🪷 Mahābhārata · Śānti-Parva · Chapter 332

The Book of Peace · the great dharma-śāstra · Parva 12 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 26 Shlokas

MBh 12.332.1
नरनारायणावूचतुः धन्योऽस्यनुगृहीतोऽसि यत्ते दृष्टः स्वयं प्रभुः न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम्
MBh 12.332.2
अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः नारदैतद्धि ते सत्यं वचनं समुदाहृतम्
MBh 12.332.3
नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम
MBh 12.332.4
तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः न तत्संप्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम
MBh 12.332.5
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता
MBh 12.332.6
तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते
MBh 12.332.7
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहितो रसः आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च
MBh 12.332.8
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् येन स्म युज्यते सूर्यस्ततो लोकान्विराजते
MBh 12.332.9
तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ
MBh 12.332.10
तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम्
MBh 12.332.11
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः
MBh 12.332.12
षड्भूतोत्पादकं नाम तत्स्थानं वेदसंज्ञितम् विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक्
MBh 12.332.13
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते
MBh 12.332.14
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत
MBh 12.332.15
तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत
MBh 12.332.16
प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं तथा विशन्ति विप्रप्रवराः सांख्या भागवतैः सह
MBh 12.332.17
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः
MBh 12.332.18
समाहितमनस्काश्च नियताः संयतेन्द्रियाः एकान्तभावोपगता वासुदेवं विशन्ति ते
MBh 12.332.19
आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ
MBh 12.332.20
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यतो द्विज
MBh 12.332.21
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक्तदुत्तमम्
MBh 12.332.22
आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन समागतो भगवता संजल्पं कृतवान्यथा
MBh 12.332.23
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम्
MBh 12.332.24
वैशंपायन उवाच एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रेऽभ्यवर्तत नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः
MBh 12.332.25
जजाप विधिवन्मन्त्रान्नारायणगतान्बहून् दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे
MBh 12.332.26
अवसत्स महातेजा नारदो भगवानृषिः तमेवाभ्यर्चयन्देवं नरनारायणौ च तौ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.332local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷