🪷 Mahābhārata · Mahā-Prasthāna-Parva · Chapter 3

The Book of the Great Journey · Parva 17 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 36 Shlokas

MBh 17.3.1
वैशंपायन उवाच ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम्
MBh 17.3.2
स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः
MBh 17.3.3
भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर
MBh 17.3.4
सुकुमारी सुखार्हा च राजपुत्री पुरंदर सास्माभिः सह गच्छेत तद्भवाननुमन्यताम्
MBh 17.3.5
इन्द्र उवाच भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान् कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ
MBh 17.3.6
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः
MBh 17.3.7
युधिष्ठिर उवाच अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह स गच्छेत मया सार्धमानृशंस्या हि मे मतिः
MBh 17.3.8
इन्द्र उवाच अमर्त्यत्वं मत्समत्वं च राज;ञ्श्रियं कृत्स्नां महतीं चैव कीर्तिम् संप्राप्तोऽद्य स्वर्गसुखानि च त्वं; त्यज श्वानं नात्र नृशंसमस्ति
MBh 17.3.9
युधिष्ठिर उवाच अनार्यमार्येण सहस्रनेत्र; शक्यं कर्तुं दुष्करमेतदार्य मा मे श्रिया संगमनं तयास्तु; यस्याः कृते भक्तजनं त्यजेयम्
MBh 17.3.10
इन्द्र उवाच स्वर्गे लोके श्ववतां नास्ति धिष्ण्य;मिष्टापूर्तं क्रोधवशा हरन्ति ततो विचार्य क्रियतां धर्मराज; त्यज श्वानं नात्र नृशंसमस्ति
MBh 17.3.11
युधिष्ठिर उवाच भक्तत्यागं प्राहुरत्यन्तपापं; तुल्यं लोके ब्रह्मवध्याकृतेन तस्मान्नाहं जातु कथंचनाद्य; त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र
MBh 17.3.12
इन्द्र उवाच शुना दृष्टं क्रोधवशा हरन्ति; यद्दत्तमिष्टं विवृतमथो हुतं च तस्माच्छुनस्त्यागमिमं कुरुष्व; शुनस्त्यागात्प्राप्स्यसे देवलोकम्
MBh 17.3.13
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां; प्राप्तो लोकः कर्मणा स्वेन वीर श्वानं चैनं न त्यजसे कथं नु; त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य
MBh 17.3.14
युधिष्ठिर उवाच न विद्यते संधिरथापि विग्रहो; मृतैर्मर्त्यैरिति लोकेषु निष्ठा न ते मया जीवयितुं हि शक्या; तस्मात्त्यागस्तेषु कृतो न जीवताम्
MBh 17.3.15
प्रतिप्रदानं शरणागतस्य; स्त्रिया वधो ब्राह्मणस्वापहारः मित्रद्रोहस्तानि चत्वारि शक्र; भक्तत्यागश्चैव समो मतो मे
MBh 17.3.16
वैशंपायन उवाच तद्धर्मराजस्य वचो निशम्य; धर्मस्वरूपी भगवानुवाच युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं; श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः
MBh 17.3.17
अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया अनुक्रोशेन चानेन सर्वभूतेषु भारत
MBh 17.3.18
पुरा द्वैतवने चासि मया पुत्र परीक्षितः पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः
MBh 17.3.19
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि
MBh 17.3.20
अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप
MBh 17.3.21
अतस्तवाक्षया लोकाः स्वशरीरेण भारत प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम्
MBh 17.3.22
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि देवा देवर्षयश्चैव रथमारोप्य पाण्डवम्
MBh 17.3.23
प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः
MBh 17.3.24
स तं रथं समास्थाय राजा कुरुकुलोद्वहः ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी
MBh 17.3.25
ततो देवनिकायस्थो नारदः सर्वलोकवित् उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः
MBh 17.3.26
येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति
MBh 17.3.27
लोकानावृत्य यशसा तेजसा वृत्तसंपदा स्वशरीरेण संप्राप्तं नान्यं शुश्रुम पाण्डवात्
MBh 17.3.28
नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान्
MBh 17.3.29
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये
MBh 17.3.30
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम्
MBh 17.3.31
स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि
MBh 17.3.32
सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् नैव ते भ्रातरः स्थानं संप्राप्ताः कुरुनन्दन
MBh 17.3.33
अद्यापि मानुषो भावः स्पृशते त्वां नराधिप स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान्
MBh 17.3.34
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत्
MBh 17.3.35
तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः
MBh 17.3.36
यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया मम

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 36 source-pinned Devanāgarī addresses to Mahā-Prasthāna-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 17.3local chapter route · Mahā-Prasthāna-ParvaMahā-Prasthāna-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷