🪷 Mahābhārata · Strī-Parva · Chapter 12

The Book of the Women · Parva 11 · 15 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 15 Shlokas

MBh 11.12.1
वैशंपायन उवाच तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः
MBh 11.12.2
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च श्रुतानि च पुराणानि राजधर्माश्च केवलाः
MBh 11.12.3
एवं विद्वान्महाप्राज्ञ नाकार्षीर्वचनं तदा पाण्डवानधिकाञ्जानन्बले शौर्ये च कौरव
MBh 11.12.4
राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते देशकालविभागं च परं श्रेयः स विन्दति
MBh 11.12.5
उच्यमानं च यः श्रेयो गृह्णीते नो हिताहिते आपदं समनुप्राप्य स शोचत्यनये स्थितः
MBh 11.12.6
ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः
MBh 11.12.7
आत्मापराधादायस्तस्तत्किं भीमं जिघांससि तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम्
MBh 11.12.8
यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्सभाम् स हतो भीमसेनेन वैरं प्रतिचिकीर्षता
MBh 11.12.9
आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः यदनागसि पाण्डूनां परित्यागः परंतप
MBh 11.12.10
एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः
MBh 11.12.11
एवमेतन्महाबाहो यथा वदसि माधव पुत्रस्नेहस्तु धर्मात्मन्धैर्यान्मां समचालयत्
MBh 11.12.12
दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यविक्रमः त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम
MBh 11.12.13
इदानीं त्वहमेकाग्रो गतमन्युर्गतज्वरः मध्यमं पाण्डवं वीरं स्प्रष्टुमिच्छामि केशव
MBh 11.12.14
हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च पाण्डुपुत्रेषु मे शर्म प्रीतिश्चाप्यवतिष्ठते
MBh 11.12.15
ततः स भीमं च धनंजयं च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ पस्पर्श गात्रैः प्ररुदन्सुगात्रा;नाश्वास्य कल्याणमुवाच चैनान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 15 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 11.12local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷