🪷 Mahābhārata · Śānti-Parva · Chapter 328

The Book of Peace · the great dharma-śāstra · Parva 12 · 53 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 53 Shlokas

MBh 12.328.1
जनमेजय उवाच अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम् नामभिर्विविधैरेषां निरुक्तं भगवन्मम
MBh 12.328.2
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः
MBh 12.328.3
वैशंपायन उवाच शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम्
MBh 12.328.4
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः पृष्टवान्केशवं राजन्फल्गुनः परवीरहा
MBh 12.328.5
अर्जुन उवाच भगवन्भूतभव्येश सर्वभूतसृगव्यय लोकधाम जगन्नाथ लोकानामभयप्रद
MBh 12.328.6
यानि नामानि ते देव कीर्तितानि महर्षिभिः वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः
MBh 12.328.7
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो
MBh 12.328.8
श्रीभगवानुवाच ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन
MBh 12.328.9
सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च बहूनि मम नामानि कीर्तितानि महर्षिभिः
MBh 12.328.10
गौणानि तत्र नामानि कर्मजानि च कानिचित् निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा
MBh 12.328.11
नमोऽतियशसे तस्मै देहिनां परमात्मने नारायणाय विश्वाय निर्गुणाय गुणात्मने
MBh 12.328.12
यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसंभवः योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च
MBh 12.328.13
अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर प्रकृतिः सा परा मह्यं रोदसी योगधारिणी ऋता सत्यामराजय्या लोकानामात्मसंज्ञिता
MBh 12.328.14
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः
MBh 12.328.15
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः
MBh 12.328.16
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः
MBh 12.328.17
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ तदादेशितपन्थानौ सृष्टिसंहारकारकौ निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ
MBh 12.328.18
कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः
MBh 12.328.19
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे
MBh 12.328.20
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे संपूजितो भवेत्पार्थ देवो नारायणः प्रभुः
MBh 12.328.21
अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम्
MBh 12.328.22
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः मया प्रमाणं हि कृतं लोकः समनुवर्तते
MBh 12.328.23
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु
MBh 12.328.24
रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम् लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु
MBh 12.328.25
न हि मे केनचिद्देयो वरः पाण्डवनन्दन इति संचिन्त्य मनसा पुराणं विश्वमीश्वरम् पुत्रार्थमाराधितवानात्मानमहमात्मना
MBh 12.328.26
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम्
MBh 12.328.27
सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम्
MBh 12.328.28
भविष्यतां वर्ततां च भूतानां चैव भारत सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः
MBh 12.328.29
नमस्व हव्यदं विष्णुं तथा शरणदं नम वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम
MBh 12.328.30
चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम् तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः अहमेव गतिस्तेषां निराशीःकर्मकारिणाम्
MBh 12.328.31
ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक्
MBh 12.328.32
ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः प्रबुद्धवर्याः सेवन्ते मामेवैष्यन्ति यत्परम् भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः
MBh 12.328.33
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम्
MBh 12.328.34
जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत निवृत्तिलक्षणो धर्मस्तथाभ्युदयिकोऽपि च
MBh 12.328.35
नराणामयनं ख्यातमहमेकः सनातनः आपो नारा इति प्रोक्ता आपो वै नरसूनवः अयनं मम तत्पूर्वमतो नारायणो ह्यहम्
MBh 12.328.36
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम्
MBh 12.328.37
गतिश्च सर्वभूतानां प्रजानां चापि भारत व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम
MBh 12.328.38
अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः
MBh 12.328.39
दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम्
MBh 12.328.40
पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम्
MBh 12.328.41
ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम् पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम्
MBh 12.328.42
ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस्त्रितः उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात्
MBh 12.328.43
सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः
MBh 12.328.44
स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत
MBh 12.328.45
ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः
MBh 12.328.46
पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च
MBh 12.328.47
मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः
MBh 12.328.48
स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा
MBh 12.328.49
वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् प्रयोजयामास तदा नाम गुह्यमिदं मम
MBh 12.328.50
आनुपूर्व्येण विधिना केशवेति पुनः पुनः स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः
MBh 12.328.51
एवं हि वरदं नाम केशवेति ममार्जुन देवानामथ सर्वेषामृषीणां च महात्मनाम्
MBh 12.328.52
अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम्
MBh 12.328.53
अपि हि पुराणे भवति एकयोन्यात्मकावग्नीषोमौ देवाश्चाग्निमुखा इति एकयोनित्वाच्च परस्परं महयन्तो लोकान्धारयत इति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 53 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.328local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷