🪷 Mahābhārata · Mahā-Prasthāna-Parva · Chapter 2

The Book of the Great Journey · Parva 17 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 17.2.1
वैशंपायन उवाच ततस्ते नियतात्मान उदीचीं दिशमास्थिताः ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम्
MBh 17.2.2
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम्
MBh 17.2.3
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् याज्ञसेनी भ्रष्टयोगा निपपात महीतले
MBh 17.2.4
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह
MBh 17.2.5
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि
MBh 17.2.6
युधिष्ठिर उवाच पक्षपातो महानस्या विशेषेण धनंजये तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम
MBh 17.2.7
वैशंपायन उवाच एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः
MBh 17.2.8
सहदेवस्ततो धीमान्निपपात महीतले तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत्
MBh 17.2.9
योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि
MBh 17.2.10
युधिष्ठिर उवाच आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन तेन दोषेण पतितस्तस्मादेष नृपात्मजः
MBh 17.2.11
वैशंपायन उवाच इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः
MBh 17.2.12
कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह
MBh 17.2.13
तस्मिन्निपतिते वीरे नकुले चारुदर्शने पुनरेव तदा भीमो राजानमिदमब्रवीत्
MBh 17.2.14
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः रूपेणाप्रतिमो लोके नकुलः पतितो भुवि
MBh 17.2.15
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः
MBh 17.2.16
रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम्
MBh 17.2.17
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते
MBh 17.2.18
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः पपात शोकसंतप्तस्ततोऽनु परवीरहा
MBh 17.2.19
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत्
MBh 17.2.20
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः अथ कस्य विकारोऽयं येनायं पतितो भुवि
MBh 17.2.21
युधिष्ठिर उवाच एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् न च तत्कृतवानेष शूरमानी ततोऽपतत्
MBh 17.2.22
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता
MBh 17.2.23
वैशंपायन उवाच इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम्
MBh 17.2.24
भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह
MBh 17.2.25
युधिष्ठिर उवाच अतिभुक्तं च भवता प्राणेन च विकत्थसे अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ
MBh 17.2.26
वैशंपायन उवाच इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Mahā-Prasthāna-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 17.2local chapter route · Mahā-Prasthāna-ParvaMahā-Prasthāna-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷