🪷 Mahābhārata · Śānti-Parva · Chapter 331

The Book of Peace · the great dharma-śāstra · Parva 12 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 52 Shlokas

MBh 12.331.1
जनमेजय उवाच ब्रह्मन्सुमहदाख्यानं भवता परिकीर्तितम् यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः
MBh 12.331.2
इदं शतसहस्राद्धि भारताख्यानविस्तरात् आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम्
MBh 12.331.3
नवनीतं यथा दध्नो मलयाच्चन्दनं यथा आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा
MBh 12.331.4
समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम् तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम्
MBh 12.331.5
स हीशो भगवान्देवः सर्वभूतात्मभावनः अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम
MBh 12.331.6
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम् न ततोऽस्ति परं मन्ये पावनं दिवि चेह च
MBh 12.331.7
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् न तथा फलदं चापि नारायणकथा यथा
MBh 12.331.8
सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम्
MBh 12.331.9
न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम्
MBh 12.331.10
न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु त्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा
MBh 12.331.11
धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाः हिताय श्रेयसे चैव येषामासीज्जनार्दनः
MBh 12.331.12
तपसापि न दृश्यो हि भगवाँल्लोकपूजितः यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम्
MBh 12.331.13
तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः
MBh 12.331.14
देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम्
MBh 12.331.15
बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने
MBh 12.331.16
श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः बदरीमाश्रमं प्राप्य समागम्य च तावृषी
MBh 12.331.17
कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि
MBh 12.331.18
किमब्रूतां महात्मानौ नरनारायणावृषी तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि
MBh 12.331.19
वैशंपायन उवाच नमो भगवते तस्मै व्यासायामिततेजसे यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्
MBh 12.331.20
प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम् निवृत्तो नारदो राजंस्तरसा मेरुमागमत् हृदयेनोद्वहन्भारं यदुक्तं परमात्मना
MBh 12.331.21
पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः
MBh 12.331.22
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् निपपात च खात्तूर्णं विशालां बदरीमनु
MBh 12.331.23
ततः स ददृशे देवौ पुराणावृषिसत्तमौ तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ
MBh 12.331.24
तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ
MBh 12.331.25
जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ
MBh 12.331.26
षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ
MBh 12.331.27
आतपत्रेण सदृशे शिरसी देवयोस्तयोः एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ
MBh 12.331.28
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा
MBh 12.331.29
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः
MBh 12.331.30
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् उपोपविविशे तत्र पीठे कुशमये शुभे
MBh 12.331.31
ततस्तौ तपसां वासौ यशसां तेजसामपि ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम्
MBh 12.331.32
पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप
MBh 12.331.33
तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत आज्याहुतिमहाज्वालैर्यज्ञवाटोऽग्निभिर्यथा
MBh 12.331.34
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम्
MBh 12.331.35
अपीदानीं स भगवान्परमात्मा सनातनः श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा
MBh 12.331.36
नारद उवाच दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः सर्वे हि लोकास्तत्रस्थास्तथा देवाः सहर्षिभिः अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ
MBh 12.331.37
यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक् तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम्
MBh 12.331.38
दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना
MBh 12.331.39
को हि नाम भवेत्तस्य तेजसा यशसा श्रिया सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम्
MBh 12.331.40
तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसंज्ञितम् प्रादुर्भावाश्च कथिता भविष्यन्ति हि ये यथा
MBh 12.331.41
तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम्
MBh 12.331.42
तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः
MBh 12.331.43
रमते सोऽर्च्यमानो हि सदा भागवतप्रियः विश्वभुक्सर्वगो देवो बान्धवो भक्तवत्सलः स कर्ता कारणं चैव कार्यं चातिबलद्युतिः
MBh 12.331.44
तपसा योज्य सोऽऽत्मानं श्वेतद्वीपात्परं हि यत् तेज इत्यभिविख्यातं स्वयंभासावभासितम्
MBh 12.331.45
शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम् एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः
MBh 12.331.46
न तत्र सूर्यस्तपति न सोमोऽभिविराजते न वायुर्वाति देवेशे तपश्चरति दुश्चरम्
MBh 12.331.47
वेदीमष्टतलोत्सेधां भूमावास्थाय विश्वभुक् एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखः साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम्
MBh 12.331.48
यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत् शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः
MBh 12.331.49
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च ये हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते कृत्स्नं तत्तस्य देवस्य चरणावुपतिष्ठति
MBh 12.331.50
याः क्रियाः संप्रयुक्तास्तु एकान्तगतबुद्धिभिः ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्
MBh 12.331.51
न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः विद्यते त्रिषु लोकेषु ततोऽस्म्यैकान्तिकं गतः इह चैवागतस्तेन विसृष्टः परमात्मना
MBh 12.331.52
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 52 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.331local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷