🪷 Mahābhārata · Mauṣala-Parva · Chapter 7
The Book of the Clubs · Parva 16 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 22 Shlokas
MBh 16.7.1
वैशंपायन उवाच
तं शयानं महात्मानं वीरमानकदुन्दुभिम्
पुत्रशोकाभिसंतप्तं ददर्श कुरुपुंगवः
MBh 16.7.2
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत
MBh 16.7.3
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः
रुदन्पुत्रान्स्मरन्सर्वान्विललाप सुविह्वलः
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीनपि
MBh 16.7.4
वसुदेव उवाच
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन
तान्दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः
MBh 16.7.5
यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा
तयोरपनयात्पार्थ वृष्णयो निधनं गताः
MBh 16.7.6
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ
प्रद्युम्नो युयुधानश्च कथयन्कत्थसे च यौ
MBh 16.7.7
नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः
तावुभौ वृष्णिनाशस्य मुखमास्तां धनंजय
MBh 16.7.8
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम्
MBh 16.7.9
केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः
विदेहावकरोत्पार्थ चैद्यं च बलगर्वितम्
MBh 16.7.10
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान्
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान्
MBh 16.7.11
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान्
सोऽभ्युपेक्षितवानेतमनयं मधुसूदनः
MBh 16.7.12
ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखीनपि
शयानान्निहतान्दृष्ट्वा ततो मामब्रवीदिदम्
MBh 16.7.13
संप्राप्तोऽद्यायमस्यान्तः कुलस्य पुरुषर्षभ
आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम्
MBh 16.7.14
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत्
स तु श्रुत्वा महातेजा यदूनामनयं प्रभो
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा
MBh 16.7.15
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु
यद्ब्रूयात्तत्तथा कार्यमिति बुध्यस्व माधव
MBh 16.7.16
स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम्
MBh 16.7.17
इमां च नगरीं सद्यः प्रतियाते धनंजये
प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति
MBh 16.7.18
अहं हि देशे कस्मिंश्चित्पुण्ये नियममास्थितः
कालं कर्ता सद्य एव रामेण सह धीमता
MBh 16.7.19
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः
हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः
MBh 16.7.20
सोऽहं तौ च महात्मानौ चिन्तयन्भ्रातरौ तव
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः
MBh 16.7.21
न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव
यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु
MBh 16.7.22
एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Mauṣala-Parva chapter-index (9 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Mauṣala-Parva Ch 6
- Next chapter · Mauṣala-Parva Ch 8 →
Sources and Connected Readings
Continue from these 22 source-pinned Devanāgarī addresses to Mauṣala-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 16.7local chapter route · Mauṣala-ParvaMauṣala-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷