🪷 Mahābhārata · Svargārohaṇa-Parva · Chapter 1
The Book of the Ascent to Heaven · Parva 18 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 26 Shlokas
MBh 18.1.1
जनमेजय उवाच
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे
MBh 18.1.2
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः
महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा
MBh 18.1.3
वैशंपायन उवाच
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु
MBh 18.1.4
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः
दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने
MBh 18.1.5
भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम्
देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः
MBh 18.1.6
ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः
सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने
MBh 18.1.7
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै
सहितः कामये लोकाँल्लुब्धेनादीर्घदर्शिना
MBh 18.1.8
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा
हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने
MBh 18.1.9
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी
परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ
MBh 18.1.10
स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम्
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम
MBh 18.1.11
मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव
स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति
MBh 18.1.12
युधिष्ठिर महाबाहो मैवं वोचः कथंचन
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम
MBh 18.1.13
एष दुर्योधनो राजा पूज्यते त्रिदशैः सह
सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः
MBh 18.1.14
वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम्
यूयं सर्वे सुरसमा येन युद्धे समासिताः
MBh 18.1.15
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान्
भये महति योऽभीतो बभूव पृथिवीपतिः
MBh 18.1.16
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम्
द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि
MBh 18.1.17
ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः
संग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि
MBh 18.1.18
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै
स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप
MBh 18.1.19
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः
भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह
MBh 18.1.20
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः
अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः
MBh 18.1.21
यत्कृते पृथिवी नष्टा सहया सरथद्विपा
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः
MBh 18.1.22
ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः
MBh 18.1.23
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम्
कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम्
MBh 18.1.24
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान्
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः
MBh 18.1.25
क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद
विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान्
MBh 18.1.26
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Svargārohaṇa-Parva chapter-index (5 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Mahā-Prasthāna-Parva Ch 3
- Next chapter · Svargārohaṇa-Parva Ch 2 →
Sources and Connected Readings
Continue from these 26 source-pinned Devanāgarī addresses to Svargārohaṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 18.1local chapter route · Svargārohaṇa-ParvaSvargārohaṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷