🪷 Mahābhārata · Śānti-Parva · Chapter 326
The Book of Peace · the great dharma-śāstra · Parva 12 · 124 unique Sanskrit addresses · pinned Critical Edition-derived witness
🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā.
The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
- BG 7.7 · sūtre maṇi-gaṇā iva · Krishna names His own posture · "all this is strung on Me as jewels on a thread" · the verse that names this very necklace
- BG 10.8 · Ahaṁ sarvasya prabhavaḥ · Krishna declares Himself the source from which all proceeds · the central declaration of /philosophy
- BG 10.31 · rāmaḥ śastra-bhṛtām aham · Krishna says by His own mouth · "among weapon-bearers I am Rāma" · the BG itself records the non-dual singularity
- BG 4.7-8 · yadā yadā hi dharmasya · The avatāra-promise · "whenever dharma declines, I take birth" · the One who descends as Rāma in Tretā is the same One speaking now as Krishna
- BG 18.66 · the Carama-Śloka · Krishna's final teaching · "abandon all dharmas, take refuge in Me alone" · the surrender-pole sealing the necklace
- Vālmīki Yuddha-Kāṇḍa 6.93.65 · "kṛṣṇa-pakṣa-caturdaśīm" · Mālyavān's pre-war counsel to Rāvaṇa names the dark-fortnight 14th day · the word "Krishna" is operational in Tretā itself · the name pre-exists Krishna-as-person · woven into the eternal lunar pakṣa-substrate
- Vālmīki Yuddha-Kāṇḍa 6.120.16 · the Brahma-Stuti · Brahmā addresses Rāma after Rāvaṇa-vadha · names Him as Viṣṇu AND Krishna by name · the Ādi-Kavi's own declaration of the non-dual
- Vālmīki Yuddha-Kāṇḍa 6.120.29 · the avatāra-rahasya · Brahmā: "Sītā IS Lakṣmī · YOU ARE Viṣṇu · YOU ARE the deva Krishna · You entered human form to slay Rāvaṇa"
- MBh Vana-Parva 258-275 · the Rāmopākhyāna · Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here
See also: /rama (the constitutional non-dual declaration) ·
/philosophy (the theological foundation) ·
/mahabharata ·
/valmiki-ramayana.
The Devanāgarī Yathārtha · 124 Shlokas
MBh 12.326.1
भीष्म उवाच
एवं स्तुतः स भगवान्गुह्यैस्तथ्यैश्च नामभिः
तं मुनिं दर्शयामास नारदं विश्वरूपधृक्
MBh 12.326.2
किंचिच्चन्द्रविशुद्धात्मा किंचिच्चन्द्राद्विशेषवान्
कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभुः
MBh 12.326.3
शुकपत्रवर्णः किंचिच्च किंचित्स्फटिकसप्रभः
नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित्
MBh 12.326.4
प्रवालाङ्कुरवर्णश्च श्वेतवर्णः क्वचिद्बभौ
क्वचित्सुवर्णवर्णाभो वैडूर्यसदृशः क्वचित्
MBh 12.326.5
नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित्
मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित्
MBh 12.326.6
एतान्वर्णान्बहुविधान्रूपे बिभ्रत्सनातनः
सहस्रनयनः श्रीमाञ्शतशीर्षः सहस्रपात्
MBh 12.326.7
सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित्
ओंकारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम्
MBh 12.326.8
शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदोद्गतं वसु
आरण्यकं जगौ देवो हरिर्नारायणो वशी
MBh 12.326.9
वेदीं कमण्डलुं दर्भान्मणिरूपानथोपलान्
अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम्
धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा
MBh 12.326.10
तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः
वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम्
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः
MBh 12.326.11
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
इमं देशमनुप्राप्ता मम दर्शनलालसाः
MBh 12.326.12
न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन
ऋते ह्येकान्तिकश्रेष्ठात्त्वं चैवैकान्तिको मतः
MBh 12.326.13
ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज
तास्त्वं भजस्व सततं साधयस्व यथागतम्
MBh 12.326.14
वृणीष्व च वरं विप्र मत्तस्त्वं यमिहेच्छसि
प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः
MBh 12.326.15
नारद उवाच
अद्य मे तपसो देव यमस्य नियमस्य च
सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया
MBh 12.326.16
वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः
भगवान्विश्वदृक्सिंहः सर्वमूर्तिर्महाप्रभुः
MBh 12.326.17
भीष्म उवाच
एवं संदर्शयित्वा तु नारदं परमेष्ठिजम्
उवाच वचनं भूयो गच्छ नारद माचिरम्
MBh 12.326.18
इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः
एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति
MBh 12.326.19
सिद्धाश्चैते महाभागाः पुरा ह्येकान्तिनोऽभवन्
तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम्
MBh 12.326.20
न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च
न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः
MBh 12.326.21
सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै
यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते
MBh 12.326.22
भूतग्रामशरीरेषु नश्यत्सु न विनश्यति
अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा
MBh 12.326.23
द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः
पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते
MBh 12.326.24
यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम
स वासुदेवो विज्ञेयः परमात्मा सनातनः
MBh 12.326.25
पश्य देवस्य माहात्म्यं महिमानं च नारद
शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन
MBh 12.326.26
सत्त्वं रजस्तमश्चैव गुणानेतान्प्रचक्षते
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च
MBh 12.326.27
एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते
निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणाधिकः
MBh 12.326.28
जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते
MBh 12.326.29
खे वायुः प्रलयं याति मनस्याकाशमेव च
मनो हि परमं भूतं तदव्यक्ते प्रलीयते
MBh 12.326.30
अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये संप्रलीयते
नास्ति तस्मात्परतरं पुरुषाद्वै सनातनात्
MBh 12.326.31
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्
ऋते तमेकं पुरुषं वासुदेवं सनातनम्
सर्वभूतात्मभूतो हि वासुदेवो महाबलः
MBh 12.326.32
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
ते समेता महात्मानः शरीरमिति संज्ञितम्
MBh 12.326.33
तदाविशति यो ब्रह्मन्नदृश्यो लघुविक्रमः
उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः
MBh 12.326.34
न विना धातुसंघातं शरीरं भवति क्वचित्
न च जीवं विना ब्रह्मन्धातवश्चेष्टयन्त्युत
MBh 12.326.35
स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः
तस्मात्सनत्कुमारत्वं यो लभेत स्वकर्मणा
MBh 12.326.36
यस्मिंश्च सर्वभूतानि प्रलयं यान्ति संक्षये
स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते
MBh 12.326.37
तस्मात्प्रसूतो यः कर्ता कार्यं कारणमेव च
यस्मात्सर्वं प्रभवति जगत्स्थावरजङ्गमम्
सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु
MBh 12.326.38
यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः
ज्ञेयः स एव भगवाञ्जीवः संकर्षणः प्रभुः
MBh 12.326.39
संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते
प्रद्युम्नाद्योऽनिरुद्धस्तु सोऽहंकारो महेश्वरः
MBh 12.326.40
मत्तः सर्वं संभवति जगत्स्थावरजङ्गमम्
अक्षरं च क्षरं चैव सच्चासच्चैव नारद
MBh 12.326.41
मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः
MBh 12.326.42
निर्गुणो निष्कलश्चैव निर्द्वंद्वो निष्परिग्रहः
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते
इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः
MBh 12.326.43
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद
सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि
मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम्
MBh 12.326.44
सिद्धा ह्येते महाभागा नरा ह्येकान्तिनोऽभवन्
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने
MBh 12.326.45
अहं कर्ता च कार्यं च कारणं चापि नारद
अहं हि जीवसंज्ञो वै मयि जीवः समाहितः
मैवं ते बुद्धिरत्राभूद्दृष्टो जीवो मयेति च
MBh 12.326.46
अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः
भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम्
MBh 12.326.47
हिरण्यगर्भो लोकादिश्चतुर्वक्त्रो निरुक्तगः
ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः
MBh 12.326.48
पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान्
द्वादशैव तथादित्यान्वामं पार्श्वं समास्थितान्
MBh 12.326.49
अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान्
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः
MBh 12.326.50
सर्वान्प्रजापतीन्पश्य पश्य सप्त ऋषीनपि
वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः
MBh 12.326.51
तपांसि नियमांश्चैव यमानपि पृथग्विधान्
तथाष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत्
MBh 12.326.52
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम्
वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम्
MBh 12.326.53
ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम्
अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा
MBh 12.326.54
मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम
त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान्
MBh 12.326.55
देवकार्यादपि मुने पितृकार्यं विशिष्यते
देवानां च पितॄणां च पिता ह्येकोऽहमादितः
MBh 12.326.56
अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे
पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम्
MBh 12.326.57
मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्स्वयम्
ततस्तस्मै वरान्प्रीतो ददावहमनुत्तमान्
MBh 12.326.58
मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च
अहंकारकृतं चैव नाम पर्यायवाचकम्
MBh 12.326.59
त्वया कृतां च मर्यादां नातिक्राम्यति कश्चन
त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि
MBh 12.326.60
सुरासुरगणानां च ऋषीणां च तपोधन
पितॄणां च महाभाग सततं संशितव्रत
विविधानां च भूतानां त्वमुपास्यो भविष्यसि
MBh 12.326.61
प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा
अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा
MBh 12.326.62
एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे
अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम्
MBh 12.326.63
निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता
तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः
MBh 12.326.64
विद्यासहायवन्तं मामादित्यस्थं सनातनम्
कपिलं प्राहुराचार्याः सांख्यनिश्चितनिश्चयाः
MBh 12.326.65
हिरण्यगर्भो भगवानेष छन्दसि सुष्टुतः
सोऽहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः
MBh 12.326.66
एषोऽहं व्यक्तिमागम्य तिष्ठामि दिवि शाश्वतः
ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः
कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च
MBh 12.326.67
एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम
ततो भूयो जगत्सर्वं करिष्यामीह विद्यया
MBh 12.326.68
अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम्
स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत्
MBh 12.326.69
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः
अनिरुद्धात्तथा ब्रह्मा तत्रादिकमलोद्भवः
MBh 12.326.70
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च
एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः
MBh 12.326.71
यथा सूर्यस्य गगनादुदयास्तमयाविह
नष्टौ पुनर्बलात्काल आनयत्यमितद्युतिः
तथा बलादहं पृथ्वीं सर्वभूतहिताय वै
MBh 12.326.72
सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम्
आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः
MBh 12.326.73
हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम्
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम्
MBh 12.326.74
विरोचनस्य बलवान्बलिः पुत्रो महासुरः
भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति
MBh 12.326.75
त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ
अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात्
MBh 12.326.76
ततो राज्यं प्रदास्यामि शक्रायामिततेजसे
देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद
बलिं चैव करिष्यामि पातालतलवासिनम्
MBh 12.326.77
त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः
क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम्
MBh 12.326.78
संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च
रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः
MBh 12.326.79
त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा
प्राप्स्यतो वानरत्वं हि प्रजापतिसुतावृषी
MBh 12.326.80
तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः
ते सहाया भविष्यन्ति सुरकार्ये मम द्विज
MBh 12.326.81
ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम्
हनिष्ये रावणं संख्ये सगणं लोककण्टकम्
MBh 12.326.82
द्वापरस्य कलेश्चैव संधौ पर्यवसानिके
प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति
MBh 12.326.83
तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान्
कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम्
MBh 12.326.84
वसानस्तत्र वै पुर्यामदितेर्विप्रियंकरम्
हनिष्ये नरकं भौमं मुरं पीठं च दानवम्
MBh 12.326.85
प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम्
कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान्
MBh 12.326.86
शंकरं च महासेनं बाणप्रियहितैषिणम्
पराजेष्याम्यथोद्युक्तौ देवलोकनमस्कृतौ
MBh 12.326.87
ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम्
विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः
MBh 12.326.88
यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः
भविष्यति वधस्तस्य मत्त एव द्विजोत्तम
MBh 12.326.89
जरासंधश्च बलवान्सर्वराजविरोधकः
भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे
मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति
MBh 12.326.90
समागतेषु बलिषु पृथिव्यां सर्वराजसु
वासविः सुसहायो वै मम ह्येको भविष्यति
MBh 12.326.91
एवं लोका वदिष्यन्ति नरनारायणावृषी
उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ
MBh 12.326.92
कृत्वा भारावतरणं वसुधाया यथेप्सितम्
सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम
करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम्
MBh 12.326.93
कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम्
कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान्
MBh 12.326.94
हंसो हयशिराश्चैव प्रादुर्भावा द्विजोत्तम
यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता तदा
सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे
MBh 12.326.95
अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित्
अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः
लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः
MBh 12.326.96
न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम्
यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना
MBh 12.326.97
एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया
पुराणं च भविष्यं च सरहस्यं च सत्तम
MBh 12.326.98
एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः
एतावदुक्त्वा वचनं तत्रैवान्तरधीयत
MBh 12.326.99
नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम्
नरनारायणौ द्रष्टुं प्राद्रवद्बदराश्रमम्
MBh 12.326.100
इदं महोपनिषदं चतुर्वेदसमन्वितम्
सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम्
MBh 12.326.101
नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः
ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम्
MBh 12.326.102
युधिष्ठिर उवाच
एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः
किं ब्रह्मा न विजानीते यतः शुश्राव नारदात्
MBh 12.326.103
पितामहो हि भगवांस्तस्माद्देवादनन्तरः
कथं स न विजानीयात्प्रभावममितौजसः
MBh 12.326.104
भीष्म उवाच
महाकल्पसहस्राणि महाकल्पशतानि च
समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह
MBh 12.326.105
सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः
जानाति देवप्रवरं भूयश्चातोऽधिकं नृप
परमात्मानमीशानमात्मनः प्रभवं तथा
MBh 12.326.106
ये त्वन्ये ब्रह्मसदने सिद्धसंघाः समागताः
तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम्
MBh 12.326.107
तेषां सकाशात्सूर्यश्च श्रुत्वा वै भावितात्मनाम्
आत्मानुगामिनां ब्रह्म श्रावयामास भारत
MBh 12.326.108
षट्षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम्
सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः
तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम्
MBh 12.326.109
सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः
मेरौ समागता देवाः श्राविताश्चेदमुत्तमम्
MBh 12.326.110
देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः
श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः
MBh 12.326.111
मम चापि पिता तात कथयामास शंतनुः
ततो मयैतच्छ्रुत्वा च कीर्तितं तव भारत
MBh 12.326.112
सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम्
सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः
MBh 12.326.113
इदमाख्यानमार्षेयं पारंपर्यागतं नृप
नावासुदेवभक्ताय त्वया देयं कथंचन
MBh 12.326.114
मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै
यानि श्रुतानि धर्म्याणि तेषां सारोऽयमुद्धृतः
MBh 12.326.115
सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम्
एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम्
MBh 12.326.116
यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः
एकान्तभावोपगत एकान्ते सुसमाहितः
MBh 12.326.117
प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः
MBh 12.326.118
मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम्
जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत्
MBh 12.326.119
त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः
MBh 12.326.120
ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः
युधिष्ठिर महाबाहो महाबाहुर्जनार्दनः
MBh 12.326.121
वैशंपायन उवाच
श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय
भ्रातरश्चास्य ते सर्वे नारायणपराभवन्
MBh 12.326.122
जितं भगवता तेन पुरुषेणेति भारत
नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन्
MBh 12.326.123
यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः
स जगौ परमं जप्यं नारायणमुदीरयन्
MBh 12.326.124
गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम्
पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 325
- Next chapter · Śānti-Parva Ch 327 →
Sources and Connected Readings
Continue from these 124 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.326local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷