🪷 Mahābhārata · Mauṣala-Parva · Chapter 8
The Book of the Clubs · Parva 16 · 74 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 74 Shlokas
MBh 16.8.1
वैशंपायन उवाच
एवमुक्तः स बीभत्सुर्मातुलेन परंतपः
दुर्मना दीनमनसं वसुदेवमुवाच ह
MBh 16.8.2
नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो
MBh 16.8.3
राजा च भीमसेनश्च सहदेवश्च पाण्डवः
नकुलो याज्ञसेनी च षडेकमनसो वयम्
MBh 16.8.4
राज्ञः संक्रमणे चापि कालोऽयं वर्तते ध्रुवम्
तमिमं विद्धि संप्राप्तं कालं कालविदां वर
MBh 16.8.5
सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम
MBh 16.8.6
इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम्
MBh 16.8.7
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम्
प्रविवेशार्जुनः शूरः शोचमानो महारथान्
MBh 16.8.8
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा
ब्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे
MBh 16.8.9
तान्दीनमनसः सर्वान्निभृतान्गतचेतसः
उवाचेदं वचः पार्थः स्वयं दीनतरस्तदा
MBh 16.8.10
शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम्
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति
MBh 16.8.11
सज्जीकुरुत यानानि रत्नानि विविधानि च
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति
MBh 16.8.12
सप्तमे दिवसे चैव रवौ विमल उद्गते
बहिर्वत्स्यामहे सर्वे सज्जीभवत माचिरम्
MBh 16.8.13
इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः
MBh 16.8.14
तां रात्रिमवसत्पार्थः केशवस्य निवेशने
महता शोकमोहेन सहसाभिपरिप्लुतः
MBh 16.8.15
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान्
युक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम्
MBh 16.8.16
ततः शब्दो महानासीद्वसुदेवस्य वेश्मनि
दारुणः क्रोशतीनां च रुदतीनां च योषिताम्
MBh 16.8.17
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रियः
MBh 16.8.18
तं देवकी च भद्रा च रोहिणी मदिरा तथा
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः
MBh 16.8.19
ततः शौरिं नृयुक्तेन बहुमाल्येन भारत
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा
MBh 16.8.20
तमन्वयुस्तत्र तत्र दुःखशोकसमाहताः
द्वारकावासिनः पौराः सर्व एव नरर्षभ
MBh 16.8.21
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः
MBh 16.8.22
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलंकृताः
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः
MBh 16.8.23
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः
तत्रैनमुपसंकल्प्य पितृमेधं प्रचक्रिरे
MBh 16.8.24
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः
ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः
MBh 16.8.25
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि
MBh 16.8.26
ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः
सामगानां च निर्घोषो नराणां रुदतामपि
MBh 16.8.27
ततो वज्रप्रधानास्ते वृष्णिवीरकुमारकाः
सर्व एवोदकं चक्रुः स्त्रियश्चैव महात्मनः
MBh 16.8.28
अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ
MBh 16.8.29
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः
बभूवातीव कौरव्यः प्राप्तकालं चकार च
MBh 16.8.30
यथाप्रधानतश्चैव चक्रे सर्वाः क्रियास्तदा
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः
MBh 16.8.31
ततः शरीरे रामस्य वासुदेवस्य चोभयोः
अन्विष्य दाहयामास पुरुषैराप्तकारिभिः
MBh 16.8.32
स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः
अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि
MBh 16.8.33
स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः
अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनंजयम्
MBh 16.8.34
भृत्यास्त्वन्धकवृष्णीनां सादिनो रथिनश्च ये
वीरहीनं वृद्धबालं पौरजानपदास्तथा
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात्
MBh 16.8.35
कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा
सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः
MBh 16.8.36
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः
MBh 16.8.37
दश षट्च सहस्राणि वासुदेवावरोधनम्
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः
MBh 16.8.38
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः
MBh 16.8.39
तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत्
उवाह रथिनां श्रेष्ठः पार्थः परपुरंजयः
MBh 16.8.40
निर्याते तु जने तस्मिन्सागरो मकरालयः
द्वारकां रत्नसंपूर्णां जलेनाप्लावयत्तदा
MBh 16.8.41
तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन्
MBh 16.8.42
काननेषु च रम्येषु पर्वतेषु नदीषु च
निवसन्नानयामास वृष्णिदारान्धनंजयः
MBh 16.8.43
स पञ्चनदमासाद्य धीमानतिसमृद्धिमत्
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः
MBh 16.8.44
ततो लोभः समभवद्दस्यूनां निहतेश्वराः
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत
MBh 16.8.45
ततस्ते पापकर्माणो लोभोपहतचेतसः
आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः
MBh 16.8.46
अयमेकोऽर्जुनो योद्धा वृद्धबालं हतेश्वरम्
नयत्यस्मानतिक्रम्य योधाश्चेमे हतौजसः
MBh 16.8.47
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः
MBh 16.8.48
महता सिंहनादेन द्रावयन्तः पृथग्जनम्
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः
MBh 16.8.49
ततो निवृत्तः कौन्तेयः सहसा सपदानुगः
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव
MBh 16.8.50
निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः
नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मया
MBh 16.8.51
तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः
अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः
MBh 16.8.52
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत्
आरोपयितुमारेभे यत्नादिव कथंचन
MBh 16.8.53
चकार सज्यं कृच्छ्रेण संभ्रमे तुमुले सति
चिन्तयामास चास्त्राणि न च सस्मार तान्यपि
MBh 16.8.54
वैकृत्यं तन्महद्दृष्ट्वा भुजवीर्ये तथा युधि
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत्
MBh 16.8.55
वृष्णियोधाश्च ते सर्वे गजाश्वरथयायिनः
न शेकुरावर्तयितुं ह्रियमाणं च तं जनम्
MBh 16.8.56
कलत्रस्य बहुत्वात्तु संपतत्सु ततस्ततः
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे
MBh 16.8.57
मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः
समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः
MBh 16.8.58
ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सह प्रभुः
MBh 16.8.59
क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः
MBh 16.8.60
स शरक्षयमासाद्य दुःखशोकसमाहतः
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः
MBh 16.8.61
प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः
जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय
MBh 16.8.62
धनंजयस्तु दैवं तन्मनसाचिन्तयत्प्रभुः
दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत्
MBh 16.8.63
अस्त्राणां च प्रणाशेन बाहुवीर्यस्य संक्षयात्
धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च
MBh 16.8.64
बभूव विमनाः पार्थो दैवमित्यनुचिन्तयन्
न्यवर्तत ततो राजन्नेदमस्तीति चाब्रवीत्
MBh 16.8.65
ततः स शेषमादाय कलत्रस्य महामतिः
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत्
MBh 16.8.66
एवं कलत्रमानीय वृष्णीनां हृतशेषितम्
न्यवेशयत कौरव्यस्तत्र तत्र धनंजयः
MBh 16.8.67
हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम्
भोजराजकलत्रं च हृतशेषं नरोत्तमः
MBh 16.8.68
ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत्
MBh 16.8.69
यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम्
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम्
MBh 16.8.70
इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः
MBh 16.8.71
रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि
देवी जाम्बवती चैव विविशुर्जातवेदसम्
MBh 16.8.72
सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः
MBh 16.8.73
द्वारकावासिनो ये तु पुरुषाः पार्थमन्वयुः
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः
MBh 16.8.74
स तत्कृत्वा प्राप्तकालं बाष्पेणापिहितोऽर्जुनः
कृष्णद्वैपायनं राजन्ददर्शासीनमाश्रमे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Mauṣala-Parva chapter-index (9 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Mauṣala-Parva Ch 7
- Next chapter · Mauṣala-Parva Ch 9 →
Sources and Connected Readings
Continue from these 74 source-pinned Devanāgarī addresses to Mauṣala-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 16.8local chapter route · Mauṣala-ParvaMauṣala-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷