🪷 Mahābhārata · Mauṣala-Parva · Chapter 9

The Book of the Clubs · Parva 16 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 38 Shlokas

MBh 16.9.1
वैशंपायन उवाच प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम्
MBh 16.9.2
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः
MBh 16.9.3
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः
MBh 16.9.4
तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम्
MBh 16.9.5
अवीरजोऽभिघातस्ते ब्राह्मणो वा हतस्त्वया युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे
MBh 16.9.6
न त्वा प्रत्यभिजानामि किमिदं भरतर्षभ श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि
MBh 16.9.7
अर्जुन उवाच यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः
MBh 16.9.8
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः बभूव वीरान्तकरः प्रभासे रोमहर्षणः
MBh 16.9.9
ये ते शूरा महात्मानः सिंहदर्पा महाबलाः भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि
MBh 16.9.10
गदापरिघशक्तीनां सहाः परिघबाहवः त एरकाभिर्निहताः पश्य कालस्य पर्ययम्
MBh 16.9.11
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् निधनं समनुप्राप्तं समासाद्येतरेतरम्
MBh 16.9.12
पुनः पुनर्न मृष्यामि विनाशममितौजसाम् चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः
MBh 16.9.13
शोषणं सागरस्येव पर्वतस्येव चालनम् नभसः पतनं चैव शैत्यमग्नेस्तथैव च
MBh 16.9.14
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः
MBh 16.9.15
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः
MBh 16.9.16
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः
MBh 16.9.17
धनुरादाय तत्राहं नाशकं तस्य पूरणे यथा पुरा च मे वीर्यं भुजयोर्न तथाभवत्
MBh 16.9.18
अस्त्राणि मे प्रनष्टानि विविधानि महामुने शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः
MBh 16.9.19
पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः
MBh 16.9.20
यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिः प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम्
MBh 16.9.21
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम्
MBh 16.9.22
तमपश्यन्विषीदामि घूर्णामीव च सत्तम परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च
MBh 16.9.23
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः
MBh 16.9.24
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः उपदेष्टुं मम श्रेयो भवानर्हति सत्तम
MBh 16.9.25
व्यास उवाच ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि
MBh 16.9.26
भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम् उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम्
MBh 16.9.27
त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम्
MBh 16.9.28
रथस्य पुरतो याति यः स चक्रगदाधरः तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः
MBh 16.9.29
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः मोक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम्
MBh 16.9.30
त्वया त्विह महत्कर्म देवानां पुरुषर्षभ कृतं भीमसहायेन यमाभ्यां च महाभुज
MBh 16.9.31
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुंगव गमनं प्राप्तकालं च तद्धि श्रेयो मतं मम
MBh 16.9.32
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत भवन्ति भवकालेषु विपद्यन्ते विपर्यये
MBh 16.9.33
कालमूलमिदं सर्वं जगद्बीजं धनंजय काल एव समादत्ते पुनरेव यदृच्छया
MBh 16.9.34
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः
MBh 16.9.35
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति
MBh 16.9.36
कालो गन्तुं गतिं मुख्यां भवतामपि भारत एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ
MBh 16.9.37
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम्
MBh 16.9.38
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 38 source-pinned Devanāgarī addresses to Mauṣala-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 16.9local chapter route · Mauṣala-ParvaMauṣala-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷