून महाबाहॊ हत्वा चापि जयद्रथम
MBh 11.11.9
किं नु राज्येन ते कार्यं पितॄन भरातॄन अपश्यतः
अभिमन्युं च दुर्धर्षं दरौपदेयांश च भारत
MBh 11.11.10
अतीत्य ता महाबाहुः करॊशन्तीः कुररीर इव
ववन्दे पितरं जयेष्ठं धर्मराजॊ युधिष्ठिरः
MBh 11.11.11
ततॊ ऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः
नयवेदयन्त नामानि पाण्डवास ते ऽपि सर्वशः
MBh 11.11.12
तम आत्मजान्त करणं पिता पुत्रवधार्दितः
अप्रीयमाणः शॊकार्तः पाण्डवं परिषस्वजे
MBh 11.11.13
धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत
दुष्टात्मा भीमम अन्वैच्छद दिधक्षुर इव पावकः
MBh 11.11.14
स कॊपपावकस तस्य शॊकवायुसमीरितः
भीमसेन मयं दावं दिधक्षुर इव दृश्यते
MBh 11.11.15
तस्य संकल्पम आज्ञाय भीमं परत्यशुभं हरिः
भीमम आक्षिप्य पाणिभ्यां परददौ भीमम आयसम
MBh 11.11.16
पराग एव तु महाबुद्धिर बुद्ध्वा तस्येङ्गिरं हरिः
संविधानं महाप्राज्ञस तत्र चक्रे जनार्दनः
MBh 11.11.17
तं तु गृह्यैव पाणिभ्यां भीमसेनम अयस्मयम
बभञ्ज बलवान राजा मन्यमानॊ वृकॊदरम
MBh 11.11.18
नागायुत बलप्राणः स राजा भीमम आयसम
भङ्क्त्वा विमथितॊरस्कः सुस्राव रुधिरं मुखात
MBh 11.11.19
ततः पपात मेदिन्यां तथैव रुधिरॊक्षितः
परपुष्पिताग्र शिखरः पारिजात इव दरुमः
MBh 11.11.20
पर्यगृह्णत तं विद्वान सूतॊ गावल्गणिस तदा
मैवम इत्य अब्रवीच चैनं शमयन सान्त्वयन्न इव
MBh 11.11.21
स तु कॊपं समुत्सृज्य गतमन्युर महामनाः
हाहा भीमेति चुक्रॊश भूयः शॊकसमन्वितः
MBh 11.11.22
तं विदित्वा गतक्रॊधं भीमसेनवधार्दितम
वासुदेवॊ वरः पुंसाम इदं वचनम अब्रवीत
MBh 11.11.23
मा शुचॊ धृतराष्ट्र तवं नैष भीमस तवया हतः
आयसी परतिमा हय एषा तवया राजन निपातिता
MBh 11.11.24
तवां करॊधवशम आपन्नं विदित्वा भरतर्षभ
मयापकृष्टः कौन्तेयॊ मृत्यॊर दंष्ट्रान्तरं गतः
MBh 11.11.25
न हि ते राजशार्दूल बले तुल्यॊ ऽसति कश चन
कः सहेत महाबाहॊ बाह्वॊर निग्रहणं नरः
MBh 11.11.26
यथान्तकम अनुप्राप्य जीवन कश चिन न मुच्यते
एवं बाह्वन्तरं पराप्य तव जीवेन न कश चन
MBh 11.11.27
तस्मात पुत्रेण या सा ते परतिमा कारितायसी
भीमस्य सेयं कौरव्य तवैवॊपहृता मया
MBh 11.11.28
पुत्रशॊकाभिसंतापाद धर्माद अपहृतं मनः
तव राजेन्द्र तेन तवं भीमसेनं जिघांससि
MBh 11.11.29
न च ते तत्क्षमं राजन हन्यास तवं यद वृकॊदरम
न हि पुत्रा महाराज जीवेयुस ते कथं चन
MBh 11.11.30
तस्माद यत्कृतम अस्माभिर मन्यमानैः कषमं परति
अनुमन्यस्व तत सर्वं मा च शॊके मनः कृथाः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Strī-Parva chapter-index (27 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Strī-Parva Ch 10
- Next chapter · Strī-Parva Ch 12 →
🪷 जय व्यास भगवान् 🪷