🪷 Mahābhārata · Mahā-Prasthāna-Parva · Chapter 1

The Book of the Great Journey · Parva 17 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 44 Shlokas

MBh 17.1.1
जनमेजय उवाच एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते
MBh 17.1.2
वैशंपायन उवाच श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत्
MBh 17.1.3
कालः पचति भूतानि सर्वाण्येव महामते कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि
MBh 17.1.4
इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान्
MBh 17.1.5
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना
MBh 17.1.6
ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः
MBh 17.1.7
अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः
MBh 17.1.8
एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति यदूनां परिशेषश्च वज्रो राजा कृतश्च ह
MBh 17.1.9
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः
MBh 17.1.10
इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः मातुलस्य च वृद्धस्य रामादीनां तथैव च
MBh 17.1.11
भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा
MBh 17.1.12
ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः
MBh 17.1.13
कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम् शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः
MBh 17.1.14
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः
MBh 17.1.15
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः
MBh 17.1.16
नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम् न च राजा तथाकार्षीत्कालपर्यायधर्मवित्
MBh 17.1.17
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा
MBh 17.1.18
ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत
MBh 17.1.19
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी तथैव सर्वे जगृहुर्वल्कलानि जनाधिप
MBh 17.1.20
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुंगवाः
MBh 17.1.21
ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा
MBh 17.1.22
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च
MBh 17.1.23
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा
MBh 17.1.24
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् न्यवर्तन्त ततः सर्वे नरा नगरवासिनः
MBh 17.1.25
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा
MBh 17.1.26
चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन्
MBh 17.1.27
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः
MBh 17.1.28
योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा
MBh 17.1.29
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम्
MBh 17.1.30
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम
MBh 17.1.31
श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम्
MBh 17.1.32
गाण्डीवं च धनुर्दिव्यं न मुमोच धनंजयः रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी
MBh 17.1.33
अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम्
MBh 17.1.34
ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् भो भो पाण्डुसुता वीराः पावकं मां विबोधत
MBh 17.1.35
युधिष्ठिर महाबाहो भीमसेन परंतप अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम
MBh 17.1.36
अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् अर्जुनस्य प्रभावेण तथा नारायणस्य च
MBh 17.1.37
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन
MBh 17.1.38
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह
MBh 17.1.39
वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम्
MBh 17.1.40
ततस्ते भ्रातरः सर्वे धनंजयमचोदयन् स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी
MBh 17.1.41
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः
MBh 17.1.42
ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम्
MBh 17.1.43
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते ददृशुर्द्वारकां चापि सागरेण परिप्लुताम्
MBh 17.1.44
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 44 source-pinned Devanāgarī addresses to Mahā-Prasthāna-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 17.1local chapter route · Mahā-Prasthāna-ParvaMahā-Prasthāna-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷