🪷 Mahābhārata · Śānti-Parva · Chapter 327

The Book of Peace · the great dharma-śāstra · Parva 12 · 107 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 107 Shlokas

MBh 12.327.1
जनमेजय उवाच कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः यज्ञधारी च सततं वेदवेदाङ्गवित्तथा
MBh 12.327.2
निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः
MBh 12.327.3
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः
MBh 12.327.4
एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम् त्वया नारायणकथा श्रुता वै धर्मसंहिता
MBh 12.327.5
इमे सब्रह्मका लोकाः ससुरासुरमानवाः क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम्
MBh 12.327.6
ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः
MBh 12.327.7
अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन्
MBh 12.327.8
किं नु ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च आकाशं जगती चैव ये च शेषा दिवौकसः
MBh 12.327.9
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् ततस्ते नास्थिता मार्गं ध्रुवमक्षयमव्ययम्
MBh 12.327.10
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः दोषः कालपरीमाणे महानेष क्रियावताम्
MBh 12.327.11
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् छिन्धीतिहासकथनात्परं कौतूहलं हि मे
MBh 12.327.12
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः
MBh 12.327.13
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै
MBh 12.327.14
वैशंपायन उवाच अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर नातप्ततपसा ह्येष नावेदविदुषा तथा नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा
MBh 12.327.15
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः
MBh 12.327.16
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः
MBh 12.327.17
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान्
MBh 12.327.18
वेदानध्यापयामास महाभारतपञ्चमान् मेरौ गिरिवरे रम्ये सिद्धचारणसेविते
MBh 12.327.19
तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत् एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत
MBh 12.327.20
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः पराशरसुतः श्रीमान्व्यासो वाक्यमुवाच ह
MBh 12.327.21
मया हि सुमहत्तप्तं तपः परमदारुणम् भूतं भव्यं भविष्यच्च जानीयामिति सत्तमाः
MBh 12.327.22
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च नारायणप्रसादेन क्षीरोदस्यानुकूलतः
MBh 12.327.23
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशयमुत्तमम् यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा
MBh 12.327.24
परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः महापुरुषसंज्ञां स लभते स्वेन कर्मणा
MBh 12.327.25
तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात्
MBh 12.327.26
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः
MBh 12.327.27
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् अहंकारप्रसूतानि महाभूतानि भारत
MBh 12.327.28
महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु
MBh 12.327.29
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः
MBh 12.327.30
वेदान्वेदाङ्गसंयुक्तान्यज्ञान्यज्ञाङ्गसंयुतान् निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत्
MBh 12.327.31
रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत्स्वयम् एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः
MBh 12.327.32
ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः
MBh 12.327.33
वयं हि सृष्टा भगवंस्त्वया वै प्रभविष्णुना येन यस्मिन्नधीकारे वर्तितव्यं पितामह
MBh 12.327.34
योऽसौ त्वया विनिर्दिष्टो अधिकारोऽर्थचिन्तकः परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा
MBh 12.327.35
प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः एवमुक्तो महादेवो देवांस्तानिदमब्रवीत्
MBh 12.327.36
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता
MBh 12.327.37
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च मे
MBh 12.327.38
इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम्
MBh 12.327.39
ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः
MBh 12.327.40
ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् स महानियमो नाम तपश्चर्या सुदारुणा
MBh 12.327.41
ऊर्ध्वं दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत् एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः
MBh 12.327.42
दिव्यं वर्षसहस्रं ते तपस्तप्त्वा तदुत्तमम् शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम्
MBh 12.327.43
भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम्
MBh 12.327.44
विज्ञातं वो मया कार्यं तच्च लोकहितं महत् प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम्
MBh 12.327.45
सुतप्तं वस्तपो देवा ममाराधनकाम्यया भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम्
MBh 12.327.46
एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः
MBh 12.327.47
सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः तथा श्रेयो विधास्यामि यथाधीकारमीश्वराः
MBh 12.327.48
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः
MBh 12.327.49
वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् तस्मिन्सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् देवा देवर्षयश्चैव सर्वे भागानकल्पयन्
MBh 12.327.50
ते कार्तयुगधर्माणो भागाः परमसत्कृताः प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम्
MBh 12.327.51
ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान् अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः
MBh 12.327.52
येन यः कल्पितो भागः स तथा समुपागतः प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम्
MBh 12.327.53
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः
MBh 12.327.54
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान्
MBh 12.327.55
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः
MBh 12.327.56
यूयं लोकान्धारयध्वं यज्ञभागफलोदिताः सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः
MBh 12.327.57
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः ताभिराप्यायितबला लोकान्वै धारयिष्यथ
MBh 12.327.58
यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः मां ततो भावयिष्यध्वमेषा वो भावना मम
MBh 12.327.59
इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ
MBh 12.327.60
निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिति चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः
MBh 12.327.61
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै
MBh 12.327.62
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः प्रवृत्तिधर्मिणश्चैव प्राजापत्येन कल्पिताः
MBh 12.327.63
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः
MBh 12.327.64
सनः सनत्सुजातश्च सनकः ससनन्दनः सनत्कुमारः कपिलः सप्तमश्च सनातनः
MBh 12.327.65
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः स्वयमागतविज्ञाना निवृत्तं धर्ममास्थिताः
MBh 12.327.66
एते योगविदो मुख्याः सांख्यधर्मविदस्तथा आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः
MBh 12.327.67
यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान् तस्मात्परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः
MBh 12.327.68
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुतेऽवशः
MBh 12.327.69
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः एष माता पिता चैव युष्माकं च पितामहः मयानुशिष्टो भविता सर्वभूतवरप्रदः
MBh 12.327.70
अस्य चैवानुजो रुद्रो ललाटाद्यः समुत्थितः ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः
MBh 12.327.71
गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम्
MBh 12.327.72
प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस्तथा परिनिर्मितकालानि आयूंषि च सुरोत्तमाः
MBh 12.327.73
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते अहिंस्या यज्ञपशवो युगेऽस्मिन्नैतदन्यथा चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः
MBh 12.327.74
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे तत्र पादचतुर्थो वै धर्मस्य न भविष्यति
MBh 12.327.75
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति
MBh 12.327.76
ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते एकपादस्थितो धर्मो यत्र तत्र भविष्यति
MBh 12.327.77
देवा ऊचुः एकपादस्थिते धर्मे यत्रक्वचनगामिनि कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः
MBh 12.327.78
श्रीभगवानुवाच यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः स वै देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत्
MBh 12.327.79
व्यास उवाच तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान्
MBh 12.327.80
गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम्
MBh 12.327.81
तं देवो दर्शयामास कृत्वा हयशिरो महत् साङ्गानावर्तयन्वेदान्कमण्डलुगणित्रधृक्
MBh 12.327.82
ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम् लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया
MBh 12.327.83
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः स परिष्वज्य देवेन वचनं श्रावितस्तदा
MBh 12.327.84
लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा
MBh 12.327.85
यदा च सुरकार्यं ते अविषह्यं भविष्यति प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः
MBh 12.327.86
एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः
MBh 12.327.87
एवमेष महाभागः पद्मनाभः सनातनः यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा
MBh 12.327.88
निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम् प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम्
MBh 12.327.89
स आदिः स मध्यः स चान्तः प्रजानां; स धाता स धेयः स कर्ता स कार्यम् युगान्ते स सुप्तः सुसंक्षिप्य लोका;न्युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज
MBh 12.327.90
तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम्
MBh 12.327.91
महाभूताधिपतये रुद्राणां पतये तथा आदित्यपतये चैव वसूनां पतये तथा
MBh 12.327.92
अश्विभ्यां पतये चैव मरुतां पतये तथा वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च
MBh 12.327.93
समुद्रवासिने नित्यं हरये मुञ्जकेशिने शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे
MBh 12.327.94
तपसां तेजसां चैव पतये यशसोऽपि च वाचश्च पतये नित्यं सरितां पतये तथा
MBh 12.327.95
कपर्दिने वराहाय एकशृङ्गाय धीमते विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा
MBh 12.327.96
गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च एष देवः संचरति सर्वत्रगतिरव्ययः
MBh 12.327.97
एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा कथितं तच्च वः सर्वं मया पृष्टेन तत्त्वतः
MBh 12.327.98
क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि
MBh 12.327.99
वैशंपायन उवाच इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित्
MBh 12.327.100
स चास्माकमुपाध्यायः सहास्माभिर्विशां पते चतुर्वेदोद्गताभिश्च ऋग्भिस्तमभितुष्टुवे
MBh 12.327.101
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः
MBh 12.327.102
यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् नमो भगवते कृत्वा समाहितमना नरः
MBh 12.327.103
भवत्यरोगो द्युतिमान्बलरूपसमन्वितः आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्
MBh 12.327.104
कामकामी लभेत्कामं दीर्घमायुरवाप्नुयात् ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात्
MBh 12.327.105
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत्
MBh 12.327.106
क्षेमेण गच्छेदध्वानमिदं यः पठते पथि यो यं कामं कामयते स तमाप्नोति च ध्रुवम्
MBh 12.327.107
इदं महर्षेर्वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम् समागमं चर्षिदिवौकसामिमं; निशम्य भक्ताः सुसुखं लभन्ते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 107 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.327local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷