🪷 Mahābhārata · Śānti-Parva · Chapter 326
The Book of Peace · the great dharma-śāstra · Parva 12 · 124 shlokas in canonical Devanāgarī Sanskrit
🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā.
The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
- BG 7.7 · sūtre maṇi-gaṇā iva · Krishna names His own posture · "all this is strung on Me as jewels on a thread" · the verse that names this very necklace
- BG 10.8 · Ahaṁ sarvasya prabhavaḥ · Krishna declares Himself the source from which all proceeds · the central declaration of /philosophy
- BG 10.31 · rāmaḥ śastra-bhṛtām aham · Krishna says by His own mouth · "among weapon-bearers I am Rāma" · the BG itself records the non-dual singularity
- BG 4.7-8 · yadā yadā hi dharmasya · The avatāra-promise · "whenever dharma declines, I take birth" · the One who descends as Rāma in Tretā is the same One speaking now as Krishna
- BG 18.66 · the Carama-Śloka · Krishna's final teaching · "abandon all dharmas, take refuge in Me alone" · the surrender-pole sealing the necklace
- Vālmīki Yuddha-Kāṇḍa 6.93.65 · "kṛṣṇa-pakṣa-caturdaśīm" · Mālyavān's pre-war counsel to Rāvaṇa names the dark-fortnight 14th day · the word "Krishna" is operational in Tretā itself · the name pre-exists Krishna-as-person · woven into the eternal lunar pakṣa-substrate
- Vālmīki Yuddha-Kāṇḍa 6.120.16 · the Brahma-Stuti · Brahmā addresses Rāma after Rāvaṇa-vadha · names Him as Viṣṇu AND Krishna by name · the Ādi-Kavi's own declaration of the non-dual
- Vālmīki Yuddha-Kāṇḍa 6.120.29 · the avatāra-rahasya · Brahmā: "Sītā IS Lakṣmī · YOU ARE Viṣṇu · YOU ARE the deva Krishna · You entered human form to slay Rāvaṇa"
- MBh Vana-Parva 258-275 · the Rāmopākhyāna · Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here
See also: /rama (the constitutional non-dual declaration) ·
/philosophy (the theological foundation) ·
/mahabharata ·
/valmiki-ramayana.
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 12.326local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 124 Shlokas
MBh 12.326.1
[भीस्म]
एवं सतुतः स भगवान गुह्यैस तथ्यैश च नामभिः
तं मुनिं दर्शयाम आस नारदं विश्वरूपधृक
MBh 12.326.2
किं चिच चन्द्र विशुद्धात्मा किं चिच चन्द्राद विशेषवान
कृशानु वर्णः किं चिच च किं चिद धिष्न्याकृतिः परभुः
MBh 12.326.3
शुकपत्रवर्णः किं चिच च किं चित सफतिक सप्रभः
नीलाञ्जनचय परख्यॊ जातरूपप्रभः कव चित
MBh 12.326.4
परवालाङ्कुर वर्णश च शवेतवर्णः कव चिद बभौ
कव चित सुवर्णवर्णाभॊ वैदूर्यसदृशः कव चित
MBh 12.326.5
नीलवैदूर्य सदृश इन्द्रनीलनिभः कव चित
मयूरग्रीव वर्णाभॊ मुक्ताहार निभः कव चित
MBh 12.326.6
एतान वर्णान बहुविधान रूपे बिभ्रत सनातनः
सहस्रनयनः शरीमाञ शतशीर्षः सहस्रपात
MBh 12.326.7
सहस्रॊदर बाहुश च अव्यक्त इति च कव चित
ओंकारम उद्गिरन वक्त्रात सावित्रीं च तद अन्वयाम
MBh 12.326.8
शेषेभ्यश चैव वक्त्रेभ्यश चतुर्वेदॊद्गतं वसु
आरण्यकं जगौ देवॊ हरिर नारायणॊ वशी
MBh 12.326.9
वेदीं कमन्दलुं दर्भान मनि रूपान अथॊपलान
अजिनं दन्द काष्ठं च जवलितं च हुताशनम
धारयाम आस देवेशॊ हस्तैर यज्ञपतिस तदा
MBh 12.326.10
तं परसन्नं परसन्नात्मा नारदॊ दविजसत्तमः
वाग्यतः परयतॊ भूत्वा ववन्दे परमेश्वरम
तम उवाच नतं मूर्ध्ना देवानाम आदिर अव्ययः
MBh 12.326.11
एकतश च दवितश चैव तरितश चैव महर्षयः
इमं देशम अनुप्राप्ता मम दर्शनलालसाः
MBh 12.326.12
न च मां ते ददृशिरे न च दरक्ष्यति कश चन
ऋते हय एकान्तिक शरेष्ठात तवं चैवैकान्तिकॊ मतः
MBh 12.326.13
ममैतास तनवः शरेष्ठा जाता धर्मगृहे दविज
तास तवं भजस्व सततं साधयस्व यथागतम
MBh 12.326.14
वृणीष्व च वरं विप्र मत्तस तवं यम इहेच्छसि
परसन्नॊ ऽहं तवाद्येह विश्वमूर्तिर इहाव्ययः
MBh 12.326.15
[नारद]
अद्य मे तपसॊ देव यमस्य नियमस्य च
सद्यः फलम अवाप्तं वै दृष्टॊ यद भगवान मया
MBh 12.326.16
वर एष ममात्यन्तं दृष्टस तवं यत सनातनः
भगवान विश्वदृक सिंहः सर्वमूर्तिर महाप्रभुः
MBh 12.326.17
[भीस्म]
एवं संदर्शयित्वा तु नारदं परमेष्ठिजम
उवाच वचनं भूयॊ गच्छ नारद माचिरम
MBh 12.326.18
इमे हय अनिन्द्रियाहारा मद्भक्ताश चन्द्र वर्चसः
एकाग्राश चिन्तयेयुर मां नैषां विघ्नॊ भवेद इति
MBh 12.326.19
सिद्धाश चैते महाभागाः पुरा हय एकान्तिनॊ ऽभवन
तमॊ रजॊ विनिर्मुक्ता मां परवेक्ष्यन्त्य असंशयम
MBh 12.326.20
न दृश्यश चक्षुषा यॊ ऽसौ न सपृश्यः सपर्शनेन च
न घरेयश चैव गन्धेन रसेन च विवर्जितः
MBh 12.326.21
सत्त्वं रजस तमश चैव न गुणास तं भजन्ति वै
यश च सर्वगतः साक्षी लॊकस्यात्मेति कथ्यते
MBh 12.326.22
भूतग्राम शरीरेषु नश्यत्सु न विनश्यति
अजॊ नित्यः शाश्वतश च निर्गुणॊ निष्कलस तथा
MBh 12.326.23
दविर दवादशेभ्यस तत्त्वेभ्यः खयातॊ यः पञ्चविंशकः
पुरुषॊ निष्क्रियश चैव जञानदृश्यश च कथ्यते
MBh 12.326.24
यं परविश्य भवन्तीह मुक्ता वै दविजसत्तम
स वासुदेवॊ विज्ञेयः परमात्मा सनातनः
MBh 12.326.25
पश्य देवस्य माहात्म्यं महिमानं च नारद
शुभाशुभैः कर्मभिर यॊ न लिप्यति कदा चन
MBh 12.326.26
सत्त्वं रजस तमश चैव गुणान एतान परचक्षते
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च
MBh 12.326.27
एतान गुणांस तु कषेत्रज्ञॊ भुङ्क्ते नैभिः स भुज्यते
निर्गुणॊ गुणभुक चैव गुणस्रष्टा गुणाधिकः
MBh 12.326.28
जगत परतिष्ठा देवर्षे पृथिव्य अप्सु परलीयते
जयॊतिष्य आपः परलीयन्ते जयॊतिर वायौ परलीयते
MBh 12.326.29
खे वायुः परलयं याति मनस्य आकाशम एव च
मनॊ हि परमं भूतं तद अव्यक्ते परलीयते
MBh 12.326.30
अव्यक्तं पुरुषे बरह्मन निष्क्रिये संप्रलीयते
नास्ति तस्मात परतरं पुरुषाद वै सनातनात
MBh 12.326.31
नित्यं हि नास्ति जगति भूतं सथावरजङ्गमम
ऋते तम एकं पुरुषं वासुदेवं सनातनम
सर्वभूतात्मभूतॊ हि वासुदेवॊ महाबलः
MBh 12.326.32
पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम
ते समेता महात्मानः शरीरम इति संज्ञितम
MBh 12.326.33
तद आविशति यॊ बरह्मन्न अदृश्यॊ लघुविक्रमः
उत्पन्न एव भवति शरीरं चेष्टयन परभुः
MBh 12.326.34
न विना धातुसंघातं शरीरं भवति कव चित
न च जीवं विना बरह्मन धातवश चेष्टयन्त्य उत
MBh 12.326.35
स जीवः परिसंख्यातः शेषः संकर्षणः परभुः
तस्मात सनत्कुमारत्वं यॊ लभेत सवकर्मणा
MBh 12.326.36
यस्मिंश च सर्वभूतानि परलयं यान्ति संक्षये
स मनः सर्वभूतानां परद्युम्नः परिपथ्यते
MBh 12.326.37
तस्मात परसूतॊ यः कर्ता कार्यं कारणम एव च
यस्मात सर्वं परभवति जगत सथावरजङ्गमम
सॊ ऽनिरुद्धः स ईशानॊ वयक्तिः सा सर्वकर्मसु
MBh 12.326.38
यॊ वासुदेवॊ भगवान कषेत्रज्ञॊ निर्गुणात्मकः
जञेयः स एव भगवाञ जीवः संकर्षणः परभुः
MBh 12.326.39
संकर्षणाच च परद्युम्नॊ मनॊ भूतः स उच्यते
परद्युम्नाद यॊ ऽनिरुद्धस तु सॊ ऽहंकारॊ महेश्वरः
MBh 12.326.40
मत्तः सर्वं संभवति जगत सथावरजङ्गमम
अक्षरं च कषरं चैव सच चासच चैव नारद
MBh 12.326.41
मां परविश्य भवन्तीह मुक्ता भक्तास तु ये मम
अहं हि पुरुषॊ जञेयॊ निष्क्रियः पञ्चविंशकः
MBh 12.326.42
निर्गुणॊ निष्कलश चैव निर्द्वन्द्वॊ निष्परिग्रहः
एतत तवया न विज्ञेयं रूपवान इति दृश्यते
इच्छन मुहूर्तान नश्येयम ईशॊ ऽहं जगतॊ गुरुः
MBh 12.326.43
माया हय एषा मया सृष्टा यन मां पश्यसि नारद
सर्वभूतगुणैर युक्तं नैवं तवं जञातुम अर्हसि
मयैतत कथितं सम्यक तव मूर्ति चतुष्टयम
MBh 12.326.44
सिद्धा हय एते महाभागा नरा हय एकान्तिनॊ ऽभवन
तमॊ रजॊ भयां निर्मुक्ताः परवेक्ष्यन्ति च मां मुने
MBh 12.326.45
अहं कर्ता च कार्यं च कारणं चापि नारद
अहं हि जीव संज्ञॊ वै मयि जीवः समाहितः
मैवं ते बुद्धिर अत्राभूद दृष्टॊ जीवॊ मयेति च
MBh 12.326.46
अहं सर्वत्रगॊ बरह्मन भूतग्रामान्तर आत्मकः
भूतग्राम शरीरेषु नश्यत्सु न नशाम्य अहम
MBh 12.326.47
हिरण्यगर्भॊ लॊकादिश चतुर्वक्त्रॊ निरुक्तगः
बरह्मा सनातनॊ देवॊ मम बह्व अर्थचिन्तकः
MBh 12.326.48
पश्यैकादश मे रुद्रान दक्षिणं पार्श्वम आस्थितान
दवादशैव तथादित्यान वामं पार्श्वं समास्थितान
MBh 12.326.49
अग्रतश चैव मे पश्य वसून अस्तौ सुरॊत्तमान
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः
MBh 12.326.50
सर्वान परजापतीन पश्य पश्य सप्त ऋषीन अपि
वेदान यज्ञांश च शतशः पश्यामृतम अथौषधीः
MBh 12.326.51
तपांसि नियमांश चैव यमान अपि पृथग्विधान
तथास्त गुणम ऐश्वर्यम एकस्थं पश्य मूर्तिमत
MBh 12.326.52
शरियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम
वेदानां मातरं पश्य मत सथां देवीं सरस्वतीम
MBh 12.326.53
धरुवं च जयॊतिषां शरेष्ठं पश्य नारद खेचरम
अम्भॊ धरान समुद्रांश च सरांसि सरितस तथा
MBh 12.326.54
मूर्तिमन्तः पितृगणांश चतुरः पश्य सत्तम
तरींश चैवेमान गुणान पश्य मत्स्थान मूर्ति विवर्जितान
MBh 12.326.55
देवकार्याद अपि मुने पितृकार्यं विशिष्यते
देवानां च पितॄणां च पिता हय एकॊ ऽहम आदितः
MBh 12.326.56
अहं हयशिरॊ भूत्वा समुद्रे पश्चिमॊत्तरे
पिबामि सुहुतं हव्यं कव्यं च शरद्धयान्वितम
MBh 12.326.57
मया सृष्टः पुरा बरह्मा मद यज्ञम अयजत सवयम
ततस तस्मै वरान परीतॊ ददाव अहम अनुत्तमान
MBh 12.326.58
मत पुत्रत्वं च कल्पादौ लॊकाध्यक्षत्वम एव च
अहंकारकृतं चैव नाम पर्याय वाचकम
MBh 12.326.59
तवया कृतां च मर्यादां नातिक्राम्यति कश चन
तवं चैव वरदॊ बरह्मन वरेप्सूनां भविष्यसि
MBh 12.326.60
सुरासुरगणानां च ऋषीणां च तपॊधन
पितॄणां च महाभाग सततं संशितव्रत
विविधानां च भूतानां तवम उपास्यॊ भविष्यसि
MBh 12.326.61
परादुर्भावगतश चाहं सुरकार्येषु नित्यदा
अनुशास्यस तवया बरह्मण्णियॊज्यश च सुतॊ यथा
MBh 12.326.62
एतांश चान्यांश च रुचिरान बरह्मणे ऽमिततेजसे
अहं दत्त्वा वरान परीतॊ निवृत्ति परमॊ ऽभवम
MBh 12.326.63
निर्वानं सर्वधर्माणां निवृत्तिः परमा समृता
तस्मान निवृत्तिम आपन्नश चरेत सर्वाङ्गनिर्वृतः
MBh 12.326.64
विद्या सहायवन्तं माम आदित्यस्थं सनातनम
कपिलं पराहुर आचार्याः सांख्यनिश्चित निश्चयाः
MBh 12.326.65
हिरण्यगर्भॊ भगवान एष छन्दसि सुष्टुतः
सॊ ऽहं यॊगगतिर बरह्मन यॊगशास्त्रेषु शब्दितः
MBh 12.326.66
एषॊ ऽहं वयक्तिम आगम्य तिष्ठामि दिवि शाश्वतः
ततॊ युगसहस्रान्ते संहरिष्ये जगत पुनः
कृत्वात्म सथानि भूतानि सथावराणि चराणि च
MBh 12.326.67
एकाकी विद्यया सार्धं विहरिष्ये दविजॊत्तम
ततॊ भूयॊ जगत सर्वं करिष्यामीह विद्यया
MBh 12.326.68
अस्मन मूर्तिश चतुर्थी या सासृजच छेषम अव्ययम
स हि संकर्षणः परॊक्तः परद्युम्नं सॊ ऽपय अजीजनत
MBh 12.326.69
परद्युम्नाद अनिरुद्धॊ ऽहं सर्गॊ मम पुनः पुनः
अनिरुद्धात तथा बरह्मा तत्रादि कमलॊद्भवः
MBh 12.326.70
बरह्मणः सर्वभूतानि चराणि सथावराणि च
एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः
MBh 12.326.71
यथा सूर्यस्य गगनाद उदयास्त मयाव इह
नस्तौ पुनर बलात काल आनयत्य अमितद्युतिः
तथा बलाद अहं पृथ्वीं सर्वभूतहिताय वै
MBh 12.326.72
सत्त्वैर आक्रान्त सर्वाङ्गां नस्तां सागरमेखलाम
आनयिष्यामि सवं सथानं वाराहं रूपम आस्थितः
MBh 12.326.73
हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम
MBh 12.326.74
विरॊचनस्य बलवान बलिः पुत्रॊ महासुरः
भविष्यति स शक्रं च सवराज्याच चयावयिष्यति
MBh 12.326.75
तरैलॊक्ये ऽपहृते तेन विमुखे च शचीपतौ
अदित्यां दवादशः पुत्रः संभविष्यामि कश्यपात
MBh 12.326.76
ततॊ राज्यं परदास्यामि शक्रायामित तेजसे
देवताः सथापयिष्यामि सवेषु सथानेषु नारद
बलिं चैव करिष्यामि पातालतलवासिनम
MBh 12.326.77
तरेतायुगे भविष्यामि रामॊ भृगुकुलॊद्वहः
कषत्रं चॊत्सादयिष्यामि समृद्धबलवाहनम
MBh 12.326.78
संधौ तु समनुप्राप्ते तरेतायां दवापरस्य च
रामॊ दाशरथिर भूत्वा भविष्यामि जगत्पतिः
MBh 12.326.79
तरितॊपघाताद वैरूप्यम एकतॊ ऽथ दवितस तथा
पराप्स्यतॊ वारणत्वं हि परजापतिसुताव ऋषी
MBh 12.326.80
तयॊर ये तव अन्वये जाता भविष्यन्ति वनौकसः
ते सहाया भविष्यन्ति सुरकार्ये मम दविज
MBh 12.326.81
ततॊ रक्षःपतिं घॊरं पुलस्त्य कुलपांसनम
हनिष्ये रावणं संख्ये सगणं लॊककन्तकम
MBh 12.326.82
दवापरस्य कलेश चैव संधौ पर्यवसानिके
परादुर्भावः कंस हेतॊर मथुरायां भविष्यति
MBh 12.326.83
तत्राहं दानवान हत्वा सुबहून देवकन्तकान
कुशस्थलीं करिष्यामि निवासं दवारकां पुरीम
MBh 12.326.84
वसानस तत्र वै पुर्याम अदितेर विप्रियं करम
हनिष्ये नरकं भौमं मुरं पीथं च दानवम
MBh 12.326.85
पराग्ज्यॊतिष पुरं रम्यं नाना धनसमन्वितम
कुशस्थलीं नयिष्यामि हत्वा वै दानवॊत्तमान
MBh 12.326.86
शंकरं च महासेनं बान परियहितैषिणम
पराजेष्याम्य अथॊद्युक्तौ देवलॊकनमस्कृतौ
MBh 12.326.87
ततः सुतं बलेर जित्वा बानं बाहुसहस्रिणम
विनाशयिष्यामि ततः सर्वान सौभनिवासिनः
MBh 12.326.88
यः कालयवनः खयातॊ गर्ग तेजॊ ऽभिसंवृतः
भविष्यति वधस तस्य मत्त एव दविजॊत्तम
MBh 12.326.89
जरासंधश च बलवान सर्वराजविरॊधकः
भविष्यत्य असुरः सफीतॊ भूमिपालॊ गिरिव्रजे
मम बुद्धिपरिस्पन्दाद वधस तस्य भविष्यति
MBh 12.326.90
समागतेषु बलिषु पृथिव्यां सर्वराजसु
वासविः सुसहायॊ वै मम हय एकॊ भविष्यति
MBh 12.326.91
एवं लॊका वदिष्यन्ति नरनारायणाव ऋषी
उद्युक्तौ दहतः कषत्रं लॊककार्यार्थम ईश्वरौ
MBh 12.326.92
कृत्वा भावावतरणं वसुधाया यथेप्सितम
सर्वसात्वत मुख्यानां दवारकायाश च सत्तम
करिष्ये परलयं घॊरम आत्मज्ञाति विनाशनम
MBh 12.326.93
कर्माण्य अपरिमेयानि चतुर्मूर्ति धरॊ हय अहम
कृत्वा लॊकान गमिष्यामि सवान अहं बरह्म सत्कृतान
MBh 12.326.94
हंसॊ हयशिराश चैव परादुर्भावा दविजॊत्तम
यदा वेदश्रुतिर नस्ता मया परत्याहृता तदा
सवेदाः सश्रुतीकाश च कृताः पूर्वं कृते युगे
MBh 12.326.95
अतिक्रान्ताः पुराणेषु शरुतास ते यदि वा कव चित
अतिक्रान्ताश च बहवः परादुर्भावा ममॊत्तमाः
लॊककार्याणि कृत्वा च पुनः सवां परकृतिं गताः
MBh 12.326.96
न हय एतद बरह्मणा पराप्तम ईदृशं मम दर्शनम
यत तवया पराप्तम अद्येह एकान्तगतबुद्धिना
MBh 12.326.97
एतत ते सर्वम आख्यातं बरह्मन भक्तिमतॊ मया
पुराणं च भविष्यं च सरहस्यं च सत्तम
MBh 12.326.98
एवं स भगवान देवॊ विश्वमूर्ति धरॊ ऽवययः
एतावद उक्त्वा वचनं तत्रैवान्तरधीयत
MBh 12.326.99
नारदॊ ऽपि महातेजाः पराप्यानुग्रहम ईप्सितम
नरनारायणौ दरष्टुं पराद्रवद बदराश्रमम
MBh 12.326.100
इदं महॊपनिषदं चतुर्वेद समन्वितम
सांख्ययॊगकृतं तेन पञ्चरात्रानुशब्दितम
MBh 12.326.101
नारायण मुखॊद्गीतं नारदॊ ऽशरावयत पुनः
बरह्मणः सदने तात यथादृष्टं यथा शरुतम
MBh 12.326.102
[युधिस्थिर]
एतद आश्चर्यभूतं हि माहात्म्यं तस्य धीमतः
किं बरह्मा न विजानीते यतः शुश्राव नारदात
MBh 12.326.103
पितामहॊ हि भगवांस तस्माद देवाद अनन्तरः
कथं स न विजानीयात परभावम अमितौजसः
MBh 12.326.104
[भीस्म]
महाकल्पसहस्राणि महाकल्पशतानि च
समतीतानि राजेन्द्र सर्गाश च परलयाश च ह
MBh 12.326.105
सर्गस्यादौ समृतॊ बरह्मा परजा सर्ग करः परभुः
जानाति देवप्रवरं भूयश चातॊ ऽधिकं नृप
परमात्मानम ईशानम आत्मनः परभवं तथा
MBh 12.326.106
ये तव अन्ये बरह्म सदने सिद्धसंघाः समागताः
तेभ्यस तच छरावयाम आस पुराणं वेद संमितम
MBh 12.326.107
तेषां सकाशात सूर्यश च शरुत्वा वै भावितात्मनाम
आत्मानुगामिनां बरह्म शरावयाम आस भारत
MBh 12.326.108
षट षष्टिर हि सहस्राणि ऋषीणां भावितात्मनाम
सूर्यस्य तपतॊ लॊकान निर्मिता ये पुरःसराः
तेषाम अकथयत सूर्यः सर्वेषां भावितात्मनाम
MBh 12.326.109
सूर्यानुगामिभिस तात ऋषिभिस तैर महात्मभिः
मेरौ समागता देवाः शराविताश चेदम उत्तमम
MBh 12.326.110
देवानां तु सकाशाद वै ततः शरुत्वासितॊ दविजः
शरावयाम आस राजेन्द्र पितॄणां मुनिसत्तमः
MBh 12.326.111
मम चापि पिता तात कथयाम आस शंतनुः
ततॊ मयैतच छरुत्वा च कीर्तितं तव भारत
MBh 12.326.112
सुरैर वा मुनिभिर वापि पुराणं यैर इदं शरुतम
सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः
MBh 12.326.113
इदम आख्यानम आर्षेयं पारम्पर्यागतं नृप
नावासुदेव भक्ताय तवया देयं कथं चन
MBh 12.326.114
मत्तॊ ऽनयानि च ते राजन्न उपाख्यान शतानि वै
यानि शरुतानि धर्म्याणि तेषां सारॊ ऽयम उद्धृतः
MBh 12.326.115
सुरासुरैर यथा राजन निर्मथ्यामृतम उद्धृतम
एवम एतत पुरा विप्रैः कथामृतम इहॊद्धृतम
MBh 12.326.116
यश चेदं पथते नित्यं यश चेदं शृणुयान नरः
एकान्तभावॊपगत एकान्ते सुसमाहितः
MBh 12.326.117
पराप्य शवेतं महाद्वीपं भूत्वा चन्द्रप्रभॊ नरः
स सहस्रार्चिषं देवं परविशेन नात्र संशयः
MBh 12.326.118
मुच्येतार्तस तथा रॊगाच छरुत्वेमाम आदितः कथाम
जिज्ञासुर लभते कामान भक्तॊ भक्त गतिं वरजेत
MBh 12.326.119
तवयापि सततं राजन्न अभ्यर्च्यः पुरुषॊत्तमः
स हि माता पिता चैव कृत्स्नस्य जगतॊ गुरुः
MBh 12.326.120
बरह्मण्य देवॊ भगवान परीयतां ते सनातनः
युधिष्ठिर महाबाहॊ महाबाहुर जनार्दनः
MBh 12.326.121
[वैषम्पायन]
शरुत्वैतद आख्यान वरं धर्मराज जनमेजय
भरातरश चास्य ते सर्वे नारायण पराभवन
MBh 12.326.122
जितं भगवता तेन पुरुषेणेति भारत
नित्यं जप्यपरा भूत्वा सरस्वतीम उदीरयन
MBh 12.326.123
यॊ हय अस्माकं गुरुः शरेष्ठः कृष्ण दवैपयनॊ मुनिः
स जगौ परमं जप्यं नारायणम उदीरयन
MBh 12.326.124
गत्वान्तरिक्षात सततं कषीरॊदम अमृताशयम
पूजयित्वा च देवेशं पुनर आयात सवम आश्रमम
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 325
- Next chapter · Śānti-Parva Ch 327 →
🪷 जय व्यास भगवान् 🪷